________________
15
* प्रभावकचरिते
480६७. अथान्येयुर्जिते धर्मे धनपालेन मालवे । एक एव महीपीठे कविस्त्वमिति मानिते ॥ ९२ ।।
प्रोक्ते च धनपालेन बुधोऽणहिल्लपत्तने । अस्ति श्वेताम्बराचार्यः शान्तिसूरिः परो न हि ॥९॥ दिनैः कियद्भिरभ्यागात् तं द्रष्टुं धर्मकोविदः । स्वर्गश्रीगर्वसर्वस्वहरं श्रीपत्तनं पुरम् ॥ ९४ ॥ थारापद्रमहाचैत्यप्रत्यासन्नमठं ततः । श्रुत्वागादपराहेऽसौ बुधदर्शनकौतुकी' ॥ ९५ ॥ तदानीं स प्रभुदेहे कण्डूपीडित औषधम् । विमृज्य पिहितद्वाराररिस्तदुचितांशुकः ॥ ९६ ॥ संवीक्ष्य कुश्चिकाछिद्राज्ज्ञापितं यतिभिर्गुरुम् । पृच्छयैव विजेष्येऽमुं धर्मो ध्यात्वेति तं जगौ ॥ ९७ ॥ 'कस्त्व'मत्रोत्तरं सूरिः प्रादाद् 'देव' इति स्फुटम् । 'देवः क' इति तत्प्रश्ने त्वहमि'त्युत्तरं ददौ ॥ ९८ ॥ 'अहं क' इति पृच्छायां 'श्वे'ति वाचमवोचत । 'श्वा क' एतादृशि प्रश्ने 'त्वमि'त्युत्तरमातनोत् ॥ ९९ ॥ पुनः त्वं क' इति प्रों वितीर्ण प्राग्वदुत्तरम् । तयोश्चक्रकमेतद्धि जज्ञेऽनन्तमनन्तवत् ॥ १० ॥ ततश्चमत्कृतः सोऽभूद् द्वार उद्घटिते सति । स तत्त्वोपप्लवग्रन्थाभ्यासोपन्यासमातनोत् ॥ १०१ ॥ वितण्डाविरते चात्र श्रीशान्त्याचार्य उज्जगौ। 'कृतसर्वानुवादोऽत्र प्रतिज्ञस्तं विवादिनम ॥ १०२।। ममार्पय निजं वेषं योगपट्टादिकं तथा। अङ्गचेष्टाः समस्तास्ते विधीयन्ते तथा 'तथा ॥१०॥ तथा कृते च सर्वत्र धर्मोऽवाद्यतिविस्मितः । पादावस्य प्रणम्याह नाहमीशों भवजये ॥ १०४॥ बुधस्त्वमेव च श्रीमन् ! धनपालोदितं वचः । प्रतीतमेव मच्चित्ते तादृक्किमनृतं वदेत् ।। १०५॥ .
इत्युक्त्वा प्रययौ स्थानं निजं स निरहंकृतिः । अहंकारनियां नामाभिचारपरमौषधिः ॥ १०६ ॥ ६८. अथ द्रविडदेशीयोऽन्यदा वादी समागमत् । अव्यक्तं भैरवाशब्दानुकारं किमपि ब्रुवन् ॥१०॥
प्रभवस्तस्य भाषायामभिज्ञा अपि कौतुकात् । भित्तिस्थे घोटके हस्तं दत्त्वाभिदधिरे स्फुटम् ॥ १०८॥ वद त्वमन्यदेशीयवादिना सह सङ्गतम् । अव्यक्तवादी पशुवद् योग्योऽयं तिर्यगाकृतेः ॥ १०९ ॥ वदतीत्थं प्रभौ सांक्रामिकसारखतोत्तरे । तुरङ्गमप्रतिकृतिस्तरलं साऽवदद् भृशम् ॥ ११०॥ विकल्पैर्गहनैः कष्टादप्यशक्यानुवादिभिः । तथा निरुत्तरः पश्वाकारं खं तेन लम्भितः ॥ १११॥ .
गते निर्विद्यतेऽस्मिंश्च कांदिशीके जनोऽवदत् । अस्मिंस्तपति नास्त्यन्यो वादी वाग्देवतावरात् ॥ ११२॥ ६९. विहारं कुर्वतां तेषां थारापद्रपुरेऽन्यदा । देवी श्रीनागिनी व्याख्याक्षणे नित्यं समृच्छति ॥११३।।
तत्पट्टे वासनिक्षेपमासनायाथ ते व्यधुः । देव्या सह गुरोस्तस्य समयोऽयं प्रवर्तते ॥ ११४ ॥ अन्यदा वासनिक्षेपं वैचित्त्यात् ते विसस्मरः । आसने प्रेषणे चात ऊर्ध्वस्था सा चिरं स्थिता ॥ ११५ ॥ ध्यानस्थानां निशामध्ये सद्यो देवीस्वरूपिणी । मध्येमठमुपालम्भप्रदानायाययौ तदा ॥ ११६ ॥ उद्योतं सूरयो दृष्ट्वा स्त्रियं चातिरतिस्थितिम् । प्रवर्तकं मुनि प्रोचुर्नारी प्राप्ताऽत्र किं मुने! ॥ ११७ ॥ वेड्यहं नेति तेनोक्तेऽवदद् देवी स्वयं तथा । वासालाभान्ममाद्यांही सव्यथावूर्वसंस्थितेः ।। ११८ ॥ श्रुतज्ञानमयाङ्गानां भूयाच्चेद् वोऽपि विस्मृतिः । आयुः षण्मासशेषं तदभिज्ञानादतः प्रभोः ॥ ११९ ॥ स्वगच्छसंस्थितिं कृत्वा प्रेत्य पथ्यं विधत्त तत् । ज्ञाते ममोचितं ह्येतत् "कालविज्ञापनं प्रभोः ॥ १२०॥ इत्युक्त्वाऽन्तर्हितायां च देव्यां प्रातर्निजंगणम् । सङ्घ च मबयित्वा द्वात्रिंशत्सत्पात्रमध्यतः ॥ १२१ ॥ सधीश्वरालयः सरिपदे तेन निवेशिताः। श्रीवीरसरिः श्रीशालिभद्रः" सरिस्तथापरः ॥ १२२ ।। श्रीसर्वदेवसूरिश्च मूर्ता रत्नत्रयीव सा । सद्वृत्तालङ्कृता दीप्यमाना सत्तेजसा बभौ ॥ १२३ ॥ नाभूत् श्रीवीरसूरीणां कथंचित् सूरिसन्ततिः । तेषां राजपुरिग्रामे श्रीनेमिः शाश्वतं वपुः ॥ १२४ ॥
20
25
1N कौतुकः । 2N संमृद्य । 3 N कृतः सर्वा14 N यथा तथा । 5 N मीशे । 6 B N °शब्दान् हाकार; A शब्दान् कार किमपि न मुवम् । 7 D स्वयं; A खियं । 8N स्थिताम् । 90 वेद्मीदं । 10 N कालं विज्ञापितं । 11 D शीलभद्रः ।