________________
472
10
१२८
प्रभावकचरिते प्रासुकाहारभोजी च स चतुर्विधपौषधी । पुरबाटे श्मशानादौ कायोत्सर्ग निशि व्यधात् ॥ ३१ ॥ दिव्यमानुषतरश्चोपसर्गेषु स सासहिः । तप्यमानस्तपस्तीव्रमभवत् तीर्थसन्निभः॥ ३२ ॥
निजक्रियानुमानेन गुरोरुत्कण्ठितः सदा । एकचित्तो महावीरपादान् ध्यायत्यमन्दधीः ॥ ३३ ॥ ६२. प्रदोषसमयेऽन्येयुः प्रतिमार्थ बहिर्मुवि । गच्छन् दूरात् समायान्तं' मायान्तं जङ्गमं शमम् ॥ ३४॥
चारित्रमिव मूर्तिस्थं मथुरायाः समागतम् । स वर्षशतदेशीयमपश्यद् विमलं गणिम् ।। ३५ ।। क्षितिपीठलुठन्मूर्द्धा सर्वाभिगमपूर्वकम् । बन्दे नन्दितस्तेन धर्मलाभाशिषा च सः ॥ ३६ ॥ अकाले नगराद्वाह्ये धर्मशील! क गम्यते । इत्युक्ते प्रान्तभूमीषु व्युत्सर्गायेति सोऽवदत् ॥ ३७ ।। गणिः प्राहातिथिस्तेऽहमङ्गविद्योपदेशतः । मिलित्वा ते स्वकालाय यामि शत्रुञ्जये गिरौ ॥ ३८ ॥ वीरोऽवदथ श्रेयो दिनं मे यद्भवादृशाः। प्रसादमसमं कृत्वोत्कण्ठन्ते किल मादृशाम् ॥ ३९ ॥ निशां सफलयाम्यद्य तत्पूज्यवरिवस्यया । चिन्तामणिं करप्राप्तं कः कुण्ठोऽप्यवमन्यते ॥ ४०॥ इत्युक्त्वा दर्शयन् स्वीयोपाश्रयं तस्य सद्गुरोः । शुश्रुषां च स्वयं चक्रे देहविश्रामणादिकाम् ॥ ४१ ॥ ततश्चाह मुनीशोऽङ्गविद्यां त्वमशठः पठ । प्रभावकः श्रुतज्ञानाद् भवितासि मते यथा ॥ ४२ ॥ वीरः प्राह गृहस्थानां कथं सिद्धान्तवाचना । नाधीतं पुनरायाति वृद्धत्वाद् विदधे किमु ॥ ४३ ॥
अथाह गुरुरध्वन्यो भवान्तरगतावहम् । अङ्गविद्या महाविद्या तवायाता स्वयंवरा ॥ ४४ ॥ 15 तदर्थ ज्ञापयिष्यामि शीघ्रं तत्पुस्तकं पुनः । थारापद्रपुरे श्रीमान्नाभेयस्य जिनेशितुः ॥ ४५ ॥ चैत्यस्य शुकनासेऽस्ति तं गृहीत्वा च वाचयेः।
इत्युक्त्वाऽदात् परिव्रज्यां गुरुवीरस्य सादरम् ।। ४६ ॥-युग्मम् । दिशन् ग्रन्थस्य तस्यार्थं दिनत्रयमवास्थित । ततो जगाम स श्रीमान् विमलो विमलाचले ॥ ४७ ॥
तत्र श्रीवृषभं नत्वा तदेकध्यानमानसः । संन्यासात् त्रिदिवं प्राप पापमातङ्गकेसरी ॥ ४८ ॥ 20 ततो गुरुनियोगेन वीरस्तत्र पुरे ययौ । स्थाने च तत्समादिष्टे श्राद्धेभ्यः प्राप पुस्तकम् ॥ ४९ ॥
अधीता तेन तत्राङ्गविद्या च गणिविद्यया। तस्याः प्रसादतः सोऽभूदुग्रशक्तिर्महातपाः ॥५०॥
अभूदथ परीवारस्तस्य प्राचीनपुण्यतः । अबुद्धबोधने सैप नियमं चाग्रहीत् तदा ।। ५१ ॥ ६३. विजिहीर्षुर्गणिर्वीरोऽणहिल्लपुरसंमुखम् । आजगाम स्थिरग्रामे विरूपानाथसंश्रिते ।। ५२ ।।
स चात्र वलभीनाथापराख्यो व्यन्तराधिपः । रात्रौ देवगृहे सुप्तं हन्ति मर्यं महारुषा ।। ५३ ।।. 25 तद्वोधाय महामातृपीठान्तर्गणिविद्यया । अर्द्धतुर्यकरोन्मानं कुण्डं कृत्वा महोदयः ॥ ५४॥
तत्रस्थैः स निषिद्धोऽपि महाशक्तिभरात् ततः । अस्थादस्थानमीक्षभयानामक्षततः ॥ ५५ ॥ युग्मम् । झझादिवातवद्विन्नान्यवजानन् सुराद्रिवत् । कायोत्सर्गे स्थितः कार्यों निष्प्रकंपो मनस्यपि ॥ ५६ ।। उद्यत्किलिकिलारावैर्भाति बाह्येष्वयं वदन् । आययौ वलभीनाथ आतकं विदधजने ॥ ५७ ॥ व्यकार्षीद्धस्तिनः पूर्व जङ्गमानिव पर्वतान् । तमाश्रितान् सुरेन्द्रेण सह वैरभयादिव ॥ ५८ ॥ तस्य रेखां न लङ्घन्ते मर्यादां सागरा इव । उन्नतावनतैः शुण्डादण्डैरुड्डामरा अपि ॥ ५९॥ ततः प्रसर्पतः सान् सदानैक्षयत्तराम् । दृष्टिनिर्यद्विपज्वालान् भस्मीभूतान्यदेहिनः ॥ ६०॥ तां रेखामनतिक्रम्य स्थितांस्तान् वीक्ष्य निर्जरः । विलक्ष इव दध्यौ स महिमाऽस्य जनातिगः॥६१ ॥ ततो राक्षसरूपाणि भैरवाणि चकार सः । क्षोभाय तस्य नाभूवन् प्रतिकूलानि तान्यपि ।। ६२ ॥
30
1 B समायातं मायातं; A समायांतमायांतं । 2 N शिवम् । 3 N विमलेऽचले। 4 B N काये ।