________________
471
१५. वीरसूरिचरितम् ।
१५. श्रीवीरसूरिचरितम् ।
१२७
११. आन्तरारिहरिध्वंसी' दुष्कर्मगजयूथहृत् । अष्टापदोदयद्वर्णः 'श्रीवीरः स्वान्वयः श्रिये ॥ १ ॥ श्रीमद्वीरगणिस्वामिपादाः पान्तु यदादरात् । कषायादिरिपुत्रातो भवेन्नागमनक्षमः ॥ २ ॥ विबुधा विबुधा यस्योपदेशैरमृताश्रवैः । स्वान्ययोरुपकाराय तस्य वृत्तं प्रतन्यते ॥ ३ ॥
पुरं श्रीमालमित्यस्ति गभस्तिरपहस्तितः । यदुद्यानद्रुमैः पूर्वपश्चिमावाश्रयद् गिरी ॥ ४ ॥ मन्दतामरसत्वं च यत्र बिभ्रति नो जनाः । मन्दतामरसत्वं च दधते न सरांस्यपि ॥ ५ ॥ श्रीधूमराजवंशीयः कुमुदामोदिमण्डलः । राजात्र देवराजोऽस्ति तरङ्गितनयोदधिः ॥ ६ ॥ वणिक् प्राग्रहरस्तत्र शिवनागाभिधः सुधीः । यन्मन्त्रैर्हियते ऽत्युग्रद्विजिव्हप्रभवं विषम् ॥ ७ ॥ ढानुरागी श्रीजैनधर्मे श्रीधरणाभिधम् । आरराध स नागेन्द्रं तद्भक्तेरतुषञ्च सः ॥ ८ ॥ कलिकुण्डक्रमं तस्य सर्वसिद्धिकरं ददौ । विपापहारकं सद्यो जपहोमादिकैर्विना ॥ ९ ॥ यः फूत्कारकरस्पर्शैरष्टानामपि संहरेत् । विषं नागकुलानां स मत्रो निष्पुण्यदुर्लभः ॥ १० ॥ स्तवनं स तदा चक्रे तत्सन्दर्भप्रताप परिपूतम् । स्मरणादपि दुरितहरं ख्यातं धरणोरगेन्द्राख्यम् ॥ ११ ॥ तस्य पूर्णलताऽन्वर्था कान्ता धर्मद्रुमाश्रिता । कुलकन्दा वचः पत्रा यशः पुष्पा महः फला ॥ १२ ॥ स्वस्ति वीरस्तयोः पुत्रो रत्नदीप इव स्फुरन् । अक्षयार्चिस्तमोहन्ता दिवसप्रकटप्रभः ॥ १३ ॥ यस्य कोटिध्वजव्याजाद् वैजयन्त्य इवोर्जिताः । सुमनस्थेन गीर्वाणान् जित्वा वीरः कथं न सः ॥ १४ ॥ 15 स सप्तोद्वाहितः कन्याः सप्तानां व्यवहारिणाम् । सप्ताब्धीनामिवामूल्यरत्नौघैर्मण्डिताः श्रियः ॥ १५ ॥ श्रीवीरं वन्दितुं वीरः श्रीमत्सत्यपुरे सदा । मृते पितरि वैराग्याद् याति पर्वसु सर्वदा ॥ १६ ॥ अन्यदा तस्करैर्गच्छन् विद्रोतुमयशस्करैः । अवेष्ट्यतारथान् * शुष्कपत्रैः कारस्करैरिव ।। १७ ।। प्रणश्य च तदा श्यालः श्रेष्ठिनो गृहमागमत् । अधृतेश्वागमन्माता गृहद्वारे जनश्रुतेः ॥ १८ ॥ वीरः कुत्र तया पृष्ठे नर्मणा सोऽप्यभाषत । चौरेवरो मृषावीरः प्रहतः सत्त्ववर्जितः ॥ १९ ॥ इत्याकर्ण्य तदम्बा च ' तथैवास्थादजीविता । अहो अतुच्छं वात्सल्यं मातुर्वाक्यपथातिगम् ॥ २० ॥ पितुर्भर्तुः कलाचार्य-मित्रयोरुपकारिणः । भवेत् कथंचिदानृण्यं जनन्या न कथंचन ॥ २१ ॥ तदा च चौरसंघाताद् वीरो वीरप्रसादतः । स्वक्षेत्रेणाकृतेनागात् (?) शालभादिव कर्षुकः ॥ २२ ॥ दृष्ट्वा स्वाम्बां' गतप्राणां विस्मरन्निजसङ्कटम् । किमभूदित्यतः पृच्छन् यथावृत्तं ' तदाऽशृणोत् ॥ अनुतप्तः प्रियाबन्धुर्वीरेणाभिदधे तदा । अस्थिभङ्गं कथं नर्म कृतं मद्भाग्यदूषकम् ॥ २४ ॥ स प्राह कोऽपि नर्मोक्तया किं मातेव विपद्यते । शल्यं बिल्वकवन्मेऽभूदित्याजन्माप्यनिर्गमम् ॥ २५ ॥ वीरः प्राहाथ वैराग्याज्जनन्या मम च स्फुटम् । कीदृग्दूरतरं स्नेहसम्बन्धे पश्यतान्तरम् ॥ २६ ॥ हास्येन मन्मृतिं श्रुत्वा माता सत्येन संस्थिता । सत्येऽपि निधने तस्या वयं किञ्चिन्मुचोऽपि न ॥ २७ ॥ उक्त्वैति कोटिमेकैकां कलत्रेभ्यः प्रदाय सः । शेषः (? षं) श्रीसंघपूजासु चैत्येष्वेवाव्ययद् धनम्॥२८॥ परिग्रहपरित्यागं कृत्वा गार्हस्थ्य एव सन् । गत्वा सत्यपुरे श्रीमद्वीरमाराधयन्मुदा ॥ २९ ॥ उपवासान् सदा चाष्ट कृत्वा पारणकं व्यधात् । समस्तविकृतित्यागादहो अस्य महत्तपः ॥ ३० ॥
२३ ॥
1 B N आन्तरारिपुविध्वंसी । 2ABN द्वर्ण श्रीवीरः । 3N 'प्रभाव' । 4 N अवेद्यताखान् । 5 N तत्रैवा । 6 AD खां तां । 7 A D यदावृतं । 8 N चैत्योघे चान्य° ।
5
10
20
25
30