________________
१२२
प्रभावकचरिते
466
5
सा न किंचिदिति प्रोच्य श्वश्रूनिर्बन्धतोऽवदत् । युष्मत्पुत्रोऽर्द्धरात्रातिक्रमेऽभ्येति करोमि किम् ॥ ३२ ॥ श्रुत्वेत्याह तदा श्वश्रुः किं नाप्रेऽजल्पि मे पुरः। सुतं खं बोधयिष्यामि वचनैः कर्कशप्रियैः ॥ ३३ ॥ अद्य स्वपिहि वत्से ! त्वं निश्चिन्ताऽहं तु जागरम् । कुर्वे सर्व भलिष्यामि नात्र कार्याऽधृतिस्त्वया ॥३४॥ ओमित्यथ तुषाप्रोक्ते रात्री तद्धाग्नि' तस्थुषी। विनिद्रा पश्चिमे यामे रात्रेः पुत्रः समागमत् ॥ ३५ ॥ द्वारं द्वारमिति प्रौढस्वरोऽसौ यावदूचिवान् । इयद्रात्रौ क आगन्ता माताऽवादीदिति स्फुटम् ॥ ३६॥ सिद्धः सिद्ध इति प्रोक्ते तेन सा कृतकक्रुधा । प्राह सिद्धं न जानेऽहमप्रस्तावविहारिणम् ।। ३७ ।। अधुनाऽहं क यामीति सिद्धेनोक्ते जनन्यपि । अन्यदा शीघ्रमायाति यथाऽस्मात् कर्कशं जगौ ॥ ३८॥ एतावत्यां निशि द्वारं विवृतं यत्र पश्यसि । तत्र यायाः समुद्घाटद्वारा सर्वापि किं निशा ॥ ३९॥ भवत्वेवमिति प्रोक्त सिद्धस्तस्मानिरीय च । पश्यन्ननावृताद्वारो द्वारेऽगादनगारिणाम् ॥ ४०॥ सदाऽप्यनावृतद्वारशालायां पश्यति स्म सः । मुनीन् विविधचर्यासु स्थितान्निष्पुण्यदुर्लभान् ॥४१॥ कांश्चिद्वैरात्रिकं कालं विनिद्रस्य गुरोः पुरः । प्रवेदयन्त उत्साहात् कांश्चित्स्वाध्यायरङ्गिणः ॥ ४२ ॥ उत्कटिकासनान् कांश्चित् कांश्चिद्गोदोहिकासनान् । वीरासनस्थितान् कांश्चित् सोऽपश्यन् मुनिपुङ्गवान् ॥४३॥ अचिन्तयच्छमसुधानिर्झरे निर्जरा इव । सुस्मातशीतला एते तृष्णाभीता मुमुक्षवः ॥ ४४॥ माशा व्यसनासक्ता अभक्ताः स्वगुरुष्वपि । मनोरथद्रुहस्तेषां विपरीतविहारिणः ॥ ४५ ॥ . धिग ! जन्मेदमिहामुत्र दुर्यशो दुर्गतिप्रदम् । तस्मात् सुकृतिनी वेला यत्रैते दृष्टिगोचराः॥४६॥ अमीषां दर्शनात् कोपिन्यापि 'सूपकृतं मयि । जनन्या क्षीरमुत्तप्तमपि पित्तं प्रणाशयेत् ।। ४७॥ . ध्यायन्नित्यप्रतस्तस्थौ नमस्तेभ्यश्चकार सः । प्रदत्तधर्मलाभाशीर्निर्ग्रन्थः प्रभुराह च ॥४८॥ को भवानिति तैः प्रोक्ते प्रकटं प्राह साहसी । शुभंकरात्मजः सिद्धो द्यूतान्मात्रा निषेधितः ॥४९॥ उद्घाटद्वारि यायास्त्वमोकसीयन्महानिशि । इत्यम्बावचनादत्रा प्रावृतद्वारि सङ्गतः॥५०॥ अतःप्रभृति पूज्यानां चरणौ शरणं मम । प्राप्त प्रवहणे को हि निस्तितीर्षति नाम्बुधिम् ॥५१॥ . उपयोगं श्रुते दत्त्वा योग्यताहृष्टमानसाः। प्रभावकं भविष्यन्तं परिज्ञायाथ तेऽवदन ॥ ५२ ॥ अस्मद्वेषं विना नैवास्मत्पार्श्वे स्थीयतेतराम् । सदा स्वेच्छाविहाराणां दुर्ग्रहः स भवादृशाम् ॥ ५३ ।। धार्य ब्रह्मव्रतं घोरं दुश्चरं कातरैर्नरैः । कापोतिका तथा वृत्तिः समुदानाऽपराभिधा ॥ ५४॥ दारुणः केशलोचोऽथ सर्वाङ्गीणव्यथाकरः। सिकतापिण्डवच्चायं निरास्वादश्च संयमः॥ ५५॥ . उच्चावचानि वाक्यानि नीचानां ग्रामकण्टकाः । सोढव्या दशनैश्चर्वणीया लोहमया यवाः॥५६॥ उग्रं षष्ठाष्टमाद्यं तत्तपः कार्य सुदुष्करम् । स्वाद्याखायेषु लब्धेषु रागद्वेषौ न पारणे ॥ ५७ ॥ इत्याकावदत् सिद्धो मत्सदृग्व्यसनस्थिताः । छिन्नकोष्ठनासादिबाहुपादयुगा नराः ।। ५८॥ क्षुधाकरालिता भिक्षाचौर्यादेर्वृत्तिधारिणः । अप्राप्तशयनस्थानाः पराभूता निजैरपि ॥ ५९॥ नाथ! किं तवस्थाया अपि किं दुष्करो भवेत् । संयमो विश्ववन्धस्तन्मूर्ति देहि करं मम ॥ ६०॥ यददत्तं न गृहीमो वयं तस्मात् स्थिरो भव । दिनमेकं यथाऽनुज्ञापयामः पैतृकं तव ॥ ६१ ॥
ततः प्रमाणमादेश इत्युक्त्वा तत्र सुस्थिते । परं हर्षं दधौ सूरिः सुविनेयस्य लाभतः ॥ ६२॥ ६३. इतः शुभंकरः श्रेष्ठी प्रातः पुत्रं समाह्वयत् । शब्दादाने च सम्भ्रान्तोऽपश्यत् पत्नी नताननाम् ॥६३॥
अद्यरात्रौ' कथं नागात् सिद्ध इत्युदिता सती । लज्जानम्राऽवद् द्यूतीशिक्षितोऽथ सुतो ययौ ॥ ६४ ॥
___ 1N तवारि । 2 N कोपिन्याप्युपकृतं । 3 BN इयंति वाचनादत्रा'; D इयंत्यवाचनादत्रा। 4 N दुष्करं । 5 N विज्ञापयामः। 6 N संभ्रांतः पश्यन् । 7 N अद्यरात्रे।