________________
465
१२१
१४. महाकविसिद्धर्षिचरितम् । १४. महाकविश्रीसिद्धर्षिचरितम् ।
ESH
६१. श्रीसिद्धर्षिः श्रियो देयाद् धियामध्यामधामभूः । निम्रन्थमन्थतामापुर्यग्रन्थाः सांप्रतं भुवि ।। १ ।।
श्रीसिद्धर्षिप्रभोः पान्तु वाचः परिपचेलिमाः । अनाद्यविद्यासंस्कारा यदुपास्तेर्भिदेलिमाः ॥ २॥ सुप्रभः पूर्वजो यस्य सुप्रभः' प्रतिभावताम् । बन्धुर्बन्धुरभाग्यश्रीर्यस्य' माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्तयिष्यामि तस्य त्रस्यज्जडाशयम् । भूभृच्चक्रचमत्कारि वारिताखिलकल्मषम् ॥४॥ ___ अजर्जरश्रियां धाम वेपालक्ष्यजरजरः । अस्ति गुर्जरदेशोऽन्यसज्जराजन्यदर्जरः॥५॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः । चैत्योपरिस्थकुम्भालियंत्र चूडामणीयते ॥६॥ प्रासादा यत्र दृश्यन्ते मत्तवारणराजिताः । राजमार्गाश्च शोभन्ते मत्तवारणराजिताः ।। ७ ॥ जैनालयाश्च सन्त्यत्र नवं धूपगमं श्रिताः । महर्षयश्च निःसङ्गा न बन्धूपगमं श्रिताः॥८॥ तत्रास्ति हास्तिकाश्वीयापहस्तितरिपुव्रजः । नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥ ९ ॥ 10 तस्य समभदेवोऽस्ति मन्त्री मित्रं जगत्यपि । सर्वव्यापारमुद्राभृन्मुद्राकृर्जनानने ॥१०॥ देवार्योशनसौ यस्य नीतिरीतिमुदीक्ष्य तौ । अवलम्ब्य स्थितौ विष्णुपदं कर्तुं तपः किल ॥ ११ ॥ तस्य पुत्रावुभावंसाविव विश्वभरक्षमौ । आद्यो दत्तः स्फुरद्वृत्तो द्वितीयश्च शुभंकरः॥ १२ ॥ दत्तवित्तोऽनुजीविभ्यो दत्तश्चित्तस्थ धर्मधीः । अप्रवृत्तः कुकृत्येषु तत्र सुत्रामवच्छ्रिया ॥ १३ ॥ हर्म्यकोटिस्फुरत्कोटिध्वजजालान्तरस्थिता । जलजन्मतयेव श्रीर्यस्मादासीदनिर्गमा ॥ १४ ॥
15 तस्य श्रीभोजभूपालबालमित्रं कृतीश्वरः । श्रीमाधो नन्दनो ब्राह्मीस्यन्दनः शीलचन्दनः ।। १५ ।। ऐदंयुगीनलोकस्य सारसारस्वतायितम् । शिशु पाल व धः काव्यं प्रशस्तिर्यस्य शाश्वती ॥१६॥ श्रीमाधोऽस्ताघधीः श्लाघ्यः प्रशस्यः कस्य नाभवत् । चित्रं जाड्यहरा यस्य काव्यगङ्गोर्मिविपुषः ।। १७॥ तथा शुभंकरश्रेष्ठी विश्वविश्वप्रियंकरः । यस्य दानाद्भुतैर्गीतेहर्यश्वो हर्षभूरभूत् ।। १८ ॥ तस्याभूद् गेहिनी लक्ष्मीर्लक्ष्मीर्लक्ष्मीपतेरिव । यया सत्यापिताः सत्यः सीताद्या विश्वविश्रुताः॥ १९॥ 20 नन्दनो नन्दनोत्तंसः कल्पद्रुम इवापरः । यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः ॥२०॥
अनुरूपकुलां कन्यां धन्यां पित्रा विवाहितः । भुंक्ते वैषयिक सौख्यं दोगुन्दुग इवामरः ॥ २१ ॥ ६२. दुरोदरभरोदारो दाराचारपराङ्मुखः । अन्यदा सोऽभवत् कर्म दुर्जयं विदुषामपि ॥ २२ ॥
पितृमातूगुरुस्निग्धबन्धुमित्रैर्निवारितः । अपि नैव न्यवतिष्ट दुर्वारं व्यसनं यतः॥ २३ ॥ अगूढातिप्ररूढेऽस्मिन्नहर्निशमसौ वशः । तदेकचित्तधूर्त्तानों सदाचारादभूदु बहिः ।। २४॥ स पिपासाशनायाति शीतोष्णाद्य विमर्शतः। योगीव लीनचित्तोऽत्र "वित्रस्यत्साधुवाक्यतः ॥ २५ ॥ निशीथातिक्रमे रात्रावपि स्वकगृहागमी । वध्वा प्रतीक्ष्य एकस्यास्तया नित्यं प्रतीक्ष्यते ॥ २६ ॥ अन्यदा रात्रिजागर्यानिर्यातवपुरुद्यमाम् । गृहव्यापारकृत्येषु विलीनाङ्गस्थितिं ततः॥२७॥ ईदृग् ज्ञातेयसम्बन्धवशकर्कशवाग्भरम् । श्वश्रूरश्रणि मुश्चन्ती वधूं प्राह सगद्गदम् ।। २८ ॥-युग्मम् । मयि सत्यां पराभूतिं कस्ते कुर्यात् ततः स्वयम् । खिद्यसें' कुविकल्पैस्त्वं गृहकर्मसु चालसा ॥ २९॥ 30 श्वशुरोऽपि च ते व्यप्रो यदा राजकुलादिह । आगन्ता च ततो देवावसरादावसजिते ॥ ३० ॥
मामेवाक्रोष्यति त्वं तत् तथ्यं मम निवेदय । यथा द्राग् भवदीयातिप्रतीकारं करोम्यहम् ॥३१॥-युग्मम् । 1A सुरप्रभः । 2 'बन्धुरभाग्यस्य श्रीर्यस्य' इत्येतादृशः पाठः सर्वेष्वादशेषु समुपलभ्यते। 3A रीतिसुदीक्षिती। 4 A D दत्तश्चित्तश्च धर्म'; N दत्तचित्तसुधर्म°15 N शीतोष्माच्च । 6 N व्यत्रसत् 17 BD खिद्यते; N विद्यते। 8 N कर्मभरालसा ।
प्र०१६