________________
463
१३. मानदेवसूरिचरितम् ।
5
स्वजनः कोऽपि कस्यापि नास्तीह समये तथा । आक्रन्दभैरवारावरौद्ररूपाऽभवत् पुरी ॥ ३० ॥ चित्यानां च सहस्राणि दृश्यन्तेऽत्र बहिः क्षितौ । शबानामर्द्धदुग्धानां श्रेणयश्च भयंकराः ॥ ३१ ॥ सुभिक्षमभवद् गृध्रक्रव्यादानां तदोदितम् । शून्या भवितुमारेभे पुरी लङ्कोपमा तदा ॥ ३२ ॥ पूजा च विश्वदेवानां विश्रान्ता पूजकान् विना । गृहाणि शबसंघातदुर्गन्धानि तदाभवन् ।। ३३ ।। कियान युद्धृतः संघचैत्ये कृत्वा समागमम् । मन्त्रयामास कल्पान्तः किमद्यैवागतो ध्रुवम् ॥ ३४ ॥ न कपर्दी न चाम्बा च ब्रह्मशान्तिर्न यक्षराट् । अद्याभाग्येन संघस्य नो विद्यादेवता अपि ॥ ३५ ॥ भाग्यकाले यतः सर्वो देवदेवीगणः स्फुट: । सप्रत्यय इदानीं तु ययौ कुत्रापि निश्चितम् ॥ ३६ ॥ इति तेषु निराशेषु समेता शासनामरी । उपादिशत् तदा संघमेवं सन्तप्यते कथम् ॥ ३७ ॥ म्लेच्छानां व्यन्तरैरुयैः सर्वः सुरसुरीगणः । विद्रुतस्तद्विधीयेत किमत्रास्माभिरुच्यताम् ॥ ३८ ॥ अतः परं तृतीयेऽत्र वर्षे भङ्गो भविष्यति । तुरुष्कैर्विहितः सम्यग्ज्ञात्वा कृत्यं यथोचितम् ॥ ३९ ॥ परमेकमुपायं वः कथयिष्यामि वस्तुत: । शृणुतावहिताः सन्तः संघरक्षा यथा भवेत् ॥ ४० ॥ ततस्तेनाशिवे क्षीणे मुक्त्वा पुरमिदं ततः । अन्यान्यनगरेष्वेव गन्तव्यं वचसा मम ॥ ४१ ॥ श्रुत्वा च किंचिदाश्वासवन्तस्ते पुनरभ्यधुः । समादिश महादेवि ! कोऽन्यो' नः परिरक्षिता ॥ ४२ ॥ देवी प्राहाथ नड्डूले मानदेवाख्यया गुरुः । श्रीमानस्ति तमानाय्य तत्पादक्षालनोदकैः ॥ ४३ ॥ आवासानभिषिचध्वं यथा शाम्यति डामरम् । एवमुक्त्वा तिरोधत्त श्रीमच्छासनदेवता ॥ ४४ ॥ श्रावकं वीरदत्तं ते प्रैषुर्नड्डुलपत्तने । विज्ञप्तिकां गृहीत्वा च स तत्र क्षिप्रमागमत् ॥ ४५ ॥ भूम (प्रभू ? ) णामाश्रयं दृष्ट्वा व्यधान्नैषेधिकीं तदा । मध्याह्ने सूरिपादाश्च मध्येऽपवरकं स्थिताः ॥ ४६ ॥ उपाविशन् शुभे स्थाने स्थाने सद्ब्रह्मसंविदाम् । पर्यङ्कासनमासीना नासाग्रन्यस्तदृष्टयः ॥ ४७ ॥ युग्मम् । समानाः कृच्छ्र-कल्याणे तृणे स्त्रैणे मणौ मृदि । तेषां प्राप्ते प्रणामाय देव्यौ श्रीविजया जये ॥ ४८ ॥ कोणान्तरूपविष्टे च ते दृष्ट्वा सरलः स च । निमग्मात्मा तमस्तोमे दध्यौ चिन्ताविपन्नधीः ॥ ४९ ॥ ध्रुवं प्रतारिकाऽस्माकं साऽपि शासनदेवता । ययैतावन्तमध्वानं प्रेष्याहं क्लेशितो ध्रुवम् ॥ ५० ॥ आचार्योऽयं हि राजर्षिर्मध्येदिव्याङ्गनं स्थितः । अहो चारित्रमस्यास्ति शाम्येदस्मादुपद्रवः ॥ ५१ ॥ मामायान्तं च विज्ञाय ध्यानव्याजमिदं दधौ । क एवं नहि जानीते तस्मादासे क्षणं बहिः ॥ ५२ ॥ ध्याने च पारिते मुष्टिं बद्धासावृजुधार्मिकः । प्राविशद् द्वारमध्ये च सावज्ञं गुरुमानमत् ॥ ५३ ॥ विज्ञाय चेङ्गितैर्देव्यौ तस्याविप्रतिपन्नताम् । अदृष्टैर्बन्धसम्बन्धैस्तं निपात्य बबन्धतुः ॥ ५४ ॥ आरटन्तं च तं तारस्वरं दृष्टानुकम्पया । प्रभुर्विमोचयामास तदज्ञानप्रकाशनात् ॥ ५५ ॥ जयाह रे महापाप ! शापयोग्य क्रियाधम । प्रभोः श्रीमानदेवस्य चारित्रस्य शरीरिणः ।। ५६ ।। एवं विकल्पमाधत्से श्रावकव्यंसको भवान् । पुंशाप ! नाकिचिह्नानामनभिज्ञाज्ञशेखरः ॥ ५७ ॥ - युग्मम् | ईक्षस्वानिमिषे दृष्टी चरणावक्षितिस्पृशौ । पुष्पमाला न च म्लाना देव्यावावां न लक्षसे ॥ ५८ ॥ प्रागेव मुष्टिघातेन प्रेषयिष्ये यमालयम् | जैनश्रद्धालुदम्भेनाहमपि च्छलिता त्वया ॥ ५९ ॥ प्रभोरादेश एव त्वज्जीवने हेतुरग्रिमः । परं पातकभूः कस्मादीदृशस्त्वं समागतः ॥ ६० ॥ मुष्टिर्बद्धो लभेतात्र लक्षमित्यभिसन्धितः * । बद्धमुष्टिर्भवानागात् तादृगेव प्रयातु तत् ॥ ६१ ॥
११९
10
15
20
25
30
1 A चितानां; N चैत्यानां । 2 A सहस्राणां । 3N विहृतः । 4 N रप्यधुः । 5 N ऽन्यः । 6 AD समानां;
B समाना । 7 A दध्याविति प्रनष्टधीः; D विप्रतिपन्नधीः । 8N B प्रकाशवान् । 9 N देत्र्यावाचं । * 'अभिप्रायात्' इति D टि० ।