________________
449
११. बप्पभट्टिसूरिचरितम् ।
१०५
चिरं परिचयः पूज्यैस्त्वादृशैरपि मे ऽफलः। एतावन्ति दिनान्यासीद् धर्माख्यानविनाकृतः ।। ६०४ ॥ उक्तं च तेन
मयनाहिकलुसिएणं इमिणा किं किर फलं निडालेण ।
इच्छामि अहं जिणवरपणाम किणकलुसियं काउं ॥ ६०५ ॥
मुमुक्षोर्मम यत्प्राय औचित्यं न विलंघयेत् । तदादिश यथादिष्टं विदधे कर्मनाशकम् ॥ ६०६ ॥ श्रीभहिराहाथ शङ्का चेत् कर्मणां तव । मनः शुद्धिस्ततः कार्या व्यवहारोऽपि तादृशः ।। ६०७ ॥ ततः संन्यस्त एव त्वं जैनमार्गं समाश्रय । श्रुत्वेति तैः सहैवा साबुदस्याद् भवनात् ततः ॥ ६०८ ॥ आजगामाथ पार्श्वस्य' स्तूपे श्रीपार्श्वमन्दिरे । मिध्यादर्शनवेषं च विमुञ्चत् स्वीकृतं पुरा ॥ ६०९ ॥ जैनर्षिवेषमास्थाय संयमाचार शिक्षकः । संसारचरमप्रत्याख्यानी ध्यानैकतानभृत् ॥ ६१० ॥ अष्टादश तदा पापस्थानान्युत्सृज्य सर्वतः । चतुःशरणमादध्यौ निर्द्धतान्तरकल्मषः ॥ ६११ ॥ युग्मम् | 10 प्रशंसागणे प्राच्यसुकृतासुकृते व्यधात् । परमेष्ठिपदाधीनमानसो मानशोषभूः ॥ ६१२ ॥ दिनान्यष्टादश प्रायमुपायं दुष्कृतार्दने । एकावतारान्तरितो महानन्दपदस्तदा ।। ६१३ ॥ सम्यगाराधनोपात्तपाण्डित्यमृतिरीतितः । देहमुक्त्यां गतः साम्यं प्राप प्राचीनवर्हिषा ॥ ६१४ ॥ युग्मम् । ततः किंचित्सखिस्नेहगद्गदः शमिनायकः । उवाच विश्वसामन्तविद्वद्वृन्दस्य शृण्वतः ॥ ६१५ ॥
5
तथा हि
पई सग्गगए सामंतराय अवरत्तउ न फिट्टिहह ।
पढमं चिय वरिय पुरंदराइ सग्गस्स लच्छीए ॥ ६१६ ॥
तत्र गोकुलवासेऽस्ति पुरा नन्दनिवेशिते । श्रीशान्तिः शान्तिदेवी च हेतुर्विश्वस्य शान्तिके ।। ६१७ ॥ तत्र श्री भट्टिः श्रीतीर्थेश्वरनमस्कृतौ । गत्वा च तुष्टुवे शान्तिदेवतासहितं जिनम् ॥ ६१८ ॥ ‘जयति जगद्रक्षाकर' इत्याद्यं शान्तिदेवतास्तवनम् । अद्यापि वर्त्तते तच्छान्तिकरं सर्वभयहरणम् ॥ ६१९ || 20 ततः सामाजिकस्तोमस्तुतो व्यावृत्य संययौ । कन्यकुब्जपुरं बप्पभट्टिः कतिपयैर्दिनैः ॥ ६२० ॥ पुरापि ज्ञातवृत्तान्तो नृपतिर्गूढपूरुषैः । संमुखीनः पुरोपान्तं गत्वा प्रावेशयद् द्रुतम् ॥ ६२१ ॥ गुरुं सभोपविष्टं च प्राह भूपश्चमत्कृतः । अहो वो वाच' सामर्थ्यं सोऽपि यत् प्रतिबोधितः ।। ६२२ ॥ प्रभुः प्राहाथ' का शक्तिर्मम यत् त्वं न बुध्यसे । राजाह सम्यग् बुद्धोऽस्मि त्वद्धर्मोऽस्तीति निश्चितम् ॥ ६२३॥ माहेश्वरं पुनर्द्धर्मं मुञ्चतो मे महान्यथा । तत्प्राच्यभवसंबद्ध इवायं किं करोम्यतः ।। ६२४ ॥ श्रुतज्ञाननिमित्तेन ज्ञात्वा प्रभुरुवाच च । तव' प्राक्कृतकष्टस्य राज्यमल्पतरं फलम् ॥ ६२५ ॥ सविस्मयैस्तदा पर्षत्प्रधानैरौच्यत प्रभुः । प्रसह्य कथ्यतां राज्ञः प्राग्भवोऽस्मत्प्रबुद्धये ॥ ६२६ ॥ प्रभुराह ततः सम्यग् विमृश्येति यथातथम् । प्रश्नचूडामणेः शास्त्रादस्ताघज्ञानशेवधिः ।। ६२७ ।। शृणु भूमिपते ! कालिंजराख्यस्य गिरेरधः । शालिशालडुमोर्द्धस्थशाखाबद्धपदद्वयः ॥ ६२८ ॥ अधोमुखो जटाकोटिसंस्पृष्टपृथिवीतलः । व्यन्हे व्यन्हे मिताहारो हारी' क्रोधादिविद्विषाम् ।। ६२९ ॥ इति वर्षशतं सायं तपस्तत्वातिदुष्करम् । आयुः प्रान्ते तनुं त्यक्त्वाऽभवस्त्वं भूपनायकः ॥ ६३० ॥ यदि न प्रत्ययो राजन् ! प्रेषय प्रवरान् नरान् । जटा अद्यापि तत्रस्था आनायय तरोस्तलात् ॥ ६३१ ॥
1 N सहैवाप्त उद° । 2 N पार्श्वेऽस्य । 3N व्यमुचत् । 4 N संयमावारशिष्यकः । 5N अहो चोवाच । 6 N प्राह च । 7 N तत्र । 8 N विमृशेति । 9 A हाराहारी ।
प्र० १४
15
25
30