________________
5
10
15
१००
20
25
30
प्रभावकचरिते
विहितं सन्धिबन्धेन रसाय नन्नसूरिणा । तत्कथां प्रथयन् नृत्यन्नाह प्राकृतरूपकम् ।। ४९९ ॥ युग्मम् । सुविहु गिरि वेहु वेहावइ ।
श्रीबप्पभट्टिराहेदमर्द्धानं रूपकद्वयम् । नर्मधर्मेण तच्चापि नटो व्यावृत्य तत्पुरे || ५०० ॥ आगत्य तथ्यमाचख्यौ नन्नाचार्यकवेः पुरः । नैतद्गम्यमिदं कार्यमिति संचिन्त्य हर्षतः ।। ५०१ ॥ ततो रूपं परावृत्य स सिद्धगुटिकादिभिः । प्रतस्थे कन्यकुब्जे च सह गोविन्दसूरिणा ।। ५०२ ॥ प्राप्तोऽथ मिलितो बप्पभट्टेः पट्टेश्वरस्य च । राजपर्षदि नृत्यंश्च रसं वीरं वितेनिवान् ॥ ५०३ ॥ तद्ध्यानैकमना 'भूपञ्चकर्ष क्षुरिकां निजाम् । 'मारि मारी' ति शब्देन नदन् सिंह इव क्रुधा ॥ ५०४ ॥ अङ्गरक्षैस्ततो नाट्यमिदमित्थं निवारितः । चैतन्ये 'सङ्गते पश्चात् प्रतिबुद्धो गुरूक्तिभिः ।। ५०५ ।। आ गोविन्दसूरिस्तद्रूप ! युक्तं कथं कृतम् । केनापि न परं शास्त्ररसः सर्वोऽनुभूयते ।। ५०६ ।। ततो वात्स्यायने व्याख्यायमाने नन्नसूरिणा । सविकल्पो मनीषी त्वमन्यः को न विकल्पयेत् ॥५०७॥ लज्जितेन ततो राज्ञा क्षमितौ कोविदाधिपौ । सत्यं तद्वचनं बाढं यदूचे सुहृदा मम ।। ५०८ ॥ संयमेन 'सुशीलेन वृत्त्या विद्वत्तया तथा । तद्गुरुभ्रातरौ पूज्यौ भ्रान्तिर्मे क्षम्यतामिति ।। ५०९ ।। इत्याकर्ण्य ततः प्रोचे श्रीमद्गोविन्दसूरिणा । तपो न नः कलंक्येत त्वयि वृत्तानि पश्यति ॥ ५१० ॥
यतः
भवन्तु ते दोषविदः शिवाय विशेषतस्तद्वचनैकनिष्ठाः । येषां 'प्रवादादपवादभीता गुणार्जनोत्साहपरा नराः स्युः ॥ ५११ ॥
तथा
जे चारित्तिहिं निम्मला ते पंचायण सीह । विसयकसाइंहिं गंजिया ताहं फुसिज्जइ लीह ॥ ताहं फुसिजइ लीह, इत्थ ते तुल्ल सीआलह । ते पुण विसयपिसायछलिय गय करिणिहिं बालह ॥
ते पंचायण सीह सत्ति उज्जल नियकित्तिहिं ।
ते नियकुलन यलमयंक निम्मलचारित्तिहिं ॥ ५१२ ॥
444
श्रुत्वेति नृपतिस्तोषादुवाच' सुहृदं गुरुम् । धन्योऽहमेव यस्याभूद् गुरोः कुलममूदृशम् ॥ ५१३ ॥ राज्ञा' saस्थापितौ तत्र दिनान्यथ कियन्त्यपि । आपृच्छय बप्पभहिं तावागतौ स्वभुवं ततः ॥ ५१४ ॥ धर्मव्याख्या सदाख्यानाख्यानप्रश्नोत्तरादिभिः । कियानपि ययौ कालः समुदोः सुहृदोस्तयोः ५१५ ॥
६१७.
आययावन्यदा वृन्दं गायनान्तावसायिनाम् । श्रवः स्वादिमहानादरसनिर्जिततुंबरुः ॥ ५१६ ॥ Satar feat साक्षान्मातङ्गी गीतभङ्गिभिः । राजानं रञ्जयामास रूपादपि रसादिभिः ।। ५१७ ॥ प्रवाह्य प्रतिपक्षस्य राज्ञो रागद्विषन् जयी । चित्तवृत्तिमहापुर्यामवस्कन्दं ददौ तदा ।। ५१८ ।। वास्तव्यानीन्द्रियाण्यस्य बहिर्भीत्येव निर्ययुः । तैरिव प्रेरितो राजा वासं बहिरचीकरत् ॥ ५१९ ॥
1 N नर्मवर्मेण । 2 N °मना भूय चकर्ष । 3 N चैतन्यै संगतः । 4 N लक्षितेन । 5N तु शीलेन । 6 N बतस्खेह शिवैकनिष्ठाः । 7 N प्रभावाद । 8 N नृपतिस्तेषामुवाच । 9 N राज्ञाय स्था° ।