________________
443
११. बप्पभट्टिमरिचरितम् । इति सुचरितैः ख्यातिं बिभ्रचिरन्तनभूभृतां
कथमसि न मान्धाता 'देवत्रिलोकविजय्यपि ॥ ४६८॥ सन्मानातिशयो राज्ञा विदधे तस्य भूभृतः । गङ्गां गेहागतां को हि पूजयेदलसोऽपि न ॥४६९ ॥ मन्यते कृतकृत्यं स्वं स्वर्गनाथोऽपि वाक्पतिम् । प्राप्य वाक्पतिराजंतु नाधिकोऽद्य किमस्म्यतः॥४७॥ त्यागाद् धर्मस्य माकार्षीर्मनस्यनुशयं सखे ! । यद्गहागतमत्पूजानाधानात् सोऽवमस्थितिः ॥ ४७१॥ 5 तवाधीनमिदं राज्यं विचिन्तं सुखमास्व तत् । श्रीबप्पभद्देर्मम च तृतीयस्त्वं महामते ! ॥४७२ ।। इत्यामराजव्याहारामृतसारपरिप्लुतः । गङ्गोदक इव स्नातः प्रीतिपावित्र्यमाप सः॥ ४७३ ।। सहैवोत्थाय तत्रासौ नृपमित्रेण सूरिणा । उपाश्रयमनुप्राप्यातिष्ठत् परमया मुदा ॥ ४७४ ।। 'गौडवधो 'महुमहविजय'श्चेति तेन च । कृता वाकपतिराजेन द्विशास्त्री कवितानिधिः ॥ ४७५ ॥ बौद्धकारिततद्वेषापोपके धर्मभूपतौ । सर्वत्र गुणिनः पूज्या गुरुरित्याह तत्पुरः ॥ ४७६ ॥
10 वृत्तौ कृतं हैमटंकलक्षं तद्विगुणीकृतम् । नृपेणासौ महासौख्यात् कालं गमयति स्म सः॥४७७||-युग्मम् । ६१६. सभायामन्यदा राजा सुखासीनं गुरुं प्रति । प्राह न त्वत्समो विद्वान् स्वर्गेऽपि किमु भूतले ॥४७८॥
गुरुराह पुराऽभूवन् पूर्व ते जैनशासने । श्रुतज्ञानमहाम्भोधेर्यत्प्रज्ञा पारदृश्वरी ।। ४७९ ॥ शतं सहस्रं लक्षं वा पदानामेकतः पदात् । अधिगच्छन्ति विद्वांसोऽभूवन केऽप्यधिका अपि ॥४८०॥ ऐदंयुगीनकालेऽपि सन्ति प्रज्ञाबलाद्धताः । येषामहं न चाप्नोमि पादरेणुतुलामपि ।। ४८१ ॥
15 अस्मदीयगुरोः शिष्यौ खेटकाधारमंडले । विद्यते नन्नसरिः श्रीगोविंदसूरिरित्यपि ॥ ४८२ ॥ यत्पुरो बठरत्वेन तत्र स्थितिमनिच्छतः । शृङ्गाराय भवत्सख्यं विदेशावस्थितेर्मम ॥ ४८३ ॥ इति वाचा चमत्कारं धारयन्नब्रवीन्नपः । भवद्वचः प्रतीतोऽपि प्रेक्षिष्ये कौतुकं हि तत् ॥ ४८४॥ ततो वेषपरावर्त्तप्राप्तो गूर्जरमंडले । पुरे हस्तिजये जैनमन्दिरस्य समीपतः ।। ४८५ ॥ उपाश्रयस्थितं भव्यकदम्बकनिषेवितम् । राजानमिव सच्छत्रं चामरप्रक्रियान्वितम् ।। ४८६ ॥ 20 सिंहासनस्थितं श्रीमन्ननसूरि समैक्षत । उक्तनहस्तविस्तारसंज्ञयाह किमप्यथ ॥ ४८७ ॥ एतद्विलोक्याचार्योऽपि मध्यमातर्जनीद्वयम् । पुरस्तस्य वितस्तार शृङ्गाकारेण तत्र च ॥ ४८८ ॥ इत्युत्थाय गते तत्र जनैः पृष्टमिदं किमु । ततः प्रापञ्चयत् सूरिः कोऽपि विद्वानसौ पुमान् ॥ ४८९ ॥ पृच्छति स्म यतीनां किं राज्यलीला ततो मया । इत्युत्तरं ददौ शृङ्गे भवतो भूपतेः किमु ॥ ४९० ॥ निविष्टमन्यदा चैत्ये शास्त्रं वात्स्या य ना भिधम् । व्याख्यातं प्रेक्ष्य तं भूपो नमस्कृत्य जिनं ययौ ॥ ४९१ ।। 25 ननाम न गुरुं काम शास्त्र व्याख्यानतः स च । विद्वानेष न चारित्री गुरुरित्थं विकल्पितः ॥ ४९२ ॥ परिज्ञातेऽथ तत्तत्त्वे खेदं दधे स कोविदः । धिग्वैदग्ध्यं हि नो निर्यदपकीर्तिकलङ्कितम् ।। ४९३ ॥ श्रीगोविन्दः शशासैनं खिद्यसे किं वचः शृणु । आमभूपतिरेवायं गुप्तो नापर ईदृशः॥ ४९४ ॥ ततः किंचिद्धर्मशास्त्रं विधायातिरसोज्वलम् । पान्नटस्य कस्यापि बप्पभट्टिप्रभोः पुरः ॥ ४९५ ॥ प्रेषयैतद् यथातथ्यं चाभिनायति तत्पुरः। तत्रापररसावेशं सोऽनुभूय "प्रभोक्षते (?)॥ ४९६॥ 30 तथेति प्रतिपद्याथ कृत्वा तच्च नटोत्तमान् । प्रेषयच्छिक्षितान् सम्यक् "प्रायादामपुरं च सः॥ ४९७ ॥ अमिलद् बप्पभद्देश्च तेन राज्ञोऽध दर्शितः। आदितीर्थकृतो वृत्तमभिनिन्ये स नूतनम् ॥ ४९८ ॥
1A देवत्रि। 2A भूभृता। 3 BN विचिंत्य । 40 गौडबन्धो भद्रमही विजय। 5A कथिताविधिः। 6N अवगति। 7N केथाधि। 8 B भवदचं प्रतीतेऽपि । 9 N यतो। 10 A B विकल्पतः। 11 A प्रभोः पुरः; B प्रभोक्षाते । 12 B प्रापदाम।