________________
441
११. बप्पभट्टिसूरिचरितम् । तत आह तदाचार्यों वाग्विनोदसुखाय वः । इयत्कालं हि नश्चेतस्यासीदिति कृतिप्रभो! ॥ ४१७ ॥ बाधाविधायी' यद्येष' भवतस्तद् विलोकय । प्रभाते निग्रहीष्यामि विद्वन्मन्यं हि भिक्षुकम् ॥ ४१८ ॥ प्राग्दत्तं गुरुभिर्मत्रं परावर्त्तयतः सतः । मध्यरात्रे गिरा देवी वर्गङ्गावेणिमध्यतः ॥ ४१९ ॥ स्नान्ती तादृशरूपा च प्रादुरासीद् रहस्तदा । अहो मत्रस्य माहात्म्यं यद्देव्यपि विचेतना ॥ ४२०॥-युग्मम् । अनावृतशरीरां च सकृदीषद् ददर्श ताम् । सूरिः सूर्यादिवास्यं च परावर्तयति स्म सः॥ ४२१॥ 5 खं रूपं विस्मरन्ती च प्राह वत्स! कथं मुखम् । विवत्तेसे भवन्मबजापात् तुष्टाहमागता ।। ४२२ ।। वरं वृण्विति तत्रोक्तो बप्पभहिरुवाच च । मातर् ! विसदृशं रूपं कथं वीक्षे तवेदृशम् ॥ ४२३ ॥ खां तनुं पश्य निर्वस्त्रामित्युक्ते स्वं ददर्श सा । अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ४२४ ।। वीक्ष्य मामीदृशीं यन्न चेतोऽस्य विकृतिं ययौ । ध्यायन्तीति दृढं तोषात् तत्पुरः समुपस्थिता ।।-युग्मम् । वरेऽपि निस्पृहे त्वत्र दृढं चित्रादुवाच च । गत्यागत्योर्मम स्वेच्छा त्वदीया निवृतो भव ॥ ४२६ ॥ 10 • ततः सूरिनिरां देवीं तुष्टवे सुष्ठवाग्भरैः । वृत्तर 'ध रिते त्या'द्यैश्चतुर्दशभिरद्भः॥ ४२७॥ इमां स्तुतिं सुवर्णाढ्यां कर्णकुण्डलरूपिणीम् । मानयन्त्यतिसन्तोषाद् भारती वाचमूचुपी' ॥ ४२८ ॥ वत्स! किं पृच्छसीत्युक्ते सूरिरूचे विवाद्यसौ । सत्यं प्रज्ञाबलाजल्पेद् , विज्ञानमथ किञ्चन ? ॥ ४२९ ॥ देवी प्राहामुना सप्तभवा नाराधिताऽस्म्यहम् । प्रदत्ता गुटिकाक्षय्यवचनाऽस्य मया ततः ॥ ४३०॥ तत्प्रभावाद् वचो नास्य हीयते यतिनायक! सोपालम्भमिवाहासौ सूरिः श्रीश्रुतदेवताम् ॥ ४३१ ॥ 15 पुष्णासि प्रत्यनीकं किं शासनस्य जिनेशितुः । सम्यग्दृष्टिः पुरानायात् शुश्रुवे भवती ननु ॥४३२॥ सरस्वती पुनः प्राह नाहं जैनविरोधिनी । उपायं तेऽर्पयिष्यामि यथासौ जीयते बुधः ॥ ४३३ ॥ सर्वेऽपि मुखशौचं ते विधाप्याः"पार्षदादयः । ततोऽस्य कार्यमाणस्य गण्डूपं मुञ्चतो मुखात् ॥ ४३४॥ भ्रष्टा चेद् गुटिकाऽवश्यं युष्माभिर्जितमेव तत् । चतुर्दशं पुनर्वृत्तं न प्रकाश्यं कदापि हि ॥ ४३५॥ यतस्तत्र श्रुते साक्षाद् भवितव्यं मया ध्रुवम् । कियतां हि प्रसीदामि निष्पुण्यानां मुनीश्वर! ॥ ४३६ ।। 20 इत्युक्त्वाऽन्तर्दधे देवी सूरिश्छन्नं जगौ पुरः । विज्ञवाक्पतिराजस्य यदादिष्टं गिरा तदा ॥ ४३७ ।। इत्यङ्गीकृत्य तेनाथ करकं नीरपूरितम् । समानाय्य सभा सर्वा वशुद्धिं व्यधाप्यत" ॥ ४३८ ॥ तत्कुर्वतोऽथ तस्यापि गुटिका पतिता मुखात् । भिक्षोरास्यजलैर्नुन्ना श्रीरिवापुण्यकर्मणः ॥ ४३९ ॥ अविश्रान्तमिथोवादाध्वन्यऽध्वन्यतया ततः । श्रान्ता विश्राममिच्छन्ती मूकस्येवास्य गीः स्थिता ॥४४॥ सदस्याश्च वचः प्रोचुर्गुटिकैव वचःक्षमा । अनेडमूक एवायं भिक्षुरन्वर्थनामभूः॥४४१ ॥
25 जिग्ये श्रीवप्पभहिस्तं वा दि कुअर के सरी । बिरुदं जुघुषे राज्ञा जज्ञे जयजयारवः ॥ ४४२॥ धर्मराज्यं गृहीतुं च स्वबलात् सार्द्धवैभवम् । तदाम उपचक्राम खं पणं कस्त्यजेजयी ॥ ४४३ ॥ उवाचाथ गुरुस्तस्य यदुक्तं च पुरः पुरा । यदाज्येन पणं चक्रे धम्मभूपोऽधिकृत्य नः ॥ ४४४ ॥ तत्तस्यैवोपकाराय" भविष्यति कदाचन । तदस्य वचसः कालो नृपनाथ ! समाययौ ॥ ४४५ ॥ इयं प्रमाणशास्त्राणां मुद्रा यल्लिखिते ततः । सम्बन्धे निग्रहो नैव यत्पराजय एव सः॥४४६॥ 30. अस्य राज्यं तदस्यैव सन्तिष्ठतु यथास्थितम् । अनित्यभवहेतोः कः शास्त्रमुद्रां विलुम्पति ॥ १४७ ॥ गुरुभक्त्याभिरामोऽयमामोऽनिच्छुर्बलादपि । धर्म धर्मस्थितो राज्यमनुमेने प्रसादतः ॥ ४४८ ॥
तत आश्लिष्य बौद्धं तं सूरिर्वद्धनकुञ्जरम् । तदासन्ने गोपगिरौ श्रीवीरभवनेऽनयत् ॥ ४४९ ॥ 1N व्यधायि । 2N यद्येषा। 80 °वर्तयतस्ततः। 4 A मध्ये रात्रेः। 5A वृत्तैरविष्टितेये। 6 A भारतीं। 7 A मनुषी। 80 सप्तवारा 19N माहं । 10 N विधाय श्रीपा। 11 N व्यधीयत । 12 N °वाधिकाराय ।
प्र. १३