________________
९६
15
प्रभावकचरिते
440 वैराग्य एव मुक्तिः स्यात् सर्वदर्शनसंमतम् । कार्या नात्राधृतिर्भिक्षुर्जेयो मे तत्कृतोन्नतिः ॥ ३८८ ॥ धर्मराजस्य सम्यक् कुविचारादिदमाहतम् । मदाश्रितो यतो वादस्तस्यैवोपकरिष्यति ॥ ३८९ ॥ कुत्राप्यवसरे तस्मादस्तु वाक्पूरतो' रणः । संमान्य प्रेषय प्रेष्ठपुमांसं धर्मभूपतेः ॥ ३९० ॥
आमराजेन कृत्वैतत् प्रहितः समयं भुवम् । व्यवस्थाप्य जगामासौ प्रोचे तत्स्वामिनः पुरः॥ ३९१ ॥ 5६१४. वाग्विग्रहाय यादीन्द्रं राजा वर्द्धनकुञ्जरम् । धर्मः संवाहयामास गीष्पतिं वासवो यथा ॥३९२।।
चतुर्दिगन्तविश्रान्तकीर्तयः सुहृदस्ततः । आहूयाभ्यर्च्य सभ्यत्वे वादेऽस्मिन् विहिता मुदा ॥ ३९३ ।। परमारमहावंशसम्भूतः क्षत्रियाग्रणीः । तस्य वाक्पतिराजोऽस्ति विद्वान् निरुपमप्रभः ॥ ३९४ ॥ पूर्व परिचितश्चासौ बप्पभाप्रभोस्ततः। तस्य वाग्ममें विज्ञानहेतों संवाहितो मुदा ॥ ३९५॥ व्यवस्थितदिने प्राप प्रदेशं देशसन्धिगम् । 'सभाधीशमहासभ्यः समं वर्द्धनकुञ्जरः॥ ३९६ ।। कन्यकुब्जादपि श्रीमानामः कामं सुधीनिधिः । श्रीबप्पभट्टिना विद्वद्वन्दसन्निधिना समम् ॥३९७॥ भुवं तामेव संप्रापातपत्राच्छादिताम्बरः। आवासान् स्वःपुराभासान् दत्वावस्थितवानथ ॥३९८॥-युग्मम् । आजन्म सर्वदा दृष्टशस्त्राशस्त्रिश्लथादरः । अदृष्टपूर्ववाग्युद्धप्रेक्षायै सकुतूहलः ॥ ३९९ ॥ अहंपर्विकया सिद्ध-विद्याधरसुरव्रजः। समेतश्वाप्सरोवगैः स्वर्गवद्गगनाङ्गणे ।। ४०० ।। कौतुकाकृष्टचेतोभी राजसभ्यैर्बहुश्रुतैः । ईयतुः सङ्गतौ तत्र तौ वादि-प्रतिवादिनौ ॥ ४०१ ॥ उपविष्टेषु सभ्येषु श्रुत्यधीनमनस्सु च । स्तिमितात्र सभा साऽभूदालेख्यलिखिता किल ॥ ४०२ ॥ निजं निजं नराधीशमाशिषाभिननन्दतुः । स्वस्वागमाविरोधेन सभ्यानुमतिपूर्वकम् ॥ ४०३ ॥ ततः श्रीसौगताचार्यः पूर्व वर्द्धनकुञ्जरः । आशीर्वादमुदाजढे व्यथकं द्वेषिपर्षदाम्" ॥ ४०४ ॥
, तथा हिशर्मणे सौगतो धर्मः पश्य वाचंयमेन यः।
आदृतः साधयन् विश्वं क्षणक्षणविनश्वरम् ॥४०५ ॥ अथ श्वेतांबराचार्यो बप्पभहिः सुधीपतिः । अभ्यधत्ताशिर्ष स्वीयां भूपालाय यथा तथा ॥ ४०६ ॥
अर्हन शर्मोनति देयानित्यानन्दपदस्थितः" ।
यद्वाचा विजिता मिथ्यावादा एकान्तमानिनः ॥ ४०७॥ उभयोराशिषः श्लोको निरूचुः पार्षदास्तदा । असौ धर्मों गतः सम्यग् यमिता गीश्व वादिभिः॥४०८॥. क्षणभनि जगञ्चोक्तं भङ्गस्यैवानया गिरा। सौगतस्यानुमीयेत वाग्देवी सत्यवादिनी ॥ ४०९ ॥ नित्यानन्दपदश्रीदो देव एकान्तविग्रही। मिथ्यावाद विजेत्री गीः श्वेतभिक्षोस्ततो जयः ॥ ४१०॥ इति निश्चित्य ते तस्थुर्यावन्मौने सभासदः" । तावत् कस्तूरिका हस्ते कृत्वा बौद्धोऽब्रवीदिदम् ॥ ४११॥ 'कस तरी उपगरई' प्रोक्ते प्राकृत" ऊचिवान् । आचार्य उपकीयं रजकस्येति" विद्यताम् ॥ ४१२ ॥ इति तत्प्रसङ्केतादुत्तरेणाधरीकृते । तावद् रक्ताम्बरः सर्वानुमतः पक्षमब्रवीत् ॥ ४१३ ॥ सर्वानुवादेनानूद्य ततस्तत्पक्षदूषकान् । दाजहार व्याहारान् प्रामाणिकपतिमुनिः ॥ ४१४॥ उत्तरादुत्तरं चैवमुक्ति-प्रत्युक्तिरीतितः । षट् व्यतीयुस्तदा मासास्तयोर्विवदमानयोः ॥ ४१५॥ श्रीमानामतृपोऽन्येारूचे सूरिं कदा प्रभो!। व्याघातो" राजकार्याणां वादः संपूरयिष्यते ॥ ४१६ ॥
20
1A वाक्यरतो। 2 A B प्रष्टपुमांस। SN सययौ। 4 N वादीदराजवर्द्धन । 5 N धर्म । 6 N समाधीश17 N काम। 8Cसभम् । 9N खःपुरापट्टे। 10 Aता तत्र । 11 BC पर्षदा। 12 A स्थितं । 13 A सदं सदः । 14 A नास्ति 'प्राकृत' । 15 A रजस्येति । 16 B व्यापातो।