________________
९०
प्रभावकचरिते
434
इत्यर्थः पुरुषः, देवधन न गृह्यत इत्यानदुतावली, इत्यर्थ
द्रियत्वान्निर्लोभत्वाञ्च शीतस्तदस्माकमनेन सह कथं मीलक इति । तथा, धना देशीशब्देन पत्नी, सा उत्सुका; प्रियश्च मन्दस्नेहः । ततः कथं मीलको भवति । विरहेण यन्मानुषं म्रियते मृततुल्यं प्राणशेषं भवति, तस्य को निहोरक उपरोधः, तत्र कृतेऽपि न जीवति । मिलित एव प्रणयिनि जीवति । तथा कर्णे पवित्रिकेयं जनो जानाति दोरकं द्वित्रिगुणावलिततन्तुरूपं स्थगीधरस्येति वास्तवार्थः॥१॥ 5 तथा-तप्तं तपस्तदिच्छतीत्येवं शीलस्तपश्चरणेच्छु। स तप्तैषी। तथा, अली भूपाप्रिय एको लक्षणया सकामः | 'नाकामी मंडनप्रियः' इति वचनात् । अनयोर्मीलकविषये का ईहा चेष्टा, किंतु न कापि । तथा उप्तं धनं यैस्ते धनोप्ताः, आहिताग्यादित्वात् क्तांतपरनिपाता, तेषामावली श्रेणिर्दानेश्वरसमूहस्तस्य प्रियो वल्लभः। दानेश्वराणां हि सत्पात्रेच्छा विशेषतो भवति । स चार्थादाचार्यः। स मन्दस्नेहो निर्मोह इत्यर्थः। तथा, विरहे विशिष्टैकान्ते तद्धेतोर्मियते, लक्षणया तदर्थ सन्तप्यत इत्यर्थः। तस्य का न होरा मुहूर्तरूपाः । स सर्वदा तस्य विरहे सन्तप्त 10 एवास्ते । स क इति प्रश्नाध्याद्वारे, 'कन्नि-कान्यकुले, पवितडित्समानः-विद्युत्समस्तेजस्वी, जनो विद्वजनो
मल्लक्षणः, स जानाति 'दो रा' द्वौ राजानी। यास्तवेऽर्थे-द्वावेव राजानौ धर्म आमश्च विद्वत्प्रियाविति मच्चित्ते । गूढार्थस्तु-एतावता राजन् ! त्वया शेयम्, यहरुप्रतिज्ञानिहाय आमोऽत्रायातोऽस्तीति द्वितीयोऽर्थः ॥२॥
तथा-तप्तिः-सारा शीतला यत्र, श्लथ आदर इत्यर्थः। स ततिशीतलः। 'स्वराणां स्वराः प्रायोऽपभ्रंशे' इती. कारः। तत्र मीलकः कीदृशः। यतः-ध्वनदुक्तावली, चमत्कारिकाव्यथेणिर्वल्लभा यस्य, अर्थादाचार्यः। सोऽस्मासु 15 मन्दस्नेहः । स उपरोधेन न गृह्यत इत्यर्थः। तथा, विरहे अर्थाद् विषयवियोगे सर्वसंगपरित्यागे सति योऽमरति मानुषः पुरुषः, देववत्सुखीभवति, तस्य कः स्नेहः सम्बन्धादिषु । निहोरक उपरोधः, स उपरोधेन न गृह्यत इत्यर्थः। करणप्रवृत्तिर्दानेश्वरत्वाकर्णरीतिः। दोरा-दोषा राजते महाबाहुः स आम एव । एवंविधमपि सूरिर्जनमिव प्राकृतमिव जानाति न किंचिदित्यर्थः॥३॥
तथा-तत्त्वानि ईष्टे तत्वेशी, अत एव अली संगनिषेधी, तस्य मेलः संसर्गः तस्य अवोऽवाप्तिः । 'स्वराणां 20 स्वरा' इत्याकारः । तथा, के ब्रह्मणि, ईहा चेष्टा, यस्य स केहः-परमब्रह्मेच्छः। दीर्घः प्राग्वत् । धनयुक्तानामावली
श्रेणिः । प्रिया अमन्दस्नेहा अत्यर्थप्रीतिर्भवति । विगतरागेषु हि सर्वः प्रीतिमान् । धनवन्तोऽपि तत्रैव रतिं विदधति । तथा, विपक्षी गरुडः, स रथो यस्य स विरथो-विष्णुस्तस्मिन्नर्थात् चित्तस्थे, यो म्रियते तस्य को निभः सदृशः। स च रा राजेव एवं भवति । गुरौ चित्तस्थे मृत्युरपि श्लाघ्यः । तथा, जह्नुनद्या गंगायाः सका.
शात् का अन्या पवित्रा । अयमेव भगवान्' पूज्यः। तथा, 'दोरा' द्वौ राजानी संगतौ यस्य स द्विराट्, सर्व25 सामर्थ्ययुक्तो भवानेव यदुचितं तद्विघेहीति चतुर्थोऽर्थः॥४॥
॥तत्तीसीअलीटीकायां ग्रंथाग्रं ३२, अ०८॥ श्रीवप्पभट्टिना चैवमर्थानां साष्टकं शतम् । व्याख्यातं मतिमान्येन न जानीमो वयं पुनः ॥ २४९ ॥ तत उत्थाय रात्रौ च वारवेश्यागृहेऽवसत् । अमूल्यं कङ्कणं दत्वाऽस्याः प्रातर्निरगाद् गृहात् ॥ २५० ॥
द्वितीयं राजसौधस्य द्वारि त्यक्त्वा खरांशुरुक् । इन्द्रकीले ययौ तस्माद् बहिरस्थाद् रहोवने ॥ २५१ ।। 30 ततः प्रातर्मुनिस्वामी संगत्य नृपतेः सभाम् । आपप्रच्छे नृपः कन्यकुब्जप्रस्थानहेतवे ।। २५२ ॥
तेन पूर्णप्रतिज्ञायामज्ञातायां कथं त्विति । राज्ञा पृष्टः समाचख्यावामभूप इहागमत् ।। २५३ ॥ विद्वत्कथनतस्तेन कथितं यद्यदीदृशः । ज्ञायतां सैष एवेति 'दो रा' शब्दात् तथा पुनः ।। २५४ ॥ द्वौ राजानौ इति स्पष्टं मातुलिंगस्य दर्शनात् । इदं किमिति पृष्टे च 'बी ज उ रा त उत्तरात् ।। २५५ ॥
तथा 'तू अ रि पत्तं ति तवारिपत्रमित्यथ । संस्कृताद्भवतीत्येतत् तवाये जगदे स्फुटम् ।। २५६ ॥ 35 ततो विप्रतिसारो*ऽस्य प्रससार प्रकर्षतः । धिगस्ति मम मूर्खत्वं न ज्ञातं कथितेऽपि यत् ॥ २५७ ॥
ततोऽवसर एतस्मिन् वारवामा प्रभोः पुरः । कङ्कणं मुमुचे रत्नरोचिरस्ततमस्ततिः ॥ २५८ ॥ क्षत्ताऽपरं समाथ भूपालाय व्यजिज्ञपत् । द्वारेन्द्रकीले केनापि मुक्तं नाथ ! न वेद्यहम् ॥ २५९॥
1N या सूत्रार्थः। 2 N स वा इति । N मास्ति 'कनि-। 4N या एवाऽर्थे । 5 N नास्ति 'एतावता'। 6N नास्ति 'एव'17A भवान् । 8 N स्वरांशुरुक । * 'पश्चात्तापः' इति C टिप्पणी।