________________
433
११. बप्पभट्टिसूरिचरितम् ।
तद्यथाअङ्गैरुत्पुलकै: 'प्रमोदसलिलप्रस्यन्दिभिलोचनै
राकाद्भुतसंकथास्तव सुधीभर्तुः प्रसन्नात्मनः । सौजन्यामृतनिझरे सुमहति मातुं विपद्वारिधेः
पारं गन्तुमपारपौरुष ! वयं त्वां द्रष्टुमभ्यागताः ॥ २३३ ॥ श्लोकं विचित्रबन्धेन लिलेख स खटीदलात् । कौतुकादामभूपालः शालिसौहार्दरङ्गितः ॥ २३४ ॥
तथा हिअ ति अति अन्म अलं प्री द्य र द्य ज य प ध। मे ला मे ला मेलं मे लं
फ स क स क स क स ॥ २३५॥ तं च गोमूत्रिकाबन्धं ज्ञात्वा गुरुरपि स्वयम् । वाचयामास दोषज्ञैरपि ज्ञातं परैर्नहि ॥ २३६ ॥
तथा हिअद्य मे सफला प्रीतिरद्य मे सफला रतिः। अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ २३७ ॥
15 विद्वद्गोष्ठ्या विनिद्रं तं विश्रमय्य क्षपाक्षणे । प्रगेऽशको नृपास्थानं सूरिः प्राप यथास्थितिः ॥ २३८ ॥ आमराजोऽप्यथ श्रीमानभ्रच्छन्न इवांशुमान् । विशिष्टैः स्वार्थनिष्ठोऽगात् स स्थगीधरकैतवात् ॥२३९।। आमविज्ञप्तिकां धर्मराजस्यादर्शयद् गुरुः । आगमिष्यदृवियोगाग्निज्वालामिव सुदुःसहाम् ॥ २४०॥ वाचयित्वा च तां पृष्टो दूतस्ते कीदृशो नृपः । स प्राहास्य स्वगीभर्तुस्तुल्यो देव ! प्रबुध्यताम् ॥ २४१ ।। मातुलिंग करे बिभ्रत् सैष पृष्टश्च सूरिणा । करे ते किं स चावादीद् 'बीज उरा" इति स्फुटम् ॥ २४२ ।। 20 दूतेन चाढकीपत्रे दर्शिते गुरुराह सः । स्थगीधरं पुरस्कृत्य 'तू अरि पत्त' मित्ययम् ॥ २४३ ।। प्राकृतेनोत्तरं प्रादाच्छलेषेण ज्ञापनोपमम् । अवबोधाय यदृच्छा तु धर्मस्यर्जुचेतसः ॥ २४४ ॥ अथोवाच प्रधानश्च सूरिरेष श्लथादरः । अस्माखिति प्रतिज्ञा य' दुस्तरां विदधे ध्रुवम् ॥ २४५ ॥ विहितेऽत्रापि चेत् पूज्य आयाति 'प्राज्यपुण्यतः ।
____ अस्माभिः सह तद्देवाः प्रतुष्टा नो विचार्यताम् ॥ २४६॥-युग्मम् । 25
यतःतत्ती सीअली मेलावा केहा,
धण उत्तावली प्रिय मंदसिणेहा। विरहिहिं माणुसु जं मरइ तसु कवण निहोरा,
कंनि पवित्तडी जणु जाणइ दोरा ॥ २४७॥ राज्ञोचे वस्तुकस्यास्य कीदृगर्थः प्रभुस्ततः । बप्पभर्नुिपस्याये व्याख्यातं ख्यातधीनिधिः ॥ २४८ ॥ तथाहि-एका लोहपिण्डी वहिना तप्ता । अर्थात क्षेया। एका शीतला। अनयोर्मीलकः संसर्गः कीदृशः। उभयोरपि तप्तयोरेव सम्बन्धो भवति । इत्यनेन किमुक्तम्-यद्वयं रणरणकतप्ता, अयं च औदासीन्याज्जितें
1N प्रसाद 1 2 AC°दुःसहम् । 3 N द्विजराज'। 4A ज्ञापनोत्तमम्। 5A अवबोधये; BC अवबोधे। 6 A BB 17 N प्रतिज्ञाय दुःपूरी। 8 A प्राच्य। 9Cमाणुस । 10N व्याख्यादाख्या।
प्र. १२