________________
७४
5
10
15
20
25
30
प्रभावकचरिते
नरकगमनदौहृदं हि जीव ! त्यज ननु दौहृदमायतौ दुरन्तम् । निजमिह परिबोध्य जीवमित्थं प्रकटमुवाच तपोधनाप्रतोऽसौ ॥ १९१ ॥ इह 'गुरुजनवत्सलत्वबुद्धेरनृणविधिः किमवाप्यते कथचित् । नरकगतिसमीपगामिनं मां प्रति घटते भृशमुद्दिधीर्षया यः ।। १९२ ॥ विविध'मथ विरोधमौझ्य सूरिभृशमभिपृच्छय च तं नृपं महेच्छः । निरगमदविलम्बितप्रयाणैः समगत शीघ्रमसौ गुरुक्रमाणाम् ॥ १९३ ॥ शिरसि च विनिधाय तान् नतास्योऽगददथ गद्गदगीर्भरः स तत्र । गुणविशद विनेयमोहतोऽहम् प्रभुचरणाम्बुजसेवया वियुक्तः ।। १९४ ।। श्रुतविहिततपः प्रदाय बाढं मम कलुषं परिशोधयध्वमाशु | अविनयसदने विनेयपाशे प्रगुणतरां मतिमातनुध्वमुच्चैः ॥ १९५ ॥ गुरुरिह परिरभ्य गाढमेनं कृतवृजिनार्द्दतपः प्रदाय चावक् ।
कलुष- सुकृतयोर्विधौ समर्था ननु हरिभद्रसमाः क्क सन्ति शिष्याः ॥ १९६॥
खरतरतपसा विशोषयन्तं तनुमतनुः स विनेययोर्वियोगः ।
परिदहति भृशं मनस्तदीयं जलनिधिमौर्व इव प्रकाशकीलः ॥ १९७ ॥ अतिशयपरिदूनमेवमम्बा धृतिविधये सुतरामुवाच वाचम् । क इव स विरहस्तवार्दनेऽसौ गृहधननन्दनसङ्गवर्जितस्य ।। १९८ ।। जिनसमयविचित्रशास्त्रसेवानिपुण ! विशुद्धमते ! स्वकर्मपाकः । फलवितरणकृन्निजः परो वा तदिति विडम्बकमेव कोविदानाम् ॥ १९९ ॥ गुरुपदवरिवस्ययाभिरामः सफलय शुद्धतपस्यया स्वजन्म । शरदि घन इव प्रलीनमेतद् भवति विकर्म यथा तनु त्वदीयम् ॥ २०० ॥ अवगथ हरिभद्रसूरिरम्बे ! जडमतिमाहशशिष्यकावलम्बे ! | न किमपि मम चेतसो 'व्यथाकृद् विशदविधेयविनेयमृत्युमुख्यम् ॥ २०१ ॥ ढमिह निरपत्यता हि दुःखं गुरुकुलमप्यमलं मयि क्षतं किम् ।
इति गदति जगाद तत्र देवी शृणु वचनं मम सूनृतं त्वमेकम् ॥ २०२ ॥ नहि तव कुलवृद्धिपुण्यमास्ते ननु त (भ) ब शास्त्र समूहसन्ततिस्त्वम् । इति गदितवती तिरोदधे सा श्रमणपतिः स च शोकमुत्ससर्ज ॥ २०३ ॥ मनसि गुरुविरोधवर्द्धिगाथात्रितयमिदं गुरुभिर्गुरुप्रसादात् । प्रहितमभिसमीक्ष्य सैष पूर्व स च समरार्कचरित्रमाततान ॥ २०४ ॥ पुनरिह च शतोनमुग्रधीमान् प्रकरणसार्द्धसहस्रमेष चक्रे ।
जिनसमंयवरोपदेशरम्यं ध्रुवमिति सन्ततिमेष तां च मेने ॥ २०५ ॥ अतिशयहृदयाभिरामशिष्यद्वय विरहोर्मिंभरेण तप्तदेहः ।
निजकृतिमिह संव्यधात् समस्तां विरह पदेन युतां सतां स मुख्यः ॥ २०६ ॥
1 N जीवस्य तु मम । 2 N जनगुरु° 3 N त्रिविध। 4 C विशोधयन्तं । 5 A ननु; C नतु । 6 A वृथा ।
418