________________
407
९. हरिभद्रसूरिचरितम् । बलजवलयदर्शनोर्ध्वदृष्टिः कथमपि तीर्थपतिं ददर्श सोऽथ । अवददविदितोत्तमार्थतत्त्वो भुवनगुरावपि सोपहासवाक्यम् ॥ १६॥
तथाहिवपुरेव 'तवाचष्टे 'स्पष्टमिष्टान्नभोजनम् ।
न हि कोटरसंस्थेऽग्नौ तरुर्भवति शादलः ॥ १० ॥ गजमिह पररध्यया प्रबुध्य व्यवहितमत्र बटुव्रजैर्ऋमद्भिः। निजमथ निलयं ययौ पुरोधास्तृणमिव सर्वमपीह मन्यमानः। १८ ॥ परतरदिवसे च' राजसौधादवसितमंत्रविधेयकार्यजातः । प्रति निजनिलयं प्रयान्निशीथे स्वरमशृणोन्मधुरं स्त्रियो जरत्याः ।। १०॥ प्रकटतरमतिः स्थिरप्रतिज्ञो ध्वनिरहितावसरेऽवधारयन् सः । व्यमृशदथ नचाधिगच्छति स्म श्रुतविषमार्थकदर्थितः स गाथाम् ।। २०॥
सा चेयम्चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की। केसव चक्की केसव दुचक्की केसी य चक्की य ॥२१॥ अवददिति यदम्ब ! चाकचिक्यं बहुतरमत्र विधापितं भवत्या । इह समुचितमुत्तरं ददौ सा शृणु ननु पुत्रक ! गोमयार्द्रलिप्तम् ॥ २२ ॥ इति विहितसदुत्तरेण सम्यक् स च वदति स्म चमत्कृतिं दधानः । निजपठितविचारणं विधेहि त्वमिह सवित्रि ! न वेझ्यहं त्वदर्थम् ॥ २३ ॥ अवदथ च सा यथा गुरोर्नोऽनुमतिरधीतिविधौ जिनागमानाम् । न विवृतिकरणे विचारमिच्छर्यदि हि तदा प्रभुसंनिधौ प्रयाहि ।। २४ ॥ वचनमिति निशम्य सोऽपि दध्यौ परिहृतदर्पभरः पुरोहितेशः । अपि गुरुपुरुषैर्दुरापमध्ये परिकलना न समस्ति वाङ्मयेऽस्मिन् ।॥ २५ ॥ जिनमतगृहिगेहचन्द्रशालां यदियमुपैति ततो हि जैनसाध्वी । जिनपतिमुनयो गुरुत्वमस्या विदधति तन्मम तेऽपि वन्दनीयाः ॥ २६ ॥ सकलपरिहृतिर्ममागतेयं दुरतिगमा वचनस्य यत् प्रतिष्ठा ।
व्यमृशदथ स गेहमागतः स्वं तदनु विनिद्रतया निशां च निन्ये ॥ २७ ॥ ६३. अथ दिवसमुखे तदेकचित्तोऽगमदिह वेश्मनि तीर्थनायकस्य । हृदयवसतिवीतरागबिम्ब बहिरपि ..क्ष्य मुदा स्तुतिं प्रतेने ॥ २८॥
तथाहिवपुरेव तवाचष्टे भगवन् ! वीतरागताम् ।
न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाबलः ॥ २९ ॥ 1A तथाचष्टे। 2 N स्पष्टं । 3 A B बहुब'; N पटुवः। 4 N ऽथ । 5 A विचारणां। 6 A वेद्यहं; C वेग्रिहं । 7C तमर्थ N बदर्थ। 8 A नास्ति 'न'। 90 °संस्थितामौ ।
90