________________
प्रभावकचरिते
390
तत्करवासप्रभवप्रभावतस्तन्न समदहद् वह्निः । अमृतनिधौ तन्मने न प्रभवति किन्तु विध्याति ॥१३४॥ एकादशसु समानां लक्षेषु गतेषु' विंशजिनसिद्धेः । पञ्चाशीतिसहस्रीषट्शतषडशीतिसहितेषु ॥ १३५ ।। जीर्णमुपजिलिकाभिर्जर्जरकाष्ठं चिरेण तज्जज्ञे । पुनरुद्दधे प्रावभिरंपड इह राणकः श्रीमान् ॥ १३६ ।। श्रीविजयसिंहसूरिर्जिनसमयद्रोणिकर्णधारकलः । आयुःप्रान्तेऽनशनं प्रगृह्य 'देवीं भुवं प्राप ॥ १३७ ।। अद्यापि तस्य वंशे प्रभावकाः सूरयः समुदयन्ते । यत्तेजःप्रसरेण प्रसर्पता शासनं जयति ॥ १३८ ।
इत्थं प्रभोर्विजयसिंहमुनीश्वरस्य वृत्तं पवित्रमतिदुष्करमल्पसत्त्वैः । अश्वावबोधवरतीर्थचरित्ररम्यं वृत्तेन चातिशयचारु सुदर्शनायाः॥ १३९ ॥ अम्बासुरीवरचरित्रपवित्रमत्र संघस्य पुष्टिकरमद्भुतमुन्नतायाः। अभ्यस्यमानमतुलं प्रकटप्रभावं भूयात् समस्तजिनशासनवैभवाय ॥ १४० ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभा श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। ' श्रीपूर्वर्षिचरित्ररोहणगिरी प्रद्युम्नसूरीक्षितः शृङ्गोऽजायत षष्ठ एष गुटिकासिद्धस्य वृत्तं प्रभोः ॥ १४१॥
॥ इति श्रीविजयसिंहसूरि प्रबन्धः ॥ ॥ ग्रंथानं १७९ । अ०७॥ उभयं १२८७ ॥ अक्षर ॥ १८ ॥
10
1N नास्ति 'गतेषु'। 2 'ऊदेही' इति B टि.। 8 A काष्ठः। 4 N इव । 5 N पुनर्गीय । 6 A सूरिचरितं नाम प्रबन्धः। 7A नास्ति 'प्रबन्धः'।