________________
389
६. विजयसिंहसूरिचरितम् ।
४५ तत्रितयमृति मत्वा हत्यादोषी कयं नु जीवामि । आकूणितगन्धझं प्रदयमानोऽङ्गुलीभिरहम् ॥ १०७ ॥ तस्मान्ममापि मृत्युः श्लाघ्योऽत्रैवार्हता पवित्रेऽद्रौ।'याऽमीषा सा मे स्याद् गतिरपरैः प्रलपितैः किं नु॥१०८॥ एवं विचिन्त्य पेते तत्रैवानेन भैरवे भयदे । लेभे तबाहनता सिंहतया व्यन्तरीभूय ॥ १०९ ।।
साऽम्बादेवी 'श्रीनेमिनाथतीर्थेऽत्र भक्तियुक्तानाम् । साहाय्यं कुर्वाणा तत्र गिरौ विद्यतेऽद्यापि ॥ ११०॥ ३६. अथ विजयसिंहसूरिस्तत्राष्टाङ्गप्रणाममाधाय । विहिततीर्थोपवासस्तीर्थेशं तुष्टुवे सुष्टु ।। १११ ॥ निरुपमचारित्रनिधिं तत्र प्रेक्ष्यामुमम्बिका देवी । क्षणदायां प्रत्यक्षा भूत्वा प्रणनाम तत्पादौ ।। ११२ ॥ अम्बा त्वं द्विजपत्नी पतिपरिभूता जिनाङ्सिरसिरुहम् ।
स्मृत्वा सुरत्वमाप्ता त्वामनु पतिरपि च तादृगभूत् ।। ११३ ।। तस्येति वचः श्रुत्वा हृष्टाऽवादीत् समादिशत किंचित् ।
ते प्राहुरनीहानां कार्य नः किमपि नास्ति शुभे। ॥ ११४ ॥ 10 सा निःस्पृहत्वतुष्टा विशेषतस्तानुवाच बहुमानात् ।
गुटिकां गृहीत विभो ! चिन्तितकार्यस्य सिद्धिकरीम् ॥ ११५ ॥ चक्षुरदृश्यो गगनेचरश्च रूपान्तराणि कर्ता च । कवितालब्धिप्रकटो विषहृद् बद्धस्य मोक्षकरः ॥ ११६ ॥ भवति जनो गुरुलघुतां प्रपद्यते म्वेच्छया तथावश्यम् ।
अनया मुखे निहितया विकृष्टया तदनु सहजतनुः ।। ११७ ॥ 15 सुगुरोरनिच्छतोऽपि हि हस्ते मुक्त्वा तिरोदधे च सुरी । वदने तां न्यस्य प्राक् श्रीनेमिस्तवममुं चक्रे॥११८॥ 'नेमिः समाहितधिया'मित्यादिभिरमरवाक्यसंकाशैः।
काव्यैरस्तोत् श्रीमन्नेमिम् ; स्तुतिरस्ति साऽद्यापि ॥ ११९ ॥ सूरिरथ तीर्थयात्रां विधाय चायात् तदा भृगुक्षेत्रे । संघप्रवेशमुख्यैर्महोत्सवैस्तं समर्चयत् ॥ १२० ॥ ६७. अन्येधुरंकुलेश्वरनगरात् प्रबलेन पवनवेगेन । जाज्वल्यमान उच्चैवंशकटः प्राप तन्नगरे ।। १२१ ॥ 20
अर्चिलयपरिप्लुत सदनापणहर्म्यचैत्यकोटीषु । अनलः प्रससार तदा सागर इव मुक्तमर्यादः ॥ १२२ ॥ प्रथमकवले तृणावृतगृहाणि कावेल्लुकावृतानि तथा । मध्याहारे किल कुट्टिमानि तृप्त्यर्थमस्यासन् ॥ १२३ ॥ दंदह्यमानमानुषपशुखचराक्रन्दभैरवारावम् । शारदगर्जिरिवो'ऽसौ बधिरितवियदनल' उत्पेदे ॥ १२४ ।। भस्मीकृतं समस्तं नगरं तेनेह दहनरूपेण । समवर्तिना सगोपुरदुर्गाररियनपरिकरितम् ॥ १२५ ॥ उपशान्ते नियतिवशादनुपक्रमसाध्य ईगुपसर्गे । श्रीमुनिसुव्रतचैत्यं काष्ठमयं भस्मसात् तदभूत् ॥ १२६ ।।25 पाषाण-पित्तलामयदेवप्रतिमा विशीर्णसर्वाङ्गाः । अभवन् सुव्रतबिम्बं तस्थावेकं तु सवयवम् ।। १२७ ॥ विश्वप्रकाशरूपा दाहेमेरस्य ननु नवा मृत्स्ना । समराङ्गण इव मर्दितवीरे स्थैर्यस्थिते पुंसि ॥ १२८ ।।
अथ विजयसिंहसूरिर्गुटिकां वदने निधाय सत्पात्रम् । हस्ते कृत्वा तीर्थोद्धारायस गोचरं व्यचरत्॥१२९॥ 'इभ्यब्राह्मणवेश्मसु पूर्वमगाद् धर्मलाभवक्ताऽसौ । श्रीमुनिसुव्रतचैत्योद्धारे भिक्षां प्रयागे च ॥ १३ ॥ पश्चाशत् कोऽपि शतं द्विशतीं वा कोऽपि जातरूपस्य । प्रददौ तस्य महर्षेः पञ्चसहस्रास्तदाऽभूवन् ॥ ३३१॥ 30 अष्टमहासिद्धिभृतस्तस्यासाध्यो धनागमो नैव । चारित्रधनं रक्षन् नादत्तादत्तमिह भगवान् ॥ १३२ ॥ पुनरुददीधरदाशु प्रधानदारुव्रजेन सूत्रभृता । बर्द्धकिरनेन तदा चक्रीवाहाय जिनसद्म ॥ १३३ ॥
1Nयो । 2 'श्री' नास्ति N 13 N प्रत्यक्षी 14 नास्ति नः' A BNC'न'15 A वंशप्रकट; BN वंशः प्रकटः । 6N'प्लुतः। 7 N गर्जितरवो। 8N'दनिल 19 BON एत्य । 10 Aः ।