________________
387
६. विजयसिंहसूरिचरितम् ।
तस्यास्ति चन्द्रकान्ता कान्ता' रूपेण जितरतिप्रीतिः ।
शकुनिस्तहुहिताऽभूत् सुदर्शनेत्याख्यया विदिता।।५४ ।। अथ च' जिनदासनामाभृगुपुरसार्थेश्वरः प्रवहणेन । तत्रायासीद् भूपतिरथ तेन प्राभृतैर्ददृशे ॥ ५५ ॥ आयुर्वेदी च तदा नृपतेः श्लेष्मोपशामकं चूर्णम् । प्रदे तीव्रत्रिकटुकयुक्तं तल्लेश उत्पतितः ॥५६॥ तेन घ्राणगतेन क्षुतमायातं बलाच्च वणिजोऽस्य । पञ्चपरमेष्ठिमश्रः प्रोक्तोऽनेन प्रभावनिधिः ॥ ५७ ॥ 5 राजसुता तं श्रुत्वा मूच्छा प्राप्ता पुरातनं जन्म । सस्मार जनकपृष्टा प्राच्यं निजगाद निजचरितम् ॥१८॥ अत्याग्रहेण पितरं तत्तीर्थोत्कण्ठिता तदाऽपृच्छत् । अप्रेषयति गुरौ सा प्रतिशुश्रावानशनमेव ।। ५९ ॥ अतिवल्लभापि दुहिता प्रहिता जिनदाससार्थवाहेन । आलिभिरष्टादशभिः पदातिभिः षोडशसहस्रैः ॥६॥ अष्टादशभिर्यानैः मणिकाञ्चनरजतमौक्तिकापूर्णैः । अष्टाभिः कञ्चुकिभिस्तथाङ्गरक्षैश्च तत्संख्यैः ।। ६१ ॥ सहसा सह साऽचालीदशेषपरिवारपरिवृताथ ततः।
10 सा प्राप राजपुत्री मासेनोपोषिता तीर्थम् ॥ ६२ ॥-त्रिभिर्विशेषकम् । श्रीमुनिसुव्रतनाथं प्रणम्य तत्रोत्सवं च विदधेऽसौ ।
तौ भानु-भूषणमुनी प्रणनाम च 'सुकृतिमुकुटमणिः ।। ६३ ॥ धनमानीतं सर्व ताभ्यां ढौकितवती कृतज्ञतया। निस्सङ्गत्वादाभ्यां निषेधिता भवविरक्ताऽभूत् ॥ ६४ ॥ उद्दघे सा चैत्यं जीणं तीर्थस्य कनकरत्नदलैः । श्रीशकुनिकाविहारः प्रसिद्धमिति नाम तस्याभूत् ॥६५॥15 द्वादशवर्षाणि ततस्तत्वा दुस्तपतपोभरं प्रान्ते । विहितानशना मृत्वा सुदर्शनाख्या सुरी समभूत् ॥ ६६ ॥ देवीलक्षपरिवृता विद्यादेवीसखीत्वमापन्ना । सा पूर्वभवं स्मृत्वा सुरकुसुमैरर्चति स्म जिनम् ॥ ६ ॥ अष्टादशवरसख्यस्तस्या दुर्गात्वमापुरत्र पुरे । जम्बूद्वीपसमानावासा भुवनेषु निवसन्तराः ।। ६८ ॥ अथ सा विदेहनन्दीश्वरादितीर्थेषु वन्दते प्रतिमाः । तीर्थकृतां श्रीसुव्रतपदकमलध्यानलयलीना ॥ ६९ ।। श्रीवीरजिनस्य पुरः साऽन्येधुर्नाट्यमुत्तमं विदधे । तत्र सुधर्माधीशः पप्रच्छ जिनं किमेतदिति ॥ ७० ॥20 तत्पूर्वभवं सर्व सर्वज्ञः प्रथयति स्म तत्पुरतः । अस्मात् तृतीयजन्मन्येषा निर्वाणमेष्यति च ॥ ७१ ॥ एतत्सामर्थ्यवशाद् भृगुपुरमेतन्न भङ्गमाप्नोति । अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥ ७२ ।। सकलकुसुमावचयं विचिन्वती प्रतिदिनं जिनार्चाय । परसुरपूजनविघ्नं विदधे संतापदं लोके ॥ ७३ ॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च । आर्यसुहस्तिविनेयाः संस्तभ्य निवारयामासुः ।। ७४ ॥ सम्पतिराजा च पुनर्जीर्णोद्धारं चकार तीर्थेऽस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ।। ७५ ।।25 श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च 'कालिकाचा । पञ्चाधिकविंशतियोजनान्तरा स्वप्रभावेन ॥७६।। श्रीसिद्धसेनसूरेर्दिवाकराद् बोधमाप्य तीर्थेऽस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ।।७।। कालिकसूरिः प्रतिमा सुदर्शनाया व्यधापयद् यां प्राक् ।
साऽऽकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥ ७८ ॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते । वर्षाणां समजायत श्रीमानाचार्यखपुटगुरुः ॥ ७९ ॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रमोस्तीर्थम् ।
मोचितमिह ताथागतमतस्थितेभ्यश्च पादिभ्यः ॥ ८॥ 1नास्ति N 'कान्ता'। 2 A नास्ति 'च'। 3 N वृत्तम् । 4 A सुकृतं 15 N B विरक्तवात् । 6N श्रीवीरस्य । 7 N अस्माच तृ18 N जिनाचार्यैः। 9 A कालका।