________________
३४
प्रभावकचरिते
378
६९. इतश्च श्रीभृगुक्षेत्रात् यतिद्वितयमागमत् । तेन प्रोचे प्रभो ! प्रैषीत् संघो नौ भवदन्तिके ॥ १६९ ।।
स्वस्रीयः स विनेयो *वः 'बलात् कपलिकां ततः । उन्मोच्य पत्रमेकं सोऽवाचयद्वारितप्रियः' ।। १७०॥ तत्राकृष्टिमहाविद्या पाठसिद्धाऽस्य संगता । तत्प्रभावाद् वराहारमानीय स्वादतेतराम् ॥ १७१॥ स्थविरैः शिक्षितः कोपात्* सौगतान्तः स्वयं गतः । अतीव भोजने गृद्धः स्वविद्यागर्वनिर्भरः ।। १७२ ॥ तत्प्रभावेण पात्राणि गतानि गगनाध्वना । भोज्यपूर्वान्युपायान्ति बौद्धोपासकवेश्मतः ॥ १७३ ॥ पात्राणां पुरतः श्राद्धगृहे याति पतगृहः । स प्रधानासने न्यस्य भ्रियते सह पात्रकैः ॥ १७४ ।। प्रातिहार्यमिदं दृष्ट्वा श्राद्धा' अपि तदाहताः । ततोऽपभ्राजनामेतां हरतागत्य वेगतः॥ १७५ ॥ गुडशस्त्रपुरात् ते च भृगुकच्छं समाययुः । भुवनेन च पात्राणि प्रेष्यन्त श्राद्धवेश्मनि ॥ १७६ ।। पूर्णानि तानि भोज्यानामायान्ति गगनाध्वना । गुरुभिः कृतयाऽदृश्यशिलया व्योम्नि पुस्फुटुः ।। १७७ ।। स प्रभूनागतान् ज्ञात्वा चिह्नानेन भीतिभृत् । प्राणेशदथ पूज्याश्च बौद्धानामालये ययुः ॥ १७८॥ बौद्धैर्बुद्धनतावुक्तैः सूरिभिर्जल्पितं तथा । वत्स शुद्धोदनसुत' ! वन्दस्वाभ्यागतं हि माम् ॥ १७९ ॥ प्रतिमास्थस्ततो बुद्ध आगत्यांह्विपुरोऽपतत् । तद्द्वारे चास्ति बुद्धांडः प्रोक्तस्तैः स पदोः पत ।। १८० ॥ समेत्य प्रणतः सोऽपि प्रभुपादाम्बुजद्वये । उत्तिष्ठेति गिरा सूररेषोऽर्द्धावनतः स्थितः ॥ १८१ ।। अद्यापि स तथैवास्ति 'नि ग्रन्थ न मि ताभिधः । बुद्धस्थाने तदादेशादेकपाधेन तु स्थितः ॥ १८२॥ ।
10
15६१०. अथो महेन्द्रनामाऽस्ति शिष्यस्तेषां प्रभावभूः । सिद्धप्राभृतनिष्णातस्तद्वृत्तं प्रस्तुवीमहि ॥ १८३ ॥
नगरी पाटलीपुत्रं वृत्रारिपुरसप्रभम् । दाहडो नाम राजाऽत्र मिथ्यादृष्टिर्निकृष्टधीः ॥ १८४ ॥ दर्शनव्यवहाराणां विलोपेन वहन्मुदम् । बौद्धानां नमतां शैवबजे निर्जटतां च सः॥ १८५ ॥ वैष्णवानां विष्णुपूजात्याजनं कौलदर्शने । धम्मिल्लं मस्तके नास्तिकानामास्तिकतां तथा ॥ १८६ ॥
ब्राह्मणेभ्यः प्रणामं च जैनर्षीणां स पापभूः। तेषां च मदिरापानमन्विच्छन् धर्मनिहवी ।। १८७॥ 20 आज्ञां ददौ च सर्वेषामाज्ञाभङ्गे स चादिशत् । तेषां प्राणहरं दण्डमत्र प्रतिविधिर्हि कः ॥ १८८ ॥
नगरस्थितसंघाय समादिष्टं च भूभुजा । प्रणम्या ब्राह्मणाः पुण्या भवद्भिर्वोऽन्यथा वधः ॥ १८९ ॥ धन-प्राणादिलोभेन मेने तद्वचनं परैः । निष्किचनाः पुनर्जेनाः पर्यालोचं प्रपेदिरे ॥ १९०॥ देहत्यागान नो दुःखं शासनस्याप्रभावना । तत् पीडयति को मोहो देहे यायावरे पुनः ॥ १९१ ॥' विमृश्य गुरुभिः प्रोचे श्रीआर्यखपुटप्रभोः । शिष्याप्रणीमहेन्द्रोऽस्ति सिद्धप्राभृतसंभृतः ॥ १९२ ॥ भृगुक्षेत्रे ततः संघो गीतार्थ स्थविरद्वयम् । प्रहिणोतु स चामुष्मिन्नर्थे प्रतिविधास्यति ॥ १९३ ॥ तथाकृते" च संघेन तत्पूज्यैः प्रहितोऽथ सः। अभिमत्रितमानैषीत् करवीरलताद्वयम् ।। १९४ ॥ उवाच च नृपादेशः प्रमाणं गणकैः पुनः । वीक्षणीयो मुहूर्तोऽसौ य आयतिशुभावहः ॥ १९५॥ इति स ज्ञापयामास भूपालाय कृतीश्वरः । स चोत्सेकं दधौ शक्तिरपूर्वकरणे मम ॥ १९६ ॥
दैवज्ञैश्चर्चिते लग्ने स्वीयप्रज्ञानुमानतः । महेन्द्राधिष्ठिता जग्मुः सूरयस्तन्नरैः सदः ॥ १९७ ॥ 30 याज्ञिका दीक्षिता वेदोपाध्याया होमशालिनः । सायंप्रातव्रता आवसथीयाः स्मार्तऋत्विजः ॥ १९८ ।।
गाङ्गमञ्चन्दनालेपतिलकौघपवित्रिताः । काषायधौतपोताब्याः सोपवीतपवित्रिकाः ॥ १९९॥
* द्वितारकान्तर्गतः पाठो नोपलभ्यते A आदर्श । 10 य भवत्कपलि । 2 B वापि च प्रियः। 3 CN वेश्मनः । 4 BN शास्त्र।। 5A प्रस्फुटुः। 6 N चिद्देन तेन 17 N सुद्धोदनि। 8N राजास्ति । 9N प्रमाणं । 10 N °कृतेन ।