________________
५. पादलिप्तसूरिचरितम् ।
इति तच्छिक्षितः प्राज्ञो ययौ तत्र जगौ च सः। उत्तरस्या दिशो वृष्टिरमुतः पश्चमेऽहनि ॥ १३८ । संजज्ञे वर्षणं पूर्व दिशस्तत्र दिने स्फुटम् । दिग्विसंवादतो* राजा किंचिन्मन्दादरोऽभवत् ।। १३९ ॥ कर्मबन्धनिषेधाय तदुपेत्य कृतं च तैः । अभीक्ष्णं राजकार्याणां कथनं कल्मषावहम् ॥ १४०॥
मानखेटपुरं प्रापुस्तेऽथ कालेन केनचित् । निमित्तग्रन्थनिष्णाता राज्ञां ज्ञाताः' कलावशात् ॥ १४१ ॥ ६८. अथार्यखपुटाः सन्ति विद्याप्राभृतसंभृताः । तद्वृत्तमिह जैनेन्द्रमतोल्लासि प्रतन्यते ॥ १४२ ॥ 5
तद्यथाविन्ध्योदधिकृताघाट'लाटदेशललाटिका । पुरं श्रीभृगुकच्छाख्यमस्ति रेवापवित्रितम् ॥ १४३ ।। यानपात्रं भवाम्भोधौ यत्र श्रीमुनिसुव्रतः । पातकातङ्कतः पाति स्वर्भुवोभूर्भवं जनम् ॥ १४४ ॥ तत्रास्ति बलमित्राख्यो राजा बलभिदा समः। कालिकाचार्यजामेयः स्थेयः श्रेयधियां निधिः॥१४५॥ भवाध्वनीनभव्यानां सन्ति विश्रामभूमयः । तत्रार्यखपुटा नाम सूरयो विद्ययोदिताः ॥ १४६॥ 10 तेषां च भागिनेयोऽस्ति विनेयो 'भुवनाभिधः । कर्णश्रुत्याप्यसौ प्राज्ञो विद्या जग्राह सर्वतः ॥ १४७॥ बौद्धान् वादे पराजित्य यैस्तीर्थ संघसाक्षिकम् । तद्ग्रहध्वान्ततो भानुप्रतिरूपैरमोच्यत ॥ १४८॥ तदा च सौगताचार्य एको वडकराभिधः । गुडशस्त्रपुरात प्राप्तो जिगीषुर्जनशासनम् ॥ १४९॥ गुडपिण्डैः पुरा तत्र शत्रुसैन्यमभज्यत । गुड शस्त्र मिति ख्यातिरतोऽस्याजनि विश्रुता ।। १५०॥ सर्वानित्यप्रवादी स चतुरङ्गसभापुरः। जैनाचार्यस्य शिष्येण जितः स्याद्वादवादिना ॥ १५१ ॥ कांदिशीकस्ततो मन्युपूरपूरितमानसः । कोपादनशनं कृत्वा मृत्वा यक्षो बभूव सः॥ १५२॥ निजस्थानेऽवतीर्यासौ सकोपः श्वेत भिक्षुषु । अवजानाति तांस्तेषामुपसर्गान् दधाति च ॥ १५३ ॥ तत्पुरस्थेन सङ्घन तदार्यखपुट'प्रभुः । तत्र व्रतिद्वय प्रेष्य ज्ञापितस्तत्पराभवम् ॥ १५४ ॥
एषा कपलिका वत्स ! नोन्मोच्या कौतुकादपि । कदापि शिक्षयित्वेति जामेयमचलत् ततः ॥ १५५ ॥ - पुरे तत्र गतस्तस्य यक्षस्यायतनेऽवसत् । उपानहीं निधायास्य कर्णयोः शयनं व्यधात् ॥ १५६॥ 20 यक्षार्चकः समायातस्तं तथा वीक्ष्य भूपतेः । व्यजिज्ञपदयो तस्मै कुपितः 'कुपतिस्ततः ॥ १५७ ॥ समेत्य शयितं बाढं पटं प्रावृत्य सर्वतः । निजैरुत्थापयामास तेऽद्राक्षुः परितः पुतौ ॥ १५८ ॥ तैराख्याते पुनः क्रुद्धो नृपस्तं लेष्ट्रयष्टिभिः। अघातयत् स घातानां प्रवृत्तिमपि वेत्ति न ॥ १५९॥ क्षणेन तुमुलो जज्ञे पुरेऽप्यन्तःपुरेऽपि च । पूत्कुर्वन्तः समाजग्मुः सौविदा अवदंस्तथा ॥ १६० ॥ रक्ष रक्ष प्रभो! न्यक्षः शुद्धान्तो लेष्टयष्टिभिः । अष्टविहिवैः कैश्चित् प्रहार जेरीकृतः॥ १६१ ॥ तदाकर्ण्य नृपो ध्यौ विद्यासिद्धोऽसको ध्रुवम् । संचारयति शुद्धान्ते प्रहारान् खं तु रक्षति ॥ १६२॥ तदयं माननीयो मे ध्यात्वेति तमसान्त्वयत् । चटुभिः पटुभिर्भूपः साधिष्ठायकदेववत् ॥ १६३ ॥ अथार्यखपुटाचार्यः कृत्वा कपटनाटकम् । उत्थितः प्रणतो भूमिभुजा भून्यस्तमस्तकम् ।। १६४ ॥ यक्षं प्रोचे मया सार्द्ध चलेति स ततोऽचलत् । तमनुप्राचलन्" देवरूपकाण्यपराण्यपि ॥ १६५ ॥ चाल्यं नरसहस्रेण तत्र द्रोणीद्वयं तथा । चालितं कौतुकेनेत्थं तत्प्रवेशोत्सवोऽभवत् ॥ १६६ ॥ 30 तत्प्रभावाद्भुतं वीक्ष्य जनेशोऽपि जनोऽपि च । जिनशासनभक्तोऽभून्महिमानं च निर्ममे ॥ १६७ ॥
सूरिनूपेण विज्ञप्तो यक्षं स्थाने न्ययोजयत् । स शान्तो द्रोणियुगलं तत्रैव स्थापितं पुनः ॥ १६८ ॥ * 'दिसिनु वहिरु पडिउ' इति B टि.। 1 A B ज्ञाता। 2 BN 'घाटा। 3 A विश्वासभू। 4 B C विद्यतोद्यताः । 5 B भवना। 6 N बहुकरा; C वदुकरा; A वडकरा 17A°खपुटः + A B आदर्शद्वये नोपलभ्यते श्लोकोऽयम् । 8 A कुपितः कुपितः; N कुपतिः कुपितः। 9 BN सुतौं; A मुतौ। 10 C N नः। 11 B भारवाहकवद् ।