________________
प्रभावकचरिते
370
10
15
राजाऽवदञ्चतुर्थ्यां तत् पर्व पर्युषणं तवः । इत्थमस्तु गुरुः प्राह पूर्वैरप्यादृतं ह्यदः ॥ १२१ ॥ अर्वागपि यतः पर्युषणं कार्यमिति श्रुतिः। महीनाथस्ततः प्राह हर्षादेतत् प्रियं प्रियम् ॥१२२॥ यतः कुहू दिने पर्वोपवासे पौषधस्थिताः । 'अन्तःपुरपुरन्ध्यो मे पक्षादौ पारणाकृतः ॥ १२३ ।। तत्राष्टमं विधातणां निर्ग्रन्थानां महात्मनाम् । भवतु प्राशुकाहारैः श्रेष्ठमुत्तरपारणम् ॥ १२४ ॥ उवाच प्रभुरप्येतन्महादानानि पञ्च यत् । निस्तारयन्ति दत्तानि जीवं दुष्कर्मसागरात् ॥ १२५ ॥ पथश्रान्ते तथाग्लाने कृतलोचे बहुश्रुते । दानं महाफलं दत्तं तथा चोत्तरपारणे ॥ १२६ ॥ ततःप्रभृति पञ्चम्याश्चतुर्थ्यामागतं ह्यदः । कषायोपशमे हेतुः पर्व सांवत्सरं महत् ॥ १२७ ॥
श्रीमत्कालकसूरीणामेवं कत्यपि वासराः । जग्मुः परमया तुष्ट्या कुर्वतां शासनोन्नतिम् ॥ १२८ ॥ ६८. अन्येद्युः कर्मदोषेण सूरीणां तादृशामपि । आसन्न विनयाः शिष्या दुर्गतौ दोहदप्रदाः ॥ १२९ ॥
अथ शय्यातरं प्राहुः सूरयोऽवितथं वचः । कर्मबन्धनिषेधाय यास्यामो वयमन्यतः ॥ १३०॥ त्वया कथ्यममीषां च प्रियकर्कशवाग्भरैः । शिक्षयित्वा विशालायां प्रशिष्यान्ते ययौ गुरुः॥१३१॥ इत्युक्त्वाऽगात् प्रभुस्तत्र तद्विनेया: प्रगे ततः । अपश्यन्तो गुरूनूचुः परस्परमवाङ्मुखाः ॥ १३२ ॥ एष शय्यातरः पूज्यशुद्धिं जानाति निश्चितम् । एष दुर्विनयोऽस्माकं शाखाभिर्विस्तृतोऽधुना ॥ १३३ ॥ पृष्टस्तैः स यथोचित्यमुक्त्वोवाच प्रभुस्थितिम् । ततस्ते संचरन्ति स्मोजयिनीं प्रति वेगतः॥ १३४॥ गच्छन्तोऽध्वनि लोकैश्चानुयुक्ता अवदन् मृषा । पश्चादग्रस्थिता अग्रे पश्चात्स्थाः प्रभवो ननु ॥ १३५ ।। यान्तस्तन्नामशृङ्गारात् पथि लोकेन पूजिताः । नारी-सेवक-शिष्याणामवज्ञा स्वामिनं विना ॥ १३६ ।। इतः श्रीकालकः सूरिर्वत्रवेष्टितरत्रवत् । यत्याश्रये विशालायां प्राविशच्छन्नदीधितिः ॥ १३७ ॥ प्रशिष्यः' सागरः सूरिस्तत्र व्याख्याति चागमम् । तेन नो विनयः सूरेरभ्युत्थानादिको दधे ॥ १३८ ॥ तत ईयाँ प्रतिक्रम्य कोणे कुत्रापि निर्जने । परमेष्ठिपरावर्त कुर्वस्तस्थावसङ्गधीः ॥ १३९ ॥ देशनानन्तरं भ्राम्यंस्तत्रत्यः सूरिराह च । किंचित्तपोनिघे जीर्ण! पृच्छ सन्देहमादृतः ॥ १४० ॥ अकिंचिज्ज्ञो जरत्त्वेन नावगच्छामि से वचः। तथापि पृच्छ येनाहं संशयापगम'क्षमः ॥ १४१ ॥ अष्टपुष्पीमथो पृष्टो दुर्गमां सुगमामिव । गर्वाद् यात्कंचन व्याख्याद नादरपरायणः ॥ १४२॥ दिनैः कैश्चित्ततो गच्छ आगच्छत् तदुपाश्रयम् । सूरिणाऽभ्युत्थितोऽवादीद् गुरवोऽग्रे समाययुः ॥१४३॥ वास्तव्या अवदन् वृद्धं विनैकं कोऽपि नाययौ । तेष्वागच्छत्सु गच्छोऽभ्युदस्थात् सूरिश्च सत्रपः॥१४४॥. गुरूनक्षमयद् गच्छः पल्लमः सूरिरप्यमून् । तं च तं चानुशिष्यते सूरिमित्थमबोधयन् ॥ १४५॥ सिकतासंभृतः प्रस्थः स्थाने स्थाने विरेचित्ता । रिक्ते तत्रावदद् वत्स ! दृष्टान्तं विद्ध्यमूदृशम् ॥ १४६ ॥ श्रीसुधर्मा ततो जम्बूः श्रुतकेवलिनस्ततः । षट्स्थाने पतितास्ते च श्रुते" न्यूनत्वमाययुः ॥ १४७ ॥
न्यूनं न्यूनतरं श्रुतम् । अस्मद्गुरुषु यादृक्षं तादृग् न मयि निष्प्रभे ॥ १४८ ॥ यादृग्मे त्वद्गरोस्तन्न यादृक् तस्य न तेऽस्ति तत् । सर्वथा मा कथा वत्स! गर्व सर्वकषं ततः ॥ १४९ ।। अष्टपुष्पी च तत्पृष्टः प्रभुर्व्याख्यानयत् तदा । अहिंसासूनृतास्तेयब्रह्माकिंचनता तथा ॥ १५० ॥ रागद्वेषपरीहारो" धर्मध्यानं च सप्तमम् । शुक्लध्यान मष्टमं च पुष्पैरात्मार्चनाच्छिवम् ॥ १५१ ॥ एवं च शिक्षयित्वा तं मार्दवातिशये स्थितम् । आपृच्छय व्यचरत् सङ्गहीनोऽन्यत्र पवित्रधीः ॥ १५२ ॥
25
30
1 BN प्रियाम। 2 A पोषधः स्थितः। 7 BC संशयोपगम । 8 B व्याख्यादः। 12 N शुक्लज्ञान।
Bअन्तः पुरः। 4 A B अन्यदा। 5A प्रशिष्य। 6AN तत्रेत्य । 9NC प्यभू। 10 श्रुते!: N श्रुते हीनल। 11 N परित्यागो।