________________
४. कालकसूरिचरितम् ।
२५
९५. शकानां वंशमुच्छेद्य कालेन कियताऽपि हि । राजा श्रीविक्रमादित्यः सार्वभौमोपमोऽभवत् ।। ९० ।।
स चोन्नतमहासिद्धिः सौवर्णपुरुषोदयात् । मेदिनीमनृणां कृत्वाऽचीकरद् वत्सरं निजम् ॥ ९१ ॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः । तस्य राज्ञोऽन्वयं हत्वा वत्सरः स्थापितः शकैः ॥ ९२ ॥ इति प्रसङ्गतोऽजल्पि; प्रस्तुतं प्रोच्यते ह्यदः । श्रीकालक' प्रभुर्देशे विजहे राजपूजितः ॥ ९३ ॥ ६६. इतश्चास्ति पुरं लाटललाटतिलकप्रभम् । भृगुकच्छं नृपस्तत्र बलमित्रोऽभिधानतः ॥ ९४ ॥ भानुमित्राजन्मासीत् स्वस्रीयः कालकप्रभोः ।
15
स्वसा तयोश्च भानुश्रीः, बलभानुश्च तत्सुतः ।। ९५ ।। – युग्मम् । अन्यदा कालकाचार्यवृत्तं तैर्लोकतः श्रुतम् । तोषादाहूतये मत्री तैर्निजः प्रैष्यत प्रभोः ॥ ९६ ॥ विहरन्तस्ततस्ते चाप्रतिबद्धं विबुद्धये । आययुर्नगरे तत्र वहिच समवासरन् ॥ ९७ ॥ राजा श्रीबलमित्रोऽपि ज्ञात्वाभिमुखमभ्यगात् । उत्सवातिशयात् सूरि प्रवेशं विदधे मुदा ।। ९८ ।। उपदेशामृतैस्तत्र सिचन् भव्यानसौ प्रभुः । पुष्करावर्तवत्तेषां विश्वं तापमनीनशत् ॥ ९९ ॥ . श्रीमच्छकुनिकातीर्थस्थितं श्रीमुनिसुव्रतम् । प्रणम्य तचरित्राख्यादिभिर्नृपमबोधयत् ।। १०० ॥ अन्येद्युस्तत्पुरोधाच मिथ्यात्वग्रहसग्रहः । कुविकल्पवितण्डाभिर्वदन् वादे जितः स तैः ॥ १०१ ॥ ततोऽनुकूलवृत्त्याथ' तं सूरिमुपसर्गयन्' । उवाच दम्भभक्त्या स राजानमृजुचेतसम् ।। १०२ ।। नाथामी गुरवो देवा इव पूज्या जगत्यपि । एतेषां पादुका' पुण्या' जनैर्धार्या स्वमूर्धनि ॥ १०३ ॥ किञ्चिद् विज्ञप्यते लोकभूपालानां हितं मया । अवधारय तश्चित्ते' भक्तिश्चेत्" मातुले" गुरौ ॥ १०४ ॥ विशतां नगरान्तर्यच्चरणा बिम्बिताः पथि । उल्लङ्घयन्ते जनैरन्यैः सामान्यैस्तदघं बहु ॥ १०५ ॥ धर्मार्जनं *तनीयोऽत्रापरं" कुरु महामते ! । प्रतीत आर्जवाद राजा प्राहास्ते संकटं महत् ॥ १०६ ॥ विद्वांसो मातुलास्तीर्थरूपाः सर्वार्चिता इमे । तथा वर्षा अवस्थाप्य पार्यन्ते प्रेषितुं किमु ॥ १०७ ॥ द्विजः प्राह महीनाथ ! मन्त्रये ते हितं सुखम् । तब धर्मों यशस्ते च प्रयास्यन्ति स्वयं सुखात् ॥ १०८ ॥ 20 नगरे डिण्डिमो वाद्यः सर्वत्र स्वामिपूजिताः । प्रतिलाभ्या बराहारैर्गुरवो राजशासनात् ॥ १०९ ॥ आहारमाधाकर्मादि दृष्ट्वानेषणयान्वितम् । स्वयं ते निर्गमिष्यन्ति काव्यश्लाघा न ते पुनः ॥ ११० ॥ अस्त्वेवमिति राज्ञोक्ते स तथेति व्यधात् पुरे । अनेषणां च ते दृष्ट्वा यतयो गुरुमभ्यधुः ॥ १११ ॥ प्रभो !" सर्वत्र मिष्टान्नाहारः संप्राप्यतेतराम् । गुरुराहोपसर्गोऽयं प्रत्यनीकादुपस्थितः ॥ ११२ ॥
369
गन्तव्यं तत् प्रतिष्ठानपुरे संयमयात्रया । श्रीसातवाहनो राजा तत्र जैनो दृढव्रतः ॥ ११३ ॥ ९७. ततो यतिद्वयं तत्र प्रैषि सङ्घाय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्वपर्युषणं ध्रुवम् ॥ ११४ ॥
तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः । तत्राकथयतां मेने तेनैतत् परया मुदा ।। ११५ ॥ श्रीकालकप्रभुः " प्राप शनैस्तन्नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ११६ ॥ उपपर्युषणं तत्र राजा "व्यज्ञपयद् गुरुम् । अत्र देशे प्रभो ! भावी शक्रध्वजमहोत्सवः ॥ ११७ ॥ नभस्यशुक्लपञ्चम्यां ततः षष्ठ्यां विधीयताम् । स्वं पर्व नैकचित्तत्त्वं धर्मे नो लोकपर्वणि ॥ ११८ ॥ प्रभुराह प्रजापाल ! पुरार्हद्रणभृद्गणः । पञ्चमीं नात्यगादेतत् पर्वास्मगुरुगीरिति ॥ ११९ ॥ कम्पते मेरुचूलापि रविर्वा पश्चिमोदयः । नातिक्रमति पर्वेदं पञ्चमीरजनीं ध्रुवम् ॥ १२० ॥
1
5
10
25
30
1 A कियतामपि । 2 N कालकः । 3 A सूरिः । 4 A वृत्त्यर्थ° 5 BN ° मुपसर्पयन् । 6 A B जगत्पतिः । 7CN पादुकाः । 8 A पुण्याज° । 9 A चित्तेन; C चित्तैः | 10 A भक्तिस्ते । 11 N मानुजे । * 'स्वल्पं' इति B टिο12 N परं । 13 A B णयाश्रितं । 14 BN प्रभोः । 15 A ° कालकगुरुः । 16 B विज्ञप° ।
प्र० ४