________________
प्रभावकचरिते
368
10
15
निर्गमय्यासनादुनमुपसर्गमुपस्थितम् । प्रापुर्घनात्ययं *मित्रमिवाब्जास्यविकाशकम् ॥ ६॥ परिपक्रिमवाक्शालिः प्रसीदत्सर्वतोमुखः । अभूच्छरहतुस्तेषामानन्दाय सुधीरिव ।। ६१ ॥ सूरिणाथ सुहृद्राजा प्रयाणेऽजलप्यत स्फुटम् । स प्राह शंबलं नास्ति येन नो भावि शं बलम् ।। ६२ ।। श्रुत्वेति कुम्भकारस्य गृह एकत्र जग्मिवान् । वह्निना पच्यमानं चेष्टकापाकं ददर्श च ॥ ६३ ॥ कनिष्ठिकानखं पूर्ण चूर्णयोगस्य कस्यचित् । आक्षेपात् तत्र चिक्षेपाक्षेप्यशक्तिस्तदा गुरुः॥ ६४ ॥ विध्यातेऽत्र ययावने राज्ञः प्रोवाच वत्सखे।। विभज्य हेम गृहीत यात्रासंवाहहेतवे ॥६५॥ तथेत्यादेशमाधाय तेऽकुर्वन् पर्व सर्वतः । प्रास्थानिकं गजाश्वादिसैन्यपूजनपूर्वकम् ॥ ६६ ॥ पश्चाल-लाटराष्ट्रेश भूपान् जित्वाऽथ सर्वतः । शका मालवसन्धि ते प्रापुराकान्तविद्विषः ।। ६७ ॥ श्रुत्वाऽपि बलमागच्छद्' विद्यासामर्थ्यगर्वितः । गर्दभिल्लनरेन्द्रो न पुरीदुर्गमसज्जयत् ॥ ६८ ॥ अथाप' शाखिसैन्यं च विशालातलमेदिनीम् । पतङ्गसैन्यवत् सर्व प्राणिवर्गभयंकरम् ॥ ६९ ॥ मध्यस्थो भूपतिः सोऽथ गर्दमीविद्यया बले । नादर्युन्मादरीतिस्थः सैन्यं सज्जयति स्म न ॥ ७० ।। कपिशीर्षेषु नो ढिंबा कोट्टकोणेषु न ध्रसाः । विद्याधरीषु नो काण्डपूरणं चूरणं द्विषाम् ॥ ७१ ॥ न वा भटकपाटानि पू:प्रतोलीष्व सज्जयत् । इति चारैः परिज्ञाय सुहृद्भपं जगौ गुरुः॥ ७२ ॥ अनावृतं समीक्ष्येदं दुर्ग मा भूरमुखमः । यदष्टमी-चतुर्दश्योरर्चयत्येष गर्दभीम् ॥ ७३ ॥ अष्टोत्तरसहस्रं च जपत्येकाप्रमानसः । शब्दं करोति जापान्ते विद्या सा रासभीनिभम् ॥ ७४ ॥ तंबूत्कारस्वरं घोरं द्विपदो वा चतुष्पदः । यः शृणोति स वक्रेण फेनं मुश्चन् विपद्यते ॥ ७५ ॥ अर्द्धतृतीयगव्यूतमध्ये स्थेयं न केनचित् । आवासान् विरलान् दत्वा स्थातव्यं सबलेनृपैः ॥ ७६ ॥ इत्याकर्ण्य कृते तत्र देशे कालकसका। सुभटानां शतं साष्टं प्रार्थयच्छब्दवेधिनाम् ॥ ७७ ॥ स्थापिताः स्वसमीपे ते लब्धलक्षाः सुशिक्षिताः" । खरकाले मुखं तस्या बभ्रुर्बाणनिषङ्गवती ॥ ७८॥ सा मूर्ध्नि गई भिल्लस्य कृत्वा विण्मूत्रमीति॒या । हत्वा च पादघातेन रोषेणान्तर्दधे खरी ॥ ७९ ॥. अबलोऽयमिति ख्यापयित्वा तेषां पुरो गुरुः । समग्रसैन्यमानीय मानी तं दुर्गमाविशत् ।। ८० ॥ पातयित्वा धृतो बवा प्रपात्य च गुरोः पुरः । गर्दभिल्लो भटैर्मुक्तः प्राह तं कालकप्रभुः" ॥ ८१ ॥ साध्वी साध्वी त्वया पाप ! श्येनेन चटकेव" यत् । नीता गुरुविनीताऽपि तत्कर्मकुसुमं ह्यदः ॥ ८२ ॥ फलं तु नरकः प्रेत्य तद् विबुध्याधुनापि हि । उपशान्तः समादत्व प्रायश्चित्तं शुभावहम् ॥ ८३॥ आराधकः परं लोकं भविता रुचितं निजम् । विधेहीति श्रुतेर्दूनस्त्यक्तोऽरण्ये ततोऽभ्रमत् ।। ८४ ॥ व्याघेण भक्षितो भ्राम्यन् दुर्गतो दुर्गतिं गतः । तारक्साधुट्ठहामीहक गतिर"त्यल्पकं फलम् ॥ ८५ ॥ सूरेरादेशतो मित्रं भूपः स्वामी ततोऽभवत् । विभज्य देशमन्येऽपि तस्थुः शाखिनराधिपाः ।। ८६ ॥ आरोपिता व्रते साध्वी गुरुणाऽथ सरस्वती । आलोचितप्रतिक्रान्ता गुणश्रेणिमवाप च ॥ ८७ ॥ विद्यादेव्यो यतः" सर्वा अनिच्छुत्रीब्रतच्छिदः । कुप्यन्ति रावणोऽपीदृग् सीतायां न दधौ" हठम् ।।८८॥ एताहक शासनोन्नत्या जैनतीर्थ प्रभावयन् । बोधयन् शाखिराजांश्च कालकः सूरिराद बभौ ॥ ८९ ॥
25:
30
____* 'चंद्र' इति B टि। 1 B नखः1 2 N प्रस्थानकं C प्रस्थानिकं । 3 NC °देशेश° 1 4 BC गच्छन् । 5 B अवाप । 6 N सर्व 17 N बलैः। 8A रीतिस्था। 9A प्रतोलीच; B प्रतोलीषु। 10 B निभान B C निभात् । 11 N सुरक्षिताः । + 'भाथानी परि' इति B टि०। 12 C N कालको गुरुः । सींचाणा हाथि चटकीनी परिई' इति B टि। 13 C चटिकेव ।
'जे अन्याई धन मिलइ ते धन सुधिर न होइ । घोर पाप जेह कुलि हुइ तस कुलि उदय म जोह ॥ इति B टिप्पणी। 14 B आराधय । 15 गतिरित्य। 16 BCजितः। 17A ददौ।