SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ प्रभावकचरिते 362 10 तन्मत्पदेऽयमेवास्तु प्रतीष्टं तैर्गुरोर्वचः । ततो न्यवेशयन् तत्र परमाक्षरमाईतम् ॥ २६९ ।। ततो गुरुभिरादिष्टं दुर्बलस्य नवप्रभोः । मदीयमातुल-भ्रात्रोत्यं मद्वत् पितुश्च मे ॥ २७० ॥ यतयोऽन्येऽपि गच्छस्था गुरुभिः पितृसोदरौ । तावशिक्ष्यन्त साध्व्यश्च वचोभिर्मधुरैस्तदा ॥२७१ ।। यूयं मयीव वर्तध्वं मत्तोऽपि विनयाधिका: । अस्मिन् यतो व्रताचारे स्मृते वा विस्मृतेऽपि वा ॥ २७२ ॥ अकृते वा कृते वापि तत्सर्व ममृषे मया । पुनरेष' नवत्वेनाकृतेक्षणमवाप्स्यति ॥ २७३ ।।-युग्मम् । ततोऽस्यापतितं वाक्यं कार्यमेव सदोद्यतैः' । आमृत्यु पादमूलं च न मोक्तव्यममुष्य भो! ॥ २७४ ॥ एवं गच्छव्यवस्था तैरायरक्षितसूरिभिः। विहिता प्रान्तकाले त्वनशनं प्रत्यपादि च ।। २७५ ॥ निर्यामिताश्च गीतार्दैवीं भुवमुपाययुः । पृथक्करणतः सर्वानुयोगस्यानुवर्तकाः ॥ २७६ ॥-युग्मम् । १४. श्रीपुष्यमित्रसरिश्च गच्छं वर्तयते ततः । गरुतोऽभ्यधिकां चास्य समाधिमुदपादयत् ॥ २७७ ।। स गोष्ठामाहिलस्तत्र यथाविप्रतिपत्तिभूः । निहवः सप्तमो जज्ञे ज्ञेयं शास्त्रान्तराद्धि तत् ॥ २७८ ॥ इत्यार्यरक्षितविभोर्विशदं चरित्रं चित्रं जगत्रितयपावनगाङ्गवारि । विद्वज्जनश्रवणकुण्डलतां प्रयातमापुष्पदन्तरुचि नन्दतु वन्दनीयम् ॥ २७९ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसमभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ सोमर्षिसूनोः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो द्वितीयोऽगमत् ॥ २८० ॥ ॥ ग्रन्थानं० २८५, अक्षर ११ ॥ उभयं ४९२ अक्षर २२॥ छ । 1C पुनरेव । 2 A सदाहती। 3N भुपपादयन् ।
SR No.006031
Book TitlePrabhavak Charitra
Original Sutra AuthorN/A
AuthorPrabhachandrasuri, Jaydarshanvijay
PublisherJinagna Prakashan
Publication Year2008
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy