________________
२. आर्यरक्षितचरितम् ।
१७
यदा' स्वकगृहे प्रैषि पूज्यैर्गुणनवारणात् । तत्कृतात् स्खलितं किंचित् तदाऽधीतं पुरापि यत् ॥ २३८ ॥ यद्यतः परमेतस्य वाचनां दापयिष्यथ । ततो मे नवमं पूर्व विस्मरिष्यत्यसंशयम् ।। २३९ ।। श्रुत्वेत्यचिन्तयत् सूरिरीदृग् मेधानिधिर्यदि । विस्मरत्यागमं तर्हि कोऽन्यस्तं धारयिष्यति ।। २४० ।। ततश्चतुर्विधः कार्योऽनुयोगोऽतः परं मया । ततोऽङ्गोपाङ्गमूलाख्यग्रन्थच्छेदकृतागमः ॥ २४१ ॥ अयं चरणकरणानुयोगः परिकीर्तितः । उत्तराध्ययनाद्यस्तु सम्यग्धर्मकथापरः ॥ २४२ ॥ सूर्यप्रज्ञप्तिमुख्यस्तु गणितस्य निगद्यते ।
द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईदृशः ॥ २४३ ॥ - त्रिभिर्विशेषकम् । विन्ध्यार्थमिति सूत्रस्य व्यवस्था सूरिभिः कृता । पुरा चैकत्र सूत्रेऽभूदनुयोगचतुष्टयम् ॥ २४४ ॥ ६१२. अन्यदा मथुरापुर्यामार्यरक्षितसूरयः । तस्या भूमेरधिष्ठातुर्व्यन्तरस्याश्रयेऽवसन् ।। २४५ ।।
इतश्चास्ति विदेहेषु श्रीसीमंधरतीर्थकृत् । तदुपास्त्यै ययौ शक्रोऽश्रौषीद् व्याख्यां च तन्मनाः || २४६ ।। 10 `निगोदाख्यानमाख्याच्च केवली तस्य तत्त्वतः । इन्द्रः पप्रच्छ भरते कोऽन्यस्तेषां विचारकृत् ॥ २४७ ॥ अथान् प्राह मथुरानगर्यामार्यरक्षितः । निगोदान् मद्वदाचष्टे ततोऽसौ विस्मयं ययौ ।। २४८ ।। प्रतीतोऽपि च चित्रार्थं वृद्धब्राह्मणरूपभृत् । आययौ गुरुपार्श्वे स शीघ्रं हस्तौ च धूनयन् ॥ २४९ ॥ काशप्रसूनसंकाशकेशो यष्टिश्रिताङ्गकः । सश्वासप्रसरो विष्वग्गलच्चक्षुर्जलप्लवः ॥ २५० ॥ युग्मम् । एवंरूपः स पप्रच्छ निगोदानां विचारणाम् । यथावस्थं गुरुर्व्याख्यत् सोऽथ तेन चमत्कृतः ।। २५१ ।। 15 जिज्ञासुर्ज्ञानमाहात्म्यं पप्रच्छ निजजीवितम् । ततः श्रुतोपयोगेन व्यचिन्तयदिदं गुरुः ॥ २५२ ॥ तदायुर्दिवसैः पक्षैर्मासैः संवत्सरैरपि । तेषां शतैः सहस्रैश्चायुतैरपि न मीयते ॥ २५३ ॥
लक्षाभिः कोटिभिः पूर्वैः पत्यैः पल्यशतैरपि । तलक्ष कोटिभिर्नैव सागरेणापि नान्तभृत् ॥ २५४ ॥ - युग्मम् । सागरोपमयुग्मे च पूर्णे' ज्ञाते तदायुषि । भवान् सौधर्मसुत्रामा परीक्षां किं न ईक्षसे ॥ २५५ ॥ प्रकाश्याथ निजं रूपं मनुष्यप्रेक्षणक्षमम् । यथावृत्ते समाख्याते शक्रः स्थाने निजेऽचलत् ॥ २५६ ॥ प्रतीक्षणे ऽर्थिते किंचिद् यावद् यतिसमागमम् । रूपर्द्धिदर्शनैः साधुनिदानेन न्यषेधयत् ।। २५७ ।। तथापि किंचिदाघेहि चिह्नमित्यथ सोऽतनोत् । वेश्म तद्विपरीतद्वाः प्रययौ त्रिदिवं ततः ।। २५८ ।। आयाते मुनिभिर्द्वारेऽनाप्ते गुरुरुदैरयत् । विपरीतपथा याथा जग्मुस्ते चातिविस्मिताः ॥ २५९ ॥ संभ्रमात् किं किमित्यूचिवांसस्ते बोधितास्तदा । गुरुभिर्गोत्रभिद्वृत्तं* याथातथ्यान्निवेदितम् ॥ २६० ॥ देवेन्द्रादर्शनात् खिन्ना इव किंचित् तदाऽवदन् । मन्दभाग्यैः कथं नाम दृश्यन्ते वासवा नरैः ॥ २६१ ॥ १३ ६१३. अथो विजहुरन्यत्र प्रभवो मथुरां पुनः । आगतो नास्तिवादी च तं गोष्ठामाहिलोऽजयत् ॥ २६२ ॥ असौ तत्रैव संघेन 'चतुर्मासीं व्यधाप्यत । वादलब्धियुतस्तादृक् केनावस्थाप्यते नहि ॥ २६३ ॥ आर्यरक्षितसूरिश्च व्यमृशत् कः पदोचितः । दुर्बलः पुष्यमित्रोऽयं तद्विचारे समागमत् ॥ २६४ ॥ सूरीणां निजवर्गीया व्यमृशन् फल्गुरक्षितम् । गच्छाधिपत्ये तं गोष्ठामाहिलं चात्र मोहतः ॥ २६५ ॥ कुम्भत्रितयमानायि तत्राचार्यैः सुपूरितम् । निष्पावतैलसर्पिर्भिरथ तच विरेचितम् ॥ २६६ ॥ वल्लाः सर्वेऽपि निर्यातास्तैलमीपत् पुनः स्थितम् । घृतं च बहुसंलग्नं पश्यतेमामुदाहृतिम् ॥ २६७ ॥ दुर्बलेऽहं मुनौ जज्ञे शतशिम्बिककुम्भवत् । बन्धौ" तैलकुटौपम्यो मातुले घृतकुम्भवत् ॥ २६८ ॥
30
361
5
20
1 A यथा । 2 A 'रतिष्ठातु । 3 A तत्त्वदः । 4BCN विचारणम् । 5 A B ज्ञाते पूर्णे । 6 A B शक्रस्थाने । 7 B प्रतिक्षिणे । 8 N विस्मृताः । * 'इंद्रनं' इति B टि० । 9A चातु। 10 B दाहृतं । + 'वला इति B टि० । 11 B बन्ध्यो ।
प्र० ३