________________
5
10
15
20
25
30
प्रभावकचरिते
तत्राद्यपुष्यमित्रस्य लब्धिरासीच्चतुर्विधा । द्रव्यतः क्षेत्रतश्चापि कालतो भावतस्तथा ॥ २०९ ॥ द्रव्यतो घृतमेव स्यात् क्षेत्रतोऽवन्तिमण्डलम् । ज्येष्ठापाढे कालतस्तु भावतोऽथ निगद्यते ॥ २१० ॥ दुर्गता ब्राह्मणी षड्भिर्मासैः प्रसवधर्मिणी । तद्भर्तेति विमृश्याज्यं भिक्षित्वा' संचये दधौ ॥ २११ ॥ ततः सा प्रसवे चाद्यश्वीने क्षुद्वाधितं द्विजम् । तद् घृतं याचमानं तं रुणद्ध्यन्यनिराशया ॥ २१२ ॥ स मुनिवेदयेत दत्ते तदपि 'सा मुदा । यावद्गच्छोपयोग्यं स्यात् * तावदाप्नोति भावतः ।। २१३ ॥ वस्त्रादिपुष्यमित्रस्य प्रेक्ष्यते 'लक्षणं विदम् । द्रव्यतो लभते वस्त्रं क्षेत्रतो मथुरापुरि ॥ २१४ ॥ वर्षा - शिशिरमन्ते कालतो भावतस्त्विदम् । तस्य लब्धिविशेषोऽयं क्षयोपशमसंभवः ।। २१५ ॥ अनाथा महिला कापि 'कार्पासोच्चयमूल्यतः । तूलं संपिण्ड्य' कर्तित्वा वानकर्मकृतां गृहे ॥ २१६ ॥ कर्म कृत्वा वेतनेन पटं तेभ्यः प्रवाययेत् । शाटकं विपटा' तेनार्थिता तमपि यच्छति ।। २१७ ।। दुर्बलः पुष्यमित्रोऽपि यथालब्धं घृतं घनम् । भुनक्ति स्वेच्छयाऽभीक्ष्णं पाठाभ्यासात् तु दुर्बलः ॥२१८॥ स मनीषाविशेषेण गृहीतनवपूर्वकः । समभ्यस्य त्यहोरात्रं' मा विस्मार्षीन्मम श्रुतम् ॥ २१९ ॥ सनाभयो दशपुरे तस्य तिष्ठन्ति विश्रुताः । सौगतोपासकास्ते च सूरिपार्श्वे समाययुः ॥ २२० ॥ ऊचुर्योष्माकधर्मेऽस्मिन् ध्यानं नास्ति स चावदत् । ध्यानमस्माकमस्तीह यत् तत् तेषां न विद्यते ॥ २२२॥ भावत्कः पुष्यमित्रोऽयं ध्यानेनैवास्ति दुर्बलः । ते प्राहुर्मधुराहाराभावः कार्याय सव्रते ।। २२२ ॥ गुरुः प्रोवाच वृद्धानां प्रसादेन घृतप्लुतम् । भुंक्ते यथेच्छं सततं गुणनेन त्वयं कृशः ॥ २२३ ॥ कुतो वः स्नेहसंपत्तिरित्युक्ते गुरुरुत्तरम् । प्रादाद् घृतं पुष्यमित्रः समानयति तद् घनम् ॥ २२४ ॥ अथ न प्रत्ययो वस्तन्नयतामुं निजे गृहे । दिनानि कतिचिञ्चास्य स्निग्धाहारं प्रयच्छत ।। २२५ ॥ स्वयं ज्ञास्यथ सद्भावं दौर्बल्य हेतुमप्यथ । तैराहूतोऽप्यनुज्ञातो गुरुभिस्तगृहं ययौ ॥ २२६ ॥ पोष्यमाणो वराहारैरप्यसौ कृशतां भजेत् । अहर्निशमधीयानो रसास्वादं न बुध्यते ॥ २२७ ॥ स्वजना "व्यमृशन्नस्य भुक्तं भस्मनि होमवत् । ददुर्बहुतरं ते च ततोऽप्यस्य न किंचन ।। २२८ ॥ प्रेक्षिरे व्यतिरेकं ते प्रान्ताहारप्रदायिनः । न्यषेधयन्नध्ययने पुरावस्थाङ्गभागभूत् ॥ २२९ ॥ प्रतीतास्तेन संबोधिं" प्राप्यन्त स्वजना निजाः । पुनरागाद् गुरूपान्ते शान्ते चेतसि सुस्थितः ।। २३० ॥ ९११. तत्र गच्छे च चत्वारः प्राज्ञा मुनिमतल्लिकाः ।
I
दुर्बलः पुष्यमित्रोऽथ विन्ध्याख्यः" फल्गुरक्षितः ॥ २३१ ॥
१६
गोष्ठामा हिलनामा च जितौशनसचेतनः । तेषां विन्ध्योऽथ मेधावी गुरून् विज्ञपयत्यदः ॥ २३२ ॥ महत्यामनुयोगस्य मण्डल्यां|| पाठघोषतः ।
360
स्खलति श्रुतपाठो मे पृथग्मे कथ्यतां ततः ॥ २३३ ॥ - त्रिभिर्विशेषकम् । सूरिराह स्वयमहं व्याख्यामि भवतः पुरः । "व्याख्यानमण्डलीं तूल्लङ्घयामि महतीं कथम् ॥ २३४ ॥ तस्मात् ते वाचनाचार्यो दुर्बलः पुष्यमित्रकः । महामतिरुपाध्यायोऽधीष्व शीघ्रं तदग्रतः ॥ २३५ ॥ एवं कृते " दिनैः कैश्वित्स विन्ध्याध्यापको" गुरून् । कृतांजलि " रहोऽवादीत् प्रभो ! शृणुत मद्वचः ॥२३६॥ अहं वाचनया व्यग्रः स्वाधीतं विस्मरामि यत् । गुणने भङ्गपातेन तत् खिन्नः किं करोम्यहम् || २३७ ॥
1 N भक्षिला । 2 N समुदा; C सुमुदा । 3 A 'वत्सोपयोग्यं । * 'तृप्तपर्यंतै' इति B टि० । 4 C लवणं । 5 N पुरी । 6 B C कर्पासो | 7 A संपीड्य । 'मूल्य' इति B टि० । 'निष्पत्नं' इति B टि० । 8A विटपा । 9 B भ्यस्यत्यतो बाढं । C आदर्शे । 11 BN संबोधं । 12 B विन्ध्याक्षः । 15 B विन्ध्योऽध्यापको
९ 'विक्षात्' इति B टि० 10 B विमृशन' । एष उत्तरार्द्धः पतितः || 'भणवानी मांडलई' इति B टि० 13 A व्याख्यानं । 14 B दिने ।
16 C 'जलिखो ।