________________
359
२. आर्यरक्षितचरितम् । गुरुणाऽऽप्रच्छि कि नमस्तात' ! 'सोऽप्युत्तरं ददौ । उपसर्गः समुत्तस्थौ त्वद्वचो "अनृतं नहि ॥ १७९ ॥ स न्यषेधि मया दाादेवंवादिनि तत्र च । शाटकं पृथुलं दीर्घ गृहाणेत्यथ तेऽवदन् ॥ १८० ॥ तदाकर्ण्य पिता प्राह द्रष्टव्यं दृष्टमेव यत् । को नः परिग्रहस्तस्मान् नाम्यमेवास्त्वतः परम् ॥ १८१ ॥ एवं प्रायः प्रपश्चैश्वावलेपान् पर्यहापयन् । गुरवो न तु भैक्ष्येऽस्य मनः शक्ता नियोजितुम् ॥ १८२ ॥ एवं *त्ववकरं नायं त्यजति प्रभुणापि च । अनेकश उपायैस्तैः सुपरिच्छेदितोऽपि सन् ॥ १८३ ॥ 5 कदाचिदायुः क्षीयेतास्माकं तन्निस्तरिष्यति । कथं जरनसौ तस्माद् भिक्षां प्राह्यः कथंचन ॥ १८४॥ ध्यात्वेति शिक्षयन्ति स्म रहस्ते मुनिपुङ्गवान् । मण्डल्यां' नास्य दातव्य आहारो भोज्यमेककैः॥ १८५ ॥ अरुच्यमपि चित्तस्य तथा ते प्रतिपेदिरे । तेभ्यो गुरुवचःश्रद्धानिष्ठेभ्योऽस्तु नमो नमः ॥ १८६ ॥ विहारं चक्रुरन्यत्रान्यदा ते गुरवो बहिः । मण्डल्यां यतयो न न्यमत्रयन्त जरन्मुनिम् ॥ १८७ ॥ ब्यढे गुरव आजग्मुरायं च समभाषयन्" । ततः प्रमन्युराहासौ श्रूयतां सुत! मद्वचः ॥ १८८ ॥ 10 दिनानि चेद् बहूनि त्वमवास्थास्यो बहिर्भुवि । अकालेऽपि तदा प्राणान् पर्यत्याक्ष्यमहं ध्रुवम् ॥ १८९॥ मुनयोऽमी त्वदादिष्टा अपि वातां न मामकाम् । वहन्ति हेतो! वेद्मि तन्न कस्याप्यहं प्रभो"! ॥ १९०॥ ततस्ते कृतकक्रोधाद् विनेयानूचिरे चिरम् । तातः कथं भवद्भिर्न भोजनेन निमत्रितः ॥ १९१ ॥ ते प्राहुः पूज्यपादेभ्यो विना नः शून्यचेतसाम् । क्षणं पतितमेवैतत् क्षन्तव्यं बालचेष्टितम् ॥ १९२॥ श्रुत्वेति तद्वचः प्राहुः सूरयः श्रूयतां पितः! । न विधेया परस्याशा मूलहेतुः पराभवे ॥ १९३ ॥ 15 वयं त्वदुचिताहारान्वेषणाय स्वयं ननु । यास्यामः कीदृशोऽमीषां पाटो ब्रीडावहः स्फुटम् ॥ १९४॥ इत्युक्त्वा स्वयमुत्थायादाय चाथ खपात्रकम् । चेलुखावच्च वर्षीयानाह साहसवद् वचः ॥ १९५ ॥ अहमेव प्रयास्यामि भिक्षायै किं मयि स्थिते । वत्स"! गच्छपतिस्त्वं हि भिक्षुभिक्षां भ्रमिष्यसि ॥१९६॥ इत्युक्त्वा मंक्षु॥ सोत्साहः" प्रतिषिद्धोऽपि सूरिभिः । सपात्रः संचचालासौ प्राप्तश्चेभ्यस्य मन्दिरम्॥१९॥ अपद्वारा प्रविष्टोऽसौ भिक्षाशिक्षास्वनिष्ठितः । मूलद्वारा कथं नागा गृहिणेत्युदितस्ततः॥ १९८ ॥ 20 आयातीह" शुभा लक्ष्मीरपद्वाराऽपि धार्मिक" ! भुत्वेति स गृही. दुध्यो वृद्धस्तत्कालधीरयम् ॥ १९९ ॥ द्वात्रिंशन्मोदकांस्तेन तुष्टेन प्रतिलाभितः । आगत्योपाश्रये सूरेः पुरश्चालोचयत् ततः ॥२०॥ गुरुणा प्रथमे लाभे शकुनोऽत्र विचारितः । द्वात्रिंशत्संख्यया शिष्या भविष्यन्ति ममानुतः ॥ २०१॥ अपृच्छच्च पुनस्तात ! यदा राजकुलाद् धनम् । लब्धा ततो भुक्तशेषं दध्वं कस्य भावतः ॥ २०२॥ आर्योऽप्याह गुणोदयश्रोत्रियेभ्यः प्रदीयते । सत्पात्रेभ्यो यतो दत्ता लक्ष्मीः सुकृतभूर्भवेत् ॥ २०३॥ 25 प्रधानाः साधवोऽस्मञ्च वैयावृत्त्यादिसद्गुणैः । अमीषां देहि तत् तात ! जन्म खं सफलं कुरु ॥ २०४॥ बालग्लानादिसाधूनामानीतं चेन्मयाशनम् । उपकारि भवेदेषां किं न लब्धं मयात्र तत् ॥ २०५॥
एवं वदन्नसौ वृद्धो मिक्षायामादरं वहन् । परमाराध्यतां प्राप्तो गच्छे दानैकशुद्धधीः ॥ २०६॥ ६१०. तत्र गच्छे त्रयः" पुष्यमित्राः सुत्रामतेजसः । स्वप्रज्ञाज्ञातशास्त्रार्थाः सन्ति सन्तोषभूमयः॥२०७॥
घृतपूर्वस्तेषु पूर्वो वस्त्रपूर्वो द्वितीयकः । सुधीलिकापूर्व: पुष्यमित्रस्तृतीयकः ॥ २०८॥ 30
1 N तातः। 2 C यो। 3 C नानृतं क्वचित् ; A नानृतं महि । * 'उकर' इति B टि.। 4 B °करानायं । 5A परिछेदतो। 6 ACनः17 N मण्डल्या । 8 N ततो। 9 B राज्यं च । 10C भापयन् । 11 C प्रभोः। । 'वरांसु पडिउ' इति B टि.'लज्जाहीन' इति B टि.। 'वृद्ध बोलिउ' इति B टि.। 12 A वच्छ। T'शीघ्रं यास्यामि' इति Bटि। 18 A B सोत्साह; N सोत्साहं । 14 B आयांतीह। 15 B धामिका, Cधाम्मिकं । 16 C सूरिः। .. • || पाने त्यागी गुणे रागी भोगी परजनैः सह । शास्त्रे बोद्धा रणे योद्धा पुरुषः पंचलक्षणः ॥१॥ इति B टिप्पणी ।
17 A त्रयं । 8 'इंद्र सरीषा वेजिइ छ।' इति B टि। 18 A पूर्व ।