________________
5
10
15
20
25
30
१२
प्रभावकचरिते
प्रजिघाय ततः सापि द्वैतीयीकं' निजाङ्गजम् । वत्स ! गच्छ निजभ्रातुर्मम वाक्यं निवेदय ।। ८९ ॥ जनन्या बन्धुसंसर्ग मोहं च त्याजितो भवान् । परं वत्सलताबुद्धिर्जिनेन्द्रैरपि मानिता ॥ ९० ॥ स्वमातुर्गर्भवासेऽपि श्रीवीरो भक्तिभूर्यतः । शीघ्रतस्तत् समागच्छ निजमास्यं प्रदर्शय ॥ ९१ ॥ - युग्मम् । तथा ममाप्यसौ मार्गो भवता यः समाश्रितः । तदनु त्वत्पितुः पुत्र-पुत्रीवर्गेऽप्यसौ पुनः ॥ ९२ ॥ यदि न स्नेहबुद्धिः स्यात् ततोऽप्युपकृतौ मुदा । एककृत्वः समागच्छ कृतार्थत्वं प्रयच्छ मे ॥ ९३ ॥ युग्मम् । आख्यायास्त्वमिदं गच्छ पथि देहे च यत्नवान् । त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः ॥ ९४ ॥ इत्याकर्ण्य वचो मातुर्नम्राङ्गः फल्गुरक्षितः ।
गत्वोपबन्धु कथयांचकार जननीवचः ॥ ९५ ॥ - षङ्गिः कुलकम् । क ईदृशो' भवत्तुल्यः सोदराम्बासु वत्सलः । भवत्तातस्तु नहि मामाक्रोशेत् कुललज्जया ॥ ९६ ॥ "अतिस्वच्छं तदागच्छ वत्स ! स्वं दर्शयास्यकम् । त्वदर्शनामृतैस्तृप्ता वितृष्णा संभवामि यत् ।। ९७ ॥ रुद्रसोमाऽऽत्मनो माता संदिदेशेति मदिरा ।
356
तस्मात् प्रसादमासाद्य गम्यतां मातृवत्सल ! ॥ ९८ ॥ - त्रिभिर्विशेषकम् । बन्धोः श्रुत्वा वचः प्राह वैराग्यादार्यरक्षितः । फल्गुरक्षित ! को मोहः संसारे शाश्वतेतरे ।। ९९ ।। अस्तु वाध्ययनस्यान्तरायं कः कुरुते सुधीः । फल्गुना वल्गुना' कोऽपि परित्यक्तुं समीहते ॥ १०० ॥ भवांश्चेन्मयि सस्नेहस्तत्तिष्ठतु ममान्तिकम् । दीक्षां विना न च स्थातुं शक्यं तत् तां गृहाण भोः ! ॥ १०१ ॥ स तथेति वदंस्तेन तत्क्षणं समदीक्ष्यत । श्रेयः कार्येषु को नाम विलम्बायोपतिष्ठते ॥ १०२ ॥ ६६. जविकैघूर्णितो बाढं धीमानप्यार्यरक्षितः । श्रीमद्वज्रप्रभुं प्राह किमस्मादवशिष्यते ॥ १०३ ॥
अधीष्व पृच्छया किं ते इत्युक्तः पठति स्म सः । कियत्यपि गते काले पुनः पप्रच्छ तद्गुरुम् ॥ १०४ ॥ ततः श्रीवज्र आचख्यौ सर्षपः पठितस्त्वया । मेरुरत्रावतिष्ठेत तन्ममैकं वचः शृणु ॥ १०५ ॥ काञ्जिकेन कथं क्षीरं कर्पूरं लवणेन च । कुङ्कुमं च कुसुंभेन जातरूपं च गुञ्जया ॥ १०६ ॥ उखया' वज्रखानिं च चन्दनं कनकगुणा । पूर्वाध्ययनमल्पेन स्वमोहेन' यदुज्झसि ॥ १०७ ॥ ततः पठ श्रुताम्भोधेर्मध्यं प्राप्तफलं यथा । सज्ज्ञानशक्तिरत्नौघं लभसे लिप्सया विना ॥ १०८ ॥ इत्याकर्ण्य पठन्नुच्चैर्वासराणि कियन्त्यपि । अनुजेन पुनः प्रैरि स्वैरिण्याऽऽह्वानकृद्भिरा ॥ १०९ ॥ - आपप्रच्छे पुनः सूरिमायासितः पुनर्दृढम् । सम्बन्धिसंगमे स्वामिन् ! प्रहिणूत्कण्ठितं जनम् ॥ ११० ॥ पाठाय पुनरायास्ये शीघ्रं तैः सह संगतः । इति श्रुत्वा श्रुते प्रादादुपयोगं पुनः प्रभुः ॥ १११ ॥ अज्ञासीत् पुनरायातो मिलिष्यति न मे पुनः । मदायुषस्तनीयस्त्वादि* यत्येवास्य योग्यता ॥ ११२ ॥ तथा दशमपूर्वं च मय्येव स्थास्यति ध्रुवम् । तत् प्राह वत्स ! गच्छ त्वं मिध्यादुः कृतमस्तु ते ॥ ११३ ॥ यदामुष्यायणो मेधानिधिस्त्वं नेदृशोऽपरः । ततोऽभूदादरोऽस्माकमध्यापनविधौ तव ॥ ११४ ॥ प्राप्तिरीदृक् क ते सन्तु पन्थानः शिवतातयः ।
श्रुत्वेत्यंही प्रभोर्नत्वा चचालात्मभुवं प्रति ॥ ११५ ॥ - चतुर्भिः कुलकम् । अखण्डितप्रयाणैः स शुद्धसंयमयात्रया । सञ्चरन्नाययौ बन्धुसहितः पाटलीपुरम् ॥ ११६ ॥ श्रीमन्तोसलिपुत्राणां मिलितः परया मुदा । पूर्वाणां नवके सार्द्धे संगृहीती गुणोदधिः ॥ ११७ ॥ ९७. तं च सूरिपदे न्यस्य गुरवोऽगुः परं भवम् । अथार्यरक्षिताचार्यः प्रायाद् दशपुरं पुरम् ॥ ११८ ॥
1 B C द्वैतीयकं । 2 CN ईदृक्षो 3 B इति । 4BN बल्गुनो। 5N इत्युक्त्वा । 6 BN उषया । 7 B समोहेन । 8 A N प्राप्तः फलं । * 'खल्पायु छन्' इति B टि