________________
357
२. आर्यरक्षितचरितम् । अप्रेभूय निजावासमाययौ फल्गुरक्षितः । वर्द्धये वर्द्धये मातर् ! गुरुस्तत्सुत आगमत् ॥ ११९ ॥ आस्थाय 'न्युछनेऽगां ते वचनाय बलिः क्रिये । आर्यरक्षितनामा यः कुत्र कुत्र स पुत्रकः ॥ १२०॥ अस्मि' पुण्यवतीदृक्षा किं* यद् द्रक्ष्यामि तन्मुखम् । एवं वदन्त्या एवास्याः पुरोऽभूदार्यरक्षितः॥१२१॥ जैनलिङ्गधरं तं चाऽऽप्रेक्ष्यमाणमथादरात् । रोमाञ्चकञ्चकोद्रेदमेदुराभिगमाद्भुतम् ॥ १२२ ॥ श्रोत्रियः सोमदेवोऽपि तत्रागात् संगमोत्सुकः । *दृढमाश्लिषम च प्राह 'स्वात्मजनेहमोहितः ॥ १२३ ॥5 शीघ्रमागाः कथं वत्स ! त्वं प्रवेशोत्सवं विना । हुं ज्ञातं विरहातयाः स्वमातुर्मिलनोत्सुकः ॥ १२४ ॥ इदानीमपि गच्छ त्वं बाह्योद्याने यथा नृपम् । विज्ञप्य नगरोत्साहोत्सवपूर्व प्रवेशये ॥ १२५॥ ततः श्रमणवेषं च परित्यज्य पुनर्गृहे । द्वितीयाश्रममन्यमः' पालयस्ख 'कृतालयः ॥ १२६ ॥ यायजूककुलोत्पन्नाऽनुरागस्था कनी मया । रूपयौवनसंपमा चिन्तिताऽने तवोचिता ।। १२७ ॥ श्रौतेन विधिना तां त्वं विवहस्व महोत्सवैः । 'यथा त्वज्जननी कौतुकानां स्वादं लभेत च ॥ १२८ ॥ 10 द्रविणोपार्जने चिन्ता कापि कार्या त्वया "नहि । आसप्तमकुलापूर्ण नृपपूज्यस्य मे धनम् ।। १२९॥ अङ्गीकृते गृहोद्धारे भवता भवतानवम् ।
दृष्टवन्तो" वयं दध्मो वानप्रस्थाश्रमे मनः ॥ १३० ।-अष्टभिः कुलकम् । अथात्मभूर्मुनिः प्राह तात! त्वं मोहबातकी । वाहीक इव शाखाणां भारं वहसि दुर्धरम् ॥ १३१ ।। भवे भवे पिता माता भ्राता जामिः प्रिया सुता । तिरश्चामपि जायन्ते हर्षस्तद्धेतुरत्र कः ॥ १३२ ।। 15 "राजप्रसादतः को हि गर्यो भृत्यतयार्जितात् । द्रव्ये हि पुनरास्था का बहूपद्रवविद्रुते ॥ १३३ ॥ दुष्पापं मर्त्यजन्मेदं रत्नवद् गृहमोहतः । नश्वरावकरपायाद् हारयेत" हि कः सुधीः ।। १३४ ।। तत् परीक्ष्य तमुत्सृज्य प्रव्रज्याऽऽप्ताऽऽहती मया। मुक्तान् न पुनरादास्ये भोगान् भोगीशभोगवत् ॥ १३५॥ दृष्टिवादोऽपि नो पूर्णः पठितस्तत् कथं पितः ! । अवतिष्ठेऽभ्युपगमः "सत्यपुंसां हि दुस्त्यजः ॥ १३६ ॥ भवतां मयि चेन्मोहः सर्वाणि प्रव्रजन्तु तत् ।।
20 भ्रमेणापि सिता भुक्ता पित्तोपद्रबहारिणी ॥ १३७ ॥-सप्तभिः कुलकम् उवाच सोमदेवोऽपि सांप्रतं मम सांप्रतम् । स्वदीयं स्वकुलीनं "वाऽऽचरितुं दुश्चरं तपः ॥ १३८ ॥
त्वन्माता न" पुनः पुत्री-जामातृ-शिशुपालनैः । मोवीचिं भवाम्भोधिं कथं तरति मूढधीः ॥ १३९ ॥ ६८. अथार्यरक्षितो दध्यौ यदि मिथ्यात्वमन्दिरम् । तातः कथंचिद् बुध्येत शुद्ध्येत च तपोभरैः ॥ १४ ॥
तदम्बा दृढसम्यक्त्ववप्रवज्राकरावनिः । बुद्धव यत्मभावाम्मे मोक्षाध्वा प्रकटोऽभवत् ॥ १४१॥ 25 रुद्रसोमामथोवाच विचारय वचः पितुः । दुर्बोधा" मन्यते यस्त्वां "त्वं तु ज्ञानमहानिधिः ॥१४२॥ त्वदादेशाद् दृष्टिवादं पठतो मे भवोधेः । निस्तितीर्षा स्थिता" चित्ते श्रीवज्रःप्रापि च प्रभुः॥१४३॥ श्रीसनन्दा कलौ धन्या या वज्रं सुषुवे सुतम् । त्वां ततोऽप्यधिकां मन्ये मातर" ! गुणत एकतः॥१४४॥ ददे तयाऽऽर्जवात्" पूर्व पुत्रो" रोदनखिन्नया । पितुर्मुनेः पुनश्चक्रे विवादस्तन्निमित्तकः ॥ १४५ ॥ श्रीमत्तोसलिपुत्राणां पाठायापि त्वया "त्वहम् । उत्तितारयिषामन्तात्वा संसारनीरधेः ॥ १४६ ॥ 30
1N त्युछने। 2 A पुत्रक। CN अस्मिन् । 4 A किंचिद् । * C आदर्श पतित एष श्लोकार्द्धः। 5 B स्वात्मजः । 60 °मव्ययः। 7 Cक्षतालयः। 'भला कुलनी' इति B टि। A यया। 9 B वः। 10 N नहि बया। 11 AC इटवन्तो। 12 N मतम् । 18 B राजः। 14 N 'प्रायाद्वारयेन हि। 15 N सत्यं । 16 N चाचरितं । 17 N तु। 18 N दुर्बोच्यां। 19 B C N खं। 20 BC N निधि। 21 A स्थिते । 22 B मातुर् । 23 'मुग्धपणातु' इति B टि. । 24.N पुत्र। 25 A वयाप्यहं ।