________________
ઉપદેશરહસ્ય ગાથા–૧૦
આ ઉપદેશમાલાના આગમવાક્યને ધ્યાનમાં રાખીને તે સ્વચ્છેદ યતિઓના દેખાતાં થોડાં થોડાં જ્ઞાનની સંભાવનાથી મુંઝાઈ જવાની જરૂર નથી. કારણ કે જ્યાં સુધી માર્ગોનુસારિતા નથી ત્યાં સુધી દોષે ચાહે મન્દ, મધ્યમ કે ઉત્કટ હોય તે પણ માર્ગોનુસારિપણાનું જે ફળ વિશિષ્ટ નિર્જરા વગેરે મળવું જોઈએ તે તેને પ્રાપ્ત થતું નથીછેલ્લા
પ્રશ્ન :- અવક્રગામી કે હોય? પ્રશ્નનું તાત્પર્ય એ છે કે ઋજુચારીનાં લક્ષણે ક્યા ४॥ छ ? उत्तर :
* 'मग्गणुसारी 'सड्ढो पन्नवणिज्जो कियावरो चेव ।
'गुणरागी जी 'सक्कं आरभइ अवंकगामी सो ॥१०॥ પ્લેકાર્થ – જે માર્ગાનુસારી હેય, શ્રદ્ધાવાન હય, સુખબેધ્ય હેય, ક્રિયામાં તત્પર હોય, ગુણાનુરાગી હોય અને શક્યમાં ઉદ્યમવંત હોય તે અવક્રગમી છે. શાળા .
'मार्गानुसारी-निसर्गतस्तत्त्वानुकूलप्रवृत्तिरपायहेतुक्लिष्टकर्मविघ्नोपशमात्, एष चाभिलषितावाप्ति प्रत्यवन्ध्यकारणं कान्तारगतप्रतिनियतपुरप्राप्तियोग्यतायुक्तान्धस्येव, न चैव श्रुतातिशयानुपयोगप्रसङ्गः, विशिष्य तत्त्वप्रतिपत्तौ तदुपयोगात्, योग्यतामात्रस्य च तत्त्वविषयौघसंज्ञानमात्रहेतुत्वात्, दृश्यते हि नीलादिधीयोग्यतामात्रात्तदतिशयाच्च नीलादिविषयकसामान्यविशेषधी-विशेष इति ।
तथा श्राद्धः तत्त्वं प्रति श्रद्धावान् , स्वप्रत्यनीकक्लेशहासातिशयावाप्तव्यमहानिधानग्रहणविधानोपदेशश्रद्धालुनरवत् , विहितानुष्ठानरुचिर्वा । अत एव हेतुद्वयात् 'प्रज्ञापनीयः कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यत्वात्तथाविधकर्मक्षयोपशमादविद्यमानाऽसदभिनिवेशः प्राप्तव्यमहानिधिग्रहणान्यथाप्रवृत्तसुकरसम्बोधननरवत् तथाऽत एव हेतोः क्रियापरःचारित्रमोहनीयकर्मक्षयोपशमजनितमुक्तिसाधनानुष्ठानकरणपरायणः, तथाविधनिधानग्रहणव्याहतपुरुषवत् चः समुच्चये, एवोऽवधारणे ।
तथा गुणरागी-विशुद्धाध्यवसायतया स्वगतेषु परगतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ, मत्सरविरोधिपरिणामवानित्यर्थः । इदं हि गुणलाभानुबन्धेऽवन्ध्य बीजं, प्रतिबन्धकस्य मत्सरस्यापगमात="तथा यः शक्यं-स्वकृतिसाध्यं गुरुबालग्लानादिविषयवैयावृत्त्याद्यनुष्ठानमारभते न त्वशक्यं, अशक्यारम्भस्योत्तरकालमावश्यकपरिहाणिशरीरग्लान्यादिजनकत्वेनोत्तरोत्तरशुभानुबन्धानुवृत्त्यनुपपत्ते, 'आज्ञाशुद्ध प्रेक्षापूर्वकं स्वसाध्यानुष्ठानं हि सुवर्णघटसदृशम् , तद्विपरीतं च मृन्मयघटसदृशं निरनुबन्धत्वात्' इति हि समयविदः । शक्यमारभत इत्युक्तया नाशक्यमारभते न च शक्ये प्रमाद्यतीत्यपि लभ्यते । सोऽवक्रगामी नान्यः क्रियामात्रपर इति इत्थं च आज्ञापारतन्यं विना न शुद्धिरिति व्यवस्थितम् ॥ १०॥
* उपदेशपदे १९९ गाथाऽत्रानुस धेया ।