________________
ઉપદેશ ૧–જિનાજ્ઞા પરમ ધર્મ શ્લોકાથ:- આજ્ઞાબાહ્ય અહિંસા લોકોત્તર ન્યાયે અહિસા જ નથી. લેકોત્તર ન્યાયથી અહિંસા તેના હેતુઓ, સ્વરૂપ અને અનુબંધથી સૂત્ર દ્વારા જાણી શકાય છે. પાકા
भण्यतेऽत्रोत्तरं दीयते, आज्ञाबाह्या सूत्रविषयस्वतन्त्रविश्वासाऽप्रयोज्यप्रवृत्तिका, अहिंसैव तावल्लोकोत्तरनीतितो न भवति, प्रासुकपुष्पफलशैवला दिभोजिनां विजनारण्यवासिनां बालतपस्विनां स्वच्छन्दाऽगीतार्थानां लोकोत्तरयतीनां च गुरुकुलवासतद्विनयकरणशास्त्राभ्यासादिवर्जितायाः केवलायास्तस्याः लोकमूलत्वेन लौकिकत्वानपायात् । तदाह भगवान् हरिभद्रसरिः
'धम्मठ्ठाणमहिंसा सारो एसोत्ति उज्जमइ एत्तो।
सव्वपरिच्चाएणं एगो इह लोगनीईएत्ति ॥ [उपदेशपदे-१८३] न चेयं संसारसागरनिस्तारतरी, लौकिकानुष्ठानस्य संसाराऽविनाभावित्वात् । कथं तर्हि शुद्धाऽहिंसा ज्ञायते इत्यत्राह-सा शुद्धाऽहिंसा हेतुस्वरूपानुबन्धैः सूत्रात् सर्वज्ञवचनात् ज्ञायते, तथाहि-- हेतुतस्तावदयतनाऽपरपर्यायात्प्रमादात् , स्वरूपतश्च प्राणव्यपरोपणतः, अनुबन्धतश्च पापकर्मबन्धार्जितदुखलक्षणात्, इह हिंसा प्रतीयते। तथा च सूत्रम्- [दशवैकालिके]
२अजयं चरमाणो अ पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुरं फलं ॥४-२॥ इति ।
एतद्वैलक्षण्यं चाहिंसायां योजनीय, यतनाया हेतुत्वात्परप्राणाव्यपरोपणस्य स्वरूपत्वादात्यन्तिकसुखलाभस्य चानुबन्धत्वात् । तथा च 'शुद्धाहिंसाप्रतीतिविश्वासो वचनविश्वासात्तद्विश्वासश्चाहिंसाधीविश्वासादित्यन्योन्याश्रयान्नाहिंसादेशकत्वं वचनविश्वासे बीजभिति स्वातन्त्र्येणेवागमस्य परलोकविधौ प्रवर्तकत्वाद्बलवत्त्वमव्याहतमिति फलितम् । यथोक्तम् — [योगबिन्दौ]
परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥ २२१ ॥ पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥ २२२ ॥
विश्वासबीजं चात्राऽऽप्तोक्तत्वमेव, रागद्वेषमोहानामेवानृतवचनबीजत्वेन तत्क्षयवतो भगवतो वचनस्यानृतत्वशङ्कानुपपत्तेः ।
तदुवाच वाचकमुख्यःरागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।
यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ॥ [इति] १ धर्मस्थानमहिंसा सार एष इति उद्यच्छति इतः । सर्व पारित्यागेन क इह लोकनीत्येति ॥१८३॥ २ अयत चांश्च प्राणभूनानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलमिति ॥४,२॥