________________
ઉપદેશ–ર૯ છતી સામગ્રીએ પાપ નહીં કરવાને પ્રશસ્ત નિયમ
अथायमकरणनियमः कुत्र भवति कुत्र चातिरिच्यत इत्याह
આ અકરણનિયમને આરંભ અને ઉત્કર્ષ ક્યા ગુણસ્થાનકે ? આ પ્રશ્નનો ઉત્તર પ્લેક ૧૧૩માં દર્શાવ્યા છે
देसविरइगुणठाणे पढमो एसो उ गठिमेअंमि । रोगिकिसत्तणतुल्लो सुसंजयाण विसिष्ठयरो ॥११३॥
કાઈ-ગ્રન્થિભેદ પછી દેશવિરતિ ગુણસ્થાનકે તેને આરભ રોગીની કૃશતાતુલ્ય હોય છે. સુસાધુઓને તે અધિક વિશિષ્ટ હોય છે. ૧૧૩
___ एषोऽकरणनियमः नियताऽब्रह्मसेवादिनिवृत्तिरूपः, प्रथम आदिमः ग्रन्थिभेदे मोहग्रन्थिविदारणे देशविरतिगुणस्थाने भवति, भिन्नग्रन्थिकेन पुनरपि व्यावर्तितपापाऽकरणात् , कीदृश इत्याह-रोगिकृशत्वतुल्यः । द्विविधं हि शरीरे कार्यमुत्पद्यते, एकं नीरोगस्यापि दुर्भिक्षादिपु तथाविधभोजनाभावात्, अपरं च पूर्यमाणभोजनसंभवेऽपि राजयक्ष्मरोगग्रासात् । तत्र प्रथमस्य समुचितभोजनलाभेऽविकलस्तदुपचयः स्यादेव, द्वितीयस्य तु तैस्तैरुपचयकारणैरुपचर्यमाणस्यापि प्रतिदिनं हानि:, एवं सामान्यक्षयोपशमप्रयोज्यं पापाऽकरणं सामग्रीलाभात् पुनरपि प्रतियोग्युन्मजनादपचययोग्यं एव, ग्रन्थिभेदकालीनविशिष्टक्षयोपशमप्रयोज्यस्तु पापाकरणनियमो द्वितीयकार्यवत्प्रतिसमयमुपचययोग्य एव, तदत्यन्तनिवृत्त्या यावत् सर्वक्लेशविकलो मुक्तिलाभ इति विभावनीयम् । तदिदमुक्तम्-उप० पद ६९५] 3०"पावे अकरणनियमो पायं परतन्निविक्तिकरणाओ। ओ अ गठिभेदे भुज्जो तयकरणरूवो उ॥"
नन्वेवं चतुर्थ गुणस्थान एवास्य प्राथम्यमुपपद्यते तवैव गुणश्रेणीप्रारंभेण प्राक्तनदशापेक्षया पुनः पापाऽकरणप्रारम्भात्, युक्त चैतत् 'सम्मद्दिट्ठी जीवो' इत्यादितन्त्रसिद्धत्वादिति चेत ? सत्यम् , तदा मिथ्यात्वाश्रवनिवृत्तावप्यब्रह्माद्याश्रवाऽनिवृत्त्या विरतिरूपस्य पापाऽकरणस्याऽयोगात्, अन्यथा चतुर्थपञ्चमगुणस्थानसांकर्यापातात् । न च विरत्यावरकानन्तानुबन्धिनिवृत्तौ तदा तदापत्तिः शङ्कनीया, वैयावृत्त्यादिरूपाल्पतभेदोपपत्तावपि पंचमादिगुणस्थानघटकतदनुपपत्तेरिति विभावनीयम् । सुसंयतानां शास्राभ्यासपरामर्शविशदीभूतहृदयानां भावसाधूनां यावज्जीवं समस्तपापोपरमात् विशिष्टतरो=देशविरतिगुणस्थानस्थलीयाऽकरणनियमापेक्षयाऽधिकतरोऽकरणनियमः, भावोत्कर्षेणैव तदुत्कर्षात् । तदिदमाह-उ० प०]
३० पापेऽकरणनियमः प्रायः परतन्निवृत्तिकरणात् । ज्ञेयश्च प्राथिभेदे भूयस्तदकरणरूपस्तु ॥