________________
ઉપદેશ ૧૧-મુનિઓએ વાણીમાં રાખવા યોગ્ય સંયમ यत एवं द्रव्यस्तवानुमोदनमेव साधोर्युक्तमत इयं व्यवस्थोपपद्यत इत्याहદ્રવ્યસ્તવનું માત્ર અનુમોદન જ સાધુઓને યુક્ત છે, તેથી જ શાસ્ત્રકારે એ કરેલી વ્યવસ્થા જે નીચે દર્શાવી છે તે સંગત થાય છે–
एत्तोच्चिय पण्णवणी तप्फलभासा ण चेव आणमणी ।
ण य पुट्ठस्स भगवओ भासा इच्छाणुलोमा य ॥३६॥ કલેકાર્થ:-“તેથી જ (દ્રવ્યસ્તવનું અનુદાન માત્ર સાધુને યુક્ત હોવાથી) તેનું ફળ દર્શાવનારી ભાષા પ્રજ્ઞાપની જ અનુમત છે પરંતુ આજ્ઞાપની નહિ. નાટક માટે પૂછવામાં આવતા ભગવાને ઇચ્છાનુલોમ ભાષાને પ્રયોગ કર્યો નહિ.' ૩૬
___इत एव-साधोव्यस्तवानुमोदनमात्रस्य युक्तत्वादेव, तत्फलभाषा=द्रव्यस्तवफलप्रतिपादिका गीः, प्रज्ञापनी श्रद्धातिशयजनकफलज्ञापनमात्रपरा, न चैवाज्ञापनी='त्वं प्रासादार्थ पृथिवीं खन, जलादिक वाऽऽनये' त्याद्यमिलापेन द्रव्यस्तवाङ्गकर्तव्यतादेशकतया साक्षात् प्रवर्तिका । अथ
यस्तृणमयीमपि कुटी कुर्याद्दद्यात्तथैकमपि पुष्पम् । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य । जिनभवनं जिनबिंबं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥
___ इत्यादिवाचकमुख्यवचनानां कारकत्वमेव प्रतिभाति न तु ज्ञापकत्वमिति चेत् ? न, फलज्ञापनमात्रतात्पर्यकेभ्य एतेभ्यः फलार्थिनां श्रोतृणां स्वत एव प्रवृत्तेः, 'श्रोतार इतो द्रव्यस्तवे प्रवर्तन्तामिति तात्पर्याभावेन फलतोऽपि साक्षादप्रवर्तकत्वात् । यदि पुनः साक्षात् परप्रवर्तनयाप्येतानि वचनान्यदुष्टानि स्युः तदा साक्षादेव तत्र तत्प्रवर्तनमपि विधेयं स्यात् , तथा च वज्रस्वामिचरितालंबनस्य पुष्टत्वमेव स्यात् , अपुष्टत्वं च तस्य श्रूयते वंदनकनियुक्ती, एतस्य भमशुभपरिणामालंबनतयोपदिष्टत्वात् , तथाहि-[ आव० नि० ११७९।११८०] ७७चेइअकुलगणसंघे अन्नं वा किं पि काउ निस्साणं । अहंवा वि अजवईरे तो सेवेती अकरणिज्ज । चेइअपूआ किं वइस्सामिणा मुणिअपुव्यसारेणं । न कया पूरिआइ तओ मोक्खंगं सा वि साहूणं ॥ इति । न च नैव पृष्टस्य नाटकादिकं प्रदर्शयामीत्यादिगिरा देवादिना पर्यनुयुक्तस्य भगवतः चारित्रग्रहणादिप्रश्नस्थल इवेच्छानुलोमा च भाषा 'यथासुखमि'त्याद्याकारा प्रवर्तते, तस्या निसर्गत आप्तेष्टसाधनताज्ञापकत्वेम “इष्टं वैद्योपदिष्टम्" इति न्यायात् साक्षात्प्रवृत्तिहेतुषायत्वात् ॥३६॥
તાત્પર્યાર્થ-જૈન સાધુઓને દ્રવ્યસ્તવની માત્ર અનુમોદના કરવાનો જ અધિકાર છે પરંતુ અન્ય વ્યક્તિને સાક્ષાત્ પ્રવર્તાવવાનો અધિકાર નથી. માટે જ ગૃહસ્થ શ્રોતાઓ ७७ चैत्यकुलगणसंवान् अन्यद्वा किमपि कृत्वा निश्राणम् । अथवाऽपि आर्यवत्रः तस्मात् सेवन्त्यकरणीयम् ।।
चत्यपूजा किं वज्रस्वामिना ज्ञातपूर्वसारेण । न कृता पूरिकायां ? ततो मोक्षाङ्ग सापि साधनाम् ॥