________________
५४८
हीरसौभाग्यम् [ सर्ग १४ श्लो० १७३ - १७४
नबोद्धतं दन इवाम्बुधेः सुधां मृदव हेमोपकृतिस्तनोरिव । श्रियस्तथा सारमिदं मुनीन्द्र यत्क्रियेत सा पात्रकराब्जसङ्गिनी ॥ १७३ ॥
हे मुनीन्द्र, तथा तेन प्रकारेण श्रियः लक्ष्म्या इदमेतत्सारं वर्तते । यत्सा श्रीः पा त्रस्य साधोः कराब्जस्य पाणिपद्मस्य सङ्गोऽस्ति अस्याः इति पात्रकराब्जसङ्गिनी क्रियेत विधीयेत । तथा कथम् । यथा दध्नः पयः सुतस्य सादरं नवोध्दतं नवनीतं प्रक्षणमास्ते। पुनर्यथा अम्बुधेः क्षीरसमुद्रस्य सारं सुधां पीयूषम् । नवीनसृष्टिनिर्माणमनुजाभ्यवहारेषु धान्येषु जुगुप्सां कुर्वाणैर्गीर्वाणैः स्वाशनार्थमभ्यर्थितो मधुमथनः प्रथमतः पीयूपार्थमेव पयोनिधिं मथितवानिति श्रुतिः । पुनर्यथा मृदो धातुमृत्तिकायाः सार ं हेम स्वर्णम् । पुनर्यथा तनोः शरीरस्य सारमुपकृतिरुपकारः । यदुक्तम्- 'दान वित्तात वाचः कीर्तिधर्मी तथायुषः । परोपकरणं कायांदसारात्सारमुद्धरेत् ॥' इत्युक्तेः ॥ इति गुरोर्दानाय पुनराग्रहः ॥
શ્લાકા
હે મુનીન્દ્ર, દહીનેા સાર માખણ, ક્ષીરસમુદ્રના સાર અમૃત, માટીના સાર સુવર્ણ અને શરીરના સાર જેમ પ૨ાપકાર છે, તેમ લક્ષ્મીને સાર સુપાત્રના કરકમલની સગિની કરવી તે જ છે. (કહ્યું છે કે : ધનથી દાન, વાણીથી આદર, જીવિતથી કીતિ અને ધમ તેમજ શરીરથી પરાપકાર કરવા. આ પ્રકારે અસારથી સાર વસ્તુને ગ્રહણ કરવી लेथे.) ॥ १७३ ॥
aat भाण प्रभुरब्धिनन्दना स्वतन्त्रचारा व्यभिचारिणीव या ।
श्रयेत तां गन्धकलीमलीव को वृणोमि किं चान्यदहं महीमणे || १७४ ॥
ततो नृपवाक्यानन्तरं प्रभुहरसूरिर्वभाण भाषते स्म । हे महीमणे रत्नगर्भारत्न, या अब्धिनन्दना क्षीरनीरनिधितनया श्रीर्व्यभिचारिणीवासतीष स्वतन्त्र स्वेच्छया चरति भ्राम्यतीत्येवंशीला स्वतन्त्र चारो विचरण भ्रमण यस्याः सा स्वतन्त्रचारा आस्ते । ततः कारणात् तां पांसुलामित्र श्रियं को महात्मा उत्तमः पुमान् श्रयेत भजेत । अपि तु न कोऽपि । कामिव । गन्धकलीमिव । यथा अली भृङ्गो भ्रमरः गन्दकलीं चम्पकलिकां नाश्रयेत् । 'न षट्पदो गन्धकलीमजिघ्रत' इति सूक्ते । किं च मत्कथितमधार्यताम् । एतेषु भवत्कथितपदार्थेषु मम प्रयोजनं नास्ति । अहं किंचिदन्यत् वृणोमि भवत्पार्श्वे याचे |
લેાકા
પૃથ્વી ઉપર રત્નસમાન હૈ રાજન્, લક્ષ્મી વ્યભિચારિણી સ્ત્રીની જેમ સ્વેચ્છાચારિણી છે, તે માટે જેમ ભ્રમર ચંપકકલિકાને ના ઇચ્છે તેમ કુલટા સ્ત્રી જેવી લક્ષ્મીના કાણુ