________________
सर्ग १४ श्लो० १७४-१७६ ] हीरसौभाग्यम्
ઉત્તમ પુરુષ આશ્રય કરે ? તેથી આપે કહેલા પદાર્થોમાંથી કોઈપણ પદાર્થીનું મારે પ્રયેાજન નથી, તે છતાં આપની પાસે ખીજી કેાઈ વસ્તુની યાચના કરું છું. ॥ ૧૭૪ ૫
५४९
निवेशिता ये नरकेषु नारका इवाङ्गिनो गुप्तिषु सन्ति ते विभो । विमुञ्च तानित्यमुदीर्य तस्थुषि व्रतीश्वरेऽभाषत भूवृषा पुनः ।। १७५ ।।
पुनः प्रभुयाच्ञोपरि भूवृषा भूमीन्द्रोऽभाषत । कस्मिन् सति । इत्थममुना प्रकारेण उदीर्य उक्त्वा याचनां कृत्वा व्रतीश्वरे सूरीन्द्रे तस्थुषि स्थिते सति मौनमवलम्बमाने सति । इत्थं कथम् । हे साहे, नरकेषु दुर्गतिषु नारका इव ते तव गुप्तिषु कारागारेषु ये अङ्गिनः प्राणिनो जना निवेशिताः क्षिप्ताः सन्ति तान् विमुञ्च स्वैरचारिणो मुत्कलान् कुरु ॥ इति गुरोर्बन्दिमोचनार्थ याचना ||
શ્લેાકા
હું ખાદશાહ, નરકેામાં જેમ નારકા રહેલા છે તેમ આપના કારાગારમાં જે બંદીજના રહેલા છે, તેમને મુક્ત કરા, આમ કહીને આચાર્ય દેવ મૌન રહ્યા ત્યારે અકખરબાદશાહ
माया ॥ १७५ ॥
पृवत्सपत्नैरिव वन्यजन्तवः शकुन्तपोता इव वा शशादनैः ।
fararasa देव धीवरैरमीभिरुद्वेगमवापिता जनाः ॥ १७६ ॥
हे देव भट्टारक, अमीभिः कारागारवासिभिः अन्यायाजन्यकारिभिः नृशंसैर्जनाः । प्रजा लोकाः उद्वेग संतापमकराकरदण्डादिकरणैर्महोपद्रवमवापिता लम्भिताः । कैरिव । पृषत्सपत्नैरिव ! यथा पृषतां मृगविशेषाणां सपत्नैः प्रत्यर्थिभिः केसरिभिः । 'पृषत्कि - शोरी कुरुतामसंगतम्' इति नैषधे । वन्या वने भवाः मृगशशशम्बरादयो जन्तवः प्राणिनः काननसत्त्वाः संताप्यन्ते । पुनः कैरिव । शशादनैरिव । यथा श्येनैः शकुन्तानां विहंगमानां पोता बालाः शकुन्ताः पोताश्च लघुवृद्धपक्षिण उद्विज्यन्ते । ' श्येनः पत्री शशादन:' इति हैम्याम् । तथा च - ' नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणामिह विहरणैः श्यैतां पातां रवेरथ धारयन् । शश विशशनत्रासादाशामयाच्चरमां शशी तदधिगमनात्तारापारापतैरुदडीयत ||' इति नैषधे । पुनः धीवरैरिव । यथा कैवर्तकै विसारवारा मत्स्यगणा उद्वेग प्राप्यन्ते । 'विसारः शकली शक्ली शम्बरोऽनिमिषस्तिमिः' इति हैम्यां मीननामानि ॥
શ્લાકા
હે દેવ, જેમ કેશરીસિંહૈાથી હરણુ આદિ વનચર જીવા સંતાપ પામે, સિ’ચાણાએ વડે પક્ષીઓના બચ્ચાઓને ઉપદ્રવ થાય તથા મચ્છીમારો વડે માછલાઓના સમૂહ