________________
सर्ग १४ श्लो० १७१-१७२ ] हीरसौभाग्यम्
५४७
शिखामणेस्तस्य निरीहताजुषां बलाहकस्येव निशम्य निःस्वनम् । मुदाविरासीदवनीशमानसे विदूरभूमाविव बालवायुजम् ॥ १७१ ॥ अवनीशस्य विश्वंभराभर्तुरकब्बरसाहेानसे हृदये मुत प्रमोद आविरासीत्प्रकटीभवति स्म । किमिव । बालवायुजमिव । यथा विदूरनाम्नो भूधरस्य भूमौ रत्नोत्पत्तिपृथिव्यां बालवायुजं वैदूर्यरत्नमाविर्भवति । किं कृत्वा । निरीहताजुषां निर्गता ईहा सर्वेष्वपि पुत्रकलनधनप्रमुखसांसारिकधनुषङ्गेषु स्पृहा वाञ्छा येषां ते निरीहास्तेषां भाव जुषन्ते सेवन्ते इति निरीहताजुषस्तेषां निःस्पृहत्वभाजां वशिनां शिखामणेः चूडामणे: शिरोरत्नस्य सरेनिःस्वन पूर्वोक्तवस्तूपादाननिषेधसूचकवाचं निशम्य श्रुत्वा । कस्येव । बलाहकस्येव । यथा मेघस्य नि:स्वनं बालवायुजं श्रृणोति । वर्षाकाले हि सजलजलदगजितमाकर्ण्य विदूरपर्वतक्षितौ वैदूर्यरत्नशलाकाः प्रादुर्भवन्तीति ख्यातिः। अघुनापि यथा अर्बुदाघचलवंशभूमीषु प्रथमवृष्टिजलक्लिन्नमेदिनीषु वंशाङ्कुरा भुवं निभिंद्य निर्गच्छन्तः श्रूयन्ते दृश्यन्ते च कैश्चित्तद्वदिति ॥ इति साहिदीयमानवस्त्वनुपादाने सरिप्रत्युत्तरवचः ॥
શ્લેકાર્થ વણકાળમાં મેઘની ગર્જના સાંભળીને વિરપર્વતની ભૂમિમાં વિર્ય રત્ન પ્રગટ થાય તેમ નિસ્પૃહ-શિરામણી આચાર્યદેવની વાણી સાંભળીને અકબરના હૃદયમાં અત્યંત આનંદ ઉત્પન્ન થયા. ૧૭૧ છે
शशय सरिं कमिता ततः क्षितेः किमप्युपादाय कृतार्थ्यतामहम् ।
न यत्करः पात्रकरोपरि स्म' भूत्स मोघजन्मा विपिनप्रसूनवत् ॥ १७२ ॥ ततो मुदाविर्भवनानन्तरं क्षितेः कमिता भूमीकामुको वसुधाधवोऽकब्बरः । 'इत्यमी घसुमतीकमितारः' इति नैषधे । सूर्ति प्रति शशंस शंसति स्म बभाषे । किमुवाच । हे प्रभो, किमपि किंचिदपि मदीय मामकीनं वस्तु पदार्थमुपादाय गृहीत्वा प्रभुणाह कृतः सिद्धोऽर्थः कार्य यस्य स कृतार्थः कृतकृत्यः कृतार्थ करोतीति कृतार्थयति ततः कसे कृतार्थ्यतां सफलः क्रियताम् । हि यस्मात्कारणात् यत्करो यस्य पाणि: पात्रस्य साघो. दर्शनार्हस्य दानावसरे करस्य हस्तस्योपरिष्टान्न स्म भूत् नाजनि न संजातः । स पुमान विपिनप्रसूनवत्कान्तारकुसुममिव मोघजन्मा निष्फलावतारो जातः ॥
શ્લેકાર્થ ત્યાર પછી અકબર સૂરિજીની પ્રશંસા કરતા બોલ્યા હે ભગવન, આપ મારી કઈ પણ વસ્તુ ગ્રહણ કરીને મને કૃતાર્થ કરે. કહ્યું છે કે જેને હાથે દાન કરવાના અવસરે સુપાત્ર ઉપર નથી તેને જન્મ વનના પુષ્પની જેમ નિષ્ફળ છે. ૧૭૨ છે • 'स्वभूत्' इति पाठः प्रतिभाति.