________________
५४६
हीरसौभाग्यम्
[सर्ग १४ श्लो. १६८-१७०
હાથીના કાનની જેમ તેમ પ્રાસાદના શિખર ઉપર રહેલી પવનવડે કંપાયમાન ધ્વજાની જેમ ચંચલ એવી લક્ષમીનું પણ મારે કંઈપણ કાર્ય નથી. ૧૬૮
इदं च राज्यं नरकप्रतिश्रुतेः सुभूमभूमर्तुरिवास्ति लग्नम् । परं पुनः कारणमस्ति संसृतेर्नभोम्बुदाम्भोऽङकुरसंततेरिव ॥ १६९ ॥
हे नृप, च पुनरिदं श्रीमदादिमहामण्डलीकैः सम्राङभि भुज्यमान राज्य समप्रदिगन्तभृमण्डलप्रभुता सुभूमनाम्नो भूभर्तुर्भूमीसार्वभौमस्य चक्रवर्तिन इव नरकस्य सप्तमटुर्गतेः प्रतिश्रुतेरङ्गीकारस्य लग्न प्रतिभूःसाक्षिकमिवास्ति । च पुनरिद राज्य राज्ञो भावो राज्य भूपतित्वं संसृतेः संसारस्य परं प्रकृष्ट कारण हेतुरस्ति । किमिव । नभोम्बुदाम्भ इव । यथा श्रवणवारि अङकुरसंततेर्धान्यतृणादिप्ररोहपरम्परायाः परमं कारणं विद्यते ॥
પ્લેકાર્થ હે રાજન, આ રાજ્ય સુભૂમચક્રવતની જેમ સાતમી નરકને આપવામાં સાક્ષીરૂપ છે! જેમ શ્રાવણમાસના મેઘનું જલ અંકુરની વૃદ્ધિના કારણરૂપ છે તેમ રાજ્ય સંસારની वृद्धिना ५२ ४२५३५ ७. ॥१९॥
भवन्ति योग्या विभवा भवादृशां न काबिलक्ष्माधव मादृशां पुनः । यदन्तरायं प्रणयन्ति मुक्तिपूःप्रयायिनां दुःशकुना इवाङ्गिनाम् ॥ १७० ॥
हे काबिलनानो मुद्गलमण्डलस्य श्रीमन्जन्मजनपदस्य माधव चक्रवर्तिन, अमी विभवा. विशिष्टराज्यादिलाभाकलिताः भवा उत्पत्तय इत्यर्थध्वनिरपि । विभवा विभूतयः धनधान्यद्विपदचतुष्पदसंपदः भवादृशां सांसारिकसुखाभिलाषिणां युष्मादृशामेव योग्या उचिताः । न पुनर्मादृशां विमुक्तसर्वसङ्गानां निवृत्तिनितम्बिनी विनिर्मिताविरलविलासास्वादरसिका. यितमनसां साधूनाम् । यत्कारणादमी विभवा विशिष्टा विरुद्धा वा भवाः जन्मपरम्परा अथ वा धनधान्याधुपरि अतिमूर्छावत्तया विशेषेण सूक्ष्मवादरादिभेदभिन्नपृथिव्यप्तेजोवा. युवनस्पतिनिगोदाधिक्येन भव: संसारो येभ्यस्ते विभवा मुक्तिपुरि सिद्धिनगर्या प्रयान्ति गच्छन्तीत्येवंशीलानामङ्गिनां भविकजनानां दुःशकुना इव प्रतिकूलविहगा इव विघ्नमन्तरायं कुर्वन्ति । यतः सग्रन्थाः मोक्षं गन्तुमशक्तास्ततो निर्ग्रन्थत्वमेव वरं शिवपदप्राप्तिसाधनम् ।।
શ્લેકાર્થ
હે રાજન, આ વૈભો આપ જેવાને માટે એગ્ય છે પરંતુ અમારા જેવા સર્વસંગના ત્યાગીઓ માટે ઉચિત નથી. મુક્તિરૂપી નગરી તરફ પ્રયાણ કરી રહેલા ભવ્યજીવોને અપશુકનની જેમ આ વૈભવ વિનરૂપ છે. ૧૭૦ મા