________________
५४४
हीरसौभाग्यम् [सर्ग १४ श्लो० १६६-१६७
निशम्य सूरिनपतेरिमां गिरं न किंचिदेभिर्मम कृत्यमित्यवक । मदोद्धता दुनृपवद्गजा अमी वशास्पृशः प्रौढकरप्रवृत्तयः ॥ १६६ ॥
बृपतेरकब्बरस्य इमां पूर्वोक्तां गिर वाणी निशम्याकर्ण्य सूरिर्मुनीन्द्र इत्यमुना प्र. कारेणावक् वदति स्म । इति किम् । हे साहे, एभिः श्रीमत्प्रदीयमानकरितुरगादिभिः मम किंचित्किमपि कृत्यं कार्य नास्ते । यत्कारणादमी गजा दन पवदृष्टभूपतय इव । मानदाहंकारेण क्षीबतया वा मदेन मद्यपानेन च राज्यमान्यताकृते हस्तिपालका मदिरापान कारयित्वोन्मदीकुर्वन्तीति स्थितिः । तत्त्वतस्तु मदेन दानप्रवाहेण उद्धता उत्कटाः सचिवादीनामप्यकथितकारिणो दुनराधिपाः । करिणस्तु महामात्राणामवशाः सर्वेऽपि कृत्याकृत्यविचारणान्धबधिराश्च । वशाः करिण्यः । 'इभः करेणुर्गजोऽस्य स्त्री धेनुका वशापि च' इति हैम्याम् । अथ च वशाः स्त्रियः अर्थात्परदारास्ताः स्पृशन्ति स्पर्शाख्यकामगुणैर्वशीकृताः सन्तः आश्लिष्यन्तीति वशास्पृशः । तथा प्रौढा अतिशायिन्न प्रबलाः करा राजदेयांशा शुण्डादण्डः । तथा प्रौढाः पर्वतप्रायाः अथ वा प्रौढोऽतिलम्बः करः शुण्डादण्डः । तथा प्रौढा अतिशायिनी प्रकर्षणोढा तादृशीप्रवृत्तिर्दानवारिधारा येषाम् । 'मदो दानं प्रवृत्तिश्च' इति हैम्याम् । कलियुगदुष्टनृपतुल्यत्वमर्थात् ।।
કાર્થ
રાજાની આવી વાણી સાંભળીને આચાર્યદેવે કહ્યું કે હે રાજન, મારે એ સર્વવરતુઓનું કંઈપણ પ્રોજન નથી. અભિમાની, પરારા લંપટ, પ્રજાને પીડાકારી અને કર પ્રવૃત્તિ કરનારા દુષ્ટરાજાની જેમ હસ્તિનીમાં આસક્ત, મોટા દેહવાળા, અતિ લાંબી સુંઢવાળા એવા મદોન્મત હાથીઓનું મારે કંઈપણ કાર્ય નથી. ૧૯દ છે
अतिप्रमाणा नृप जिह्मगामिनोऽप्यमर्षणाः सुप्तभृतश्च सप्तयः । रथाश्च खिङ्गा इव कामचारिणः स्ववाहिनिबन्धविधायिनः पुनः ॥ १६७ ॥ :
हे नृप, च पुनरमी सप्तयस्तुङ्गा अतिप्रमाणा अतिक्रान्तं भावप्रधान निर्देशात्प्रामाण्यमादेयता यैस्ते सर्वत्राप्यप्रमाणा न क्वचिदपि मान्या वर्तन्ते । तत्त्वतस्तु अतिक्रान्त प्रमाणं पुरुषमानं यैरत्युच्चत्वात् । यदुक्त नैषधे-'जवेऽपि मानेऽपि च पौरुषाधिकम्' इति । पुनः जिम वर्क गच्छन्तीति । यदुक्तम्-'कुटिलगतिः कुटिलात्मा कुटिलशीलसंपन्नः' इति मौलार्थे । कुटिल चङ्क्रमणा । यदुक्तम्-'जउकिम्मेकम्महवसइ खलसंपयपामेति । त चतुरंग तुरंगजिम वंकापायठवंति ॥' इति । जात्यश्वा हि सदश्ववारे समारूढे अतिचञ्चलकुटिलगामिना भवन्तीति ख्यातिः । पुनः किंभूताः । अमर्षणाः कोपनाः कस्यापि वचनमात्रमपि न सहन्ते । अमर्षभाजः परोपरीया॑जुषः । तत्त्वार्थे कोपकलिताः । यदु।