SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो १६४-१६५] हीरसौभाग्यम् ५४३ जनार्दनस्येव ममेयमिन्दिरा सुरेश्वरस्येव च राज्यमूर्जितम् । इदं तथान्यद्यदभीप्सितं हृदो मुनीन्द्र तन्मामनुगृह्य गृह्यताम् ॥ १६४ ॥ हे मुनीन्द्र, इयं मम गृहे इन्दिरा धनरत्नस्वर्णरूप्यादिलक्ष्मीर्वर्तते । कस्येव । जना. र्दनस्येव । यथा नारायणस्य मन्दिरे प्रत्यक्षा लक्ष्मीरस्ति । च पुनः ऊर्जित प्रबल राज्यं हस्त्यश्वरथराष्द्रदुर्गबलरूपं वर्तते । कस्येव । सुरेन्द्रस्येव । यथा पुरंदरस्य प्रबल राज्यं वर्तते । हे प्रभो, इदं यन्मया विज्ञप्तं गजाश्वादिक तथा अन्यत्परमपि यशुष्माक हृदो मनसोऽभीप्सितं वाञ्छितं भवेत् तद्वस्तु मामनुगृह्य ममोपरि अनुग्रहं कृत्वा गृह्यतां स्वीक्रियताम् ॥ શ્લેકાર્થ હે મુનીન્દ્ર, નારાયણના ઘરમાં પ્રત્યક્ષ લક્ષમી છે તેમ મારા ભુવનમાં સુવર્ણ, રૂપું, રત્ન, દ્રવ્ય આદિ અનેક પ્રકારની લમી છે. ઈન્દ્રના રસૈન્યની જેમ મારી પાસે ગજદળ, અશ્વદળ, રથદળ અને પાયદળ આદિ લાખોની સંખ્યામાં બળવાન સૈન્ય છે. તે હે પ્રભો, આ ચતુરંગી સેના અથવા બીજું કંઈપણ આપની ઈચ્છા હોય તે મારા પર અનુગ્રહ કરીને સ્વીકાર કરો. તે ૧૬૪ છે स्वचेतसो गोचरयन्नपि क्षमाक्षपापतिनिःस्पृहतां मुनीशितुः । इवान्यपुष्टः सहकारकोरकैः प्रवर्तितो भक्तिभरैरदोऽवदत् ॥ १६५ ॥ क्षमाक्षपापतिः अवनीरजनीनायकः अकब्बरसाहिर्मुनीशितुः सूरेनि:स्पृहतां निरीहभाव स्वचेतसो निजहृदयस्य गोचरयन् गोचरीकुर्वन् । मनसि जानन्नपीत्यर्थः । भक्तेर्भरैरतिशयः प्रवर्तितः प्रेरितः सन्नदो गजाश्वादि गृह्यतामिति अवदबभाषे । क इव । अन्यपुष्ट इव । यथा कोकिलः सहकारकोरकैः आम्रतरोः कलिकाभिः मजुमञ्जरीव्रजास्वादः प्रवर्तितः शब्दायते मधुरध्वनि विद्यत्ते । 'प्रेरण प्रवर्तन मिति आशीःप्रेरणयोः' इत्यर्थः सारस्वतव्याकरणे ॥ इति सूरीणां गजाश्वादिप्रदानं साहिविज्ञप्तिः ॥ શ્લેકાર્થ અકબર આચાર્યદેવની નિસ્પૃહતા હૃદયમાં બરાબર જાણતો હોવા છતાં પણ જેમ આમ્રવૃક્ષની મંજરીના સ્વાદ વડે કોકિલે મધુર ધ્વનિ કરે તેમ ભક્તિભાવથી પ્રેરાઈને આ પ્રમાણે છે. ૧૬૫
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy