________________
५३८
हीरसौभाग्यम्
[सर्ग १४ श्लो० १५३-१५५
___स विभुहीरसरिः स्वस्यात्मनो यशस्कर कीर्ति विधायक पुनरित्यध्याहार्यम् । उग्रसेन इति पदमाद्य प्रथमं यस्य तादृशात्पुरात् । आगरादित्यर्थः। फतेपुरं साहिनगरं व्यभूषयदलंकरोति स्म। श्रीकया जग्मिवानित्यर्थः। क इव । चित्रशिखण्डिनन्दन इव । यथा ब्रहस्पतिः स्वस्यात्मन उच्चतायाः उच्चत्वस्य पद स्थानं प्रददातीति प्रदम् अन्यराशेः पूर्व स्मान्मिथुनराशेः शशिनः शशाङ्कस्य सौधं गृहं कर्कराशिम् । 'प्रोक्तः कर्कस्य चन्द्रमाः' इति वचनात् । विभूषयति । कर्कराशिगतो गुरुरुच्चः प्रतिपाद्यते ॥ इति पुनः फतेपुरागमनम् ॥
શ્લેકાર્થ
હીરવિજ્યસૂરિજીએ આગ્રાનગરથી કીર્તિ કરવાવાળા ફતેપુરને અલંકૃત કર્યું. (અર્થાત્ ફતેપુરમાં પધાર્યા, જેમ બૃહસ્પતિ (ગુરુ) ઉચ્ચપદની પ્રાપ્તિ માટે મિથુન રાશિ માંથી ચન્દ્રના ઘરમાં (કર્ક રાશિમાં) જાય તેમ આચાર્યદેવ ફતેપુરમાં પધાર્યા. (કર્ક રાશિમાં રહેલે ગુરુ ઊંચને કહેવાય છે.) . ૧૫૩ છે
महीहिमज्योतिरियेष खञ्जनो घनात्ययस्येव तदास्य दर्शनम् ।
अमुं स गोष्ठीप्रविधित्सया पुननिकेतने शेखमणेरजूहवत् ॥ १५४ ॥ तदा तस्मिन् सरेः फतेपुरे समागमावसरे महीहिमज्योतिरकब्बरसाहिः अस्य हीर. सरेर्दर्शनमियेष अभिलषति स्म । क इव । खञ्जन इव । यथा स्वजरीटो घनात्ययस्य शरत्कालस्य दर्शनमिच्छति । पुनदर्शनेच्छानन्तर द्वितीयवारममुं सूरि शेखमणेरबलफैजनानो यवनगुरुरत्नस्य निकेतने भवने अजूहवत् आकारयामास । कया। गोष्ठीप्रवि. धित्सया धर्मवार्ता कर्तु काङक्षया ॥
કાર્ય
જેને ખંજરીટ' નામનું પક્ષી શરદઋતુનું દર્શન ઈચ્છે તેમ અકબર બાદશાહે ફરીથી શ્રીહીરવિજયસૂરિનાં દર્શનની ઈચ્છા કરી. તેથી ધર્મગોષ્ઠી કરવા માટે આચાર્યદેવને શેખ અબ્દુલફેજીના ઘેર લાવ્યા. ૧૫૪
क्रमेण वाचंयमयामिनीमणिविभूष्य शेखप्रमुखस्य मन्दिरम् । शिरोगृहं तस्य पुनः पवित्रयांचकार जम्भारिरिव त्रिविष्टपम् ॥ १५५ ॥
वाचंयमयामिनीमणिः श्रमणशर्वरीरत्न सूरी पुनहागमनादनु शेखगृहस्य शिरो. ग्रहं चन्द्रशालामुपरितनपिट्टनिकां पवित्रयांचकार पावनीकृतवान् । किं कृत्वा । क्रमेण आगमनाकबनराकारणपरिपाट्या तस्याबलफैजनाम्नः शेखप्रमुखस्य यवनगुरुमुख्यस्य