________________
सर्ग १४ श्लो० १४३-१४४ ] हीरसौभाग्यम्
तनुश्रिया येन निजौजसा पुनर्जितो हियानङ्ग इवाङ्गजोऽजनि । यदङ्गरुङ्गिर्जितनीलनीरजैर भाजि दुःखादिव पुष्करे तपः ॥ १४३ ॥
५३३
युनर्येन नेमिनाथेन तनुश्रिया शरीरशोभया पुनर्निजौजसा स्वबलेन आत्मीयप्रतापेन वा जितोऽभिभूतः अङ्गजः कंदर्पः । 'अङ्गजः पुत्रकामयोः' इत्यनेकार्थः । तथा 'कमनः कलाकेलिरनन्यजोऽङ्गजः' इति हैम्याम् । उत्प्रश्यते - हिया मन्दाक्षेणेव अनङ्गो मुक्तकाययष्टिरजनि संजात इव । पुनर्यस्य परमेष्ठिनः अङ्गरुचा शरीरस्य मरकतम - णिमसृणकान्त्या निर्जितैः परिभूतैः नीलनीरजेरिन्दीवरैः दुःखात्पुष्करे तीर्थविशेषजले च । 'पुष्करं तु जले व्योम्नि तीर्थे कुण्डे च' इत्यनेकार्थः । तपः अभाजि तपस्तप्यते इव । निर्जितो हि द्विधा तपस्यति पराभवदुःखोद्विग्नो वा तत्तुल्यताद्याप्तये वा ॥
શ્લાકા
તે નેમિનાથ ભગવાનના શરીરની શૈાભાથી અને પ્રતાપથી પરાભવ પામેલેા કામદેવ લજ્જા વર્ડ જાણે ત્યારથી જ અનંગ (શરીર વિનાના) બની ગયા ન હાય! જે પ્રભુના સંગની સુચારૂ શૈાભાથી પરાભવ પામેલા નીલકમલા દુ:ખથી જ જાણે પુષ્કર નામના તીથમાં તપ કરતા ન હાય! ।। ૧૪૩ ।।
रवेण वाह्याहितजित्वरं तरोऽप्यभिप्रपन्नः पुनरान्तरद्विषाम् । विघातशक्तिं ' स्पृहयन्त यत्पदं हरेस्त्रिरेखोऽङ्कमिषान्निषेवते ॥ १४४ ॥
हरेर्विष्णोत्रिरेखः पाञ्जजन्यनामा शङ्खः अङ्कमिषाल्लाञ्छनच्छलात् यस्पद' नेमिमाथचरण निषेवते ! उत्प्रेक्ष्यते - रवेण निजशब्देन वाह्या भूमिनभः संचारिणः प्रत्यक्षा ये अहिताः प्रतिपक्षास्तेषां जित्वरं जयनशीलं तरो बल' अभिप्रपन्नः संप्राप्तोऽपि । यदुतम् – 'अम्भोधेरेव जाता जगति कति न ते हन्त सन्तीह शङ्खा यान्बिभ्राणा भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय । एकः श्रीपाञ्चजन्यो हरिकरकमलकोडहंसायमानो यस्य ध्वानैरमानैरसुरसुरवधूवर्गगर्भा गलन्ति ॥' इति । पुनरान्तराणामन्तरङ्गा नामनन्तकालादात्मना प्रतिबद्धानां द्विषां कर्मशत्रूणां विधातशक्तेर्व्यापादनसामर्थ्यस्य स्पृहया वाञ्छयेव सेवते ॥
શ્લેાકા
વિષ્ણુના ‘પાંચજન્ય’ શંખ લાંછનના બ્હાને ભગવાન નેમિનાથના ચરણકમલની १. 'विघातशक्तेः स्पृहया वाञ्छमेव सेचते' इति टीकादशीनत् 'विधातशक्तः स्पृहयेष यत्पदम्' इति पाठो भवेत्.