________________
५३४
हीरसौभाग्यम्
[सर्ग १४ श्लो० १४४-१४७
સેવા કરતા હતા. પિતાના અવાજથી બાહ્યશત્રુઓને જય કરવા માટેનું સામર્થ્ય પ્રાપ્ત થવા છતાં પણ આત્માની સાથે અનંતકાળથી રહેલા કર્મોરૂપી અંતરંગશઓની વિઘાતક શક્તિને તેડવા માટે જ જાણે પ્રભુની સેવા કરતા ન હોય ! ૧૪૪ છે
अशीलि शीलेन जितेन येन किं हिया कुमारेण गिरेरधित्यका । प्रभुजिनं तं यदुवंशभास्करोदयोदयक्षोणिधरं दृशा पपौ ॥ १४५ ।।
येन भगवता शीलेन स्वब्रह्मचर्येण जितेन तिरस्कृतेन कुमारेण स्वामिकार्तिकेन । 'पाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः' इति हैम्याम् । उत्प्रेक्ष्यते-ह्यिा लज्जया गिरेगन्धमादनाभिधानभूधरस्याधित्यका ऊर्ध्वभूमिः शृङ्गमशीलि सेवितम् । तत्र गत्वा स्थित इत्यर्थः । 'सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि' इति चम्पूकथायाम्। तथा पित्रोरपेक्षया तु कैलासाचलचूलिकायां स्थानम् । तथा 'स्कन्दो मन्द मतिश्चकार न करस्पर्श श्रियाः शङ्कितः' इति खण्डप्रशस्तौ । प्रभुः सूरिस्तं पूर्वव्यावर्णितं जिनं नेमिनाथ दृशा नेत्रेण पपो सादरं पश्यति स्म । किंभूतः । यदूनां यादवानां वंशोऽन्ववायः स एव भास्करः सूयस्तस्योदयार्थमुद्गमनाय उदयक्षोणिधरः । पूर्वपर्वत इत्यर्थः ॥ चतुर्भिः कलापकम् । नेमिनाथवर्णनम् ॥
પ્લેકાર્થ
ભગવાન નેમિનાથના નૈષ્ઠિક બ્રહ્મચર્ય વડે પરાભવ પામેલા કાર્તિક સ્વામીએ લજજાથી જ જાણે “ગંધમાદન' નામના પર્વતનાં શિખરને આશ્રય ન કર્યો હોય! તેવા પ્રકારના યદુવંશરૂપી સૂર્યના ઉદ્ગમ સ્થાનરૂપ પૂર્વાચલ પર્વતસમાન ભગવાન શ્રી નેમિનાથના આચાર્ય મહારાજે દર્શન કર્યા છે ૧૪૫
जय त्रिलोकीजनकल्पपादप पुनर्भवश्रीपरिरम्भलोलुप । जय प्रमोदाङकुरकोटिवारिमुक् जय प्रभासितनीलरत्नरुक ॥ १४६ ॥
तरीव वाधौं तमसीव शारदारविन्दिनीशः सरसीव धन्वनि । दरिद्रतायामिव शेवधिर्मया कलौ जिनेन्दो त्वमलम्भि दुर्लभः ॥ १४७ ॥
हे त्रिलोक्या जयत्रयस्य जनानां सुरासुरनराणां कामितानां मनोभिलाषाणां पूरणे प्रदाने कल्पपादप सुरतरो । पुनहे पुनर्भवश्रिया मोक्षलक्ष्म्या सार्ध परिरम्भे गाढालिङ्गने लोलुप अतिशयेन लोल चञ्चल हे नेम, त्वजय सर्वोत्कर्षण वर्तस्व । पुनहे प्रभो.