________________
५३०
हीरसौभाग्यम्
[सर्ग १४ श्लो. १३७-१३८
पुनरुत्प्रेक्ष्यते-जलावगाहार्थ सूर्यातपातितप्तवपुस्तया वा सातेन वा तरुणकरिणीभिः समं सलिलकेलिकरणायागताभिः समेताभिर्दन्तिपङिक्तभिगजराजीभिः कृत्वा निलीना वज्रपाणिभयात्प्रणश्यात्यगाधपानीयप्रविष्टाः शैलाः पर्वता यत्र तादृशस्याब्धेः समुद्रस्य तुलायाः साम्यस्य वहां धारिणीमिव । पुनरुत्प्रेक्ष्यते-किं कुर्वतीम् । दधतीं बिभ्रतीम् । काम् । मृणालिकां पद्मनालिकाम् । कामिव । अम्भोजमुखीमिव । यथा पद्मवदना स्त्री कोमलां भुजां बाहुलतां धत्ते । च पुनः स्त्रीनाभिवत्तुन्दकुपिकामिव हिरण्यबाहुं शोणं हृदं दधतीम् । अथ चन्द्रमाः । अम्भोज कमलमेव मुख वदनं यस्याः ॥
શ્લોકાર્થ
જલક્રીડા કરવા માટે આવેલા હાથીઓની હારના ભયથી ત્રાસ પામીને પર્વતે જેના અગાધ જલમાં પ્રવેશી ગયા છે, તેવા સમુદ્રની જાણે યમુના તુલના કરતી ન હોય? અથવા યમુના, કમલની નાલરૂપી પવદના સ્ત્રીની ભુજા ધારણ કરતી ન હોય! અથવા હૃદયરૂપી નાભિને વહન કરતી ન હોય! ૧૩૭ છે
अमुं नमन्तीमिब वीचिसंचयैर्विभावयन्ती शफरीक्षणैरिव ।
अभिष्टुवन्तीमिव विष्किरक्वणैर्खलत्कजैनत्यमिव प्रकुर्वतीम् ॥ १३८ ॥ - पुनरुत्प्रेक्ष्यते-वीचिसंचयैः उन्नमन्नमद्भिः परिस्फुरत्तरङ्गगणैः कृत्वा अमुं सूरीन्द्र नमन्तीमिव कल्लोलमालानामुन्नम्य नम्रीभवनेन प्रणामं सृजन्तीमिव । पुनरुत्प्रेक्ष्यते- . शफर्यो मत्स्या एव ईक्षणानि । अथ वा 'मीनलोचनैः' इति पाठे मीना एव लोचनानि नयनानि तैविभावयन्तीमिव । सूरीन्द्र निनिमेषं निरीक्ष्यमाणामिव । तथा 'विस्फुरच्छफरीनेत्रा तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बुरियमेव सरस्वती ॥' इति पाण्डवचरित्रे । पुनरुत्प्रेक्ष्यते-विष्किराणां जलचारिणां हंससारसक्रौञ्चदीनां पानीयपानाग. तानामपरेषां वा पक्षिणां क्वणः शब्दैः कृत्वा मुनीन्द्रममुमभिष्टुवन्तीमिव सूरेः स्तुति विदधतीमिव । पुनरुत्प्रेक्ष्यते-लुलन्ति प्रचलत्कल्लोलैस्तरलीभवन्ति यानि कजानि कमलानि तैरस्य पुरो नृत्यं ताण्डवं कुर्वतीमिव ।।।
કાર્ય
યમુના પિતાના કુરાયસાન તરંગે વડે આચાર્ય દેવને જાણે નમસ્કાર કરતી ન હોય! તેમજ માછલીરૂપી નેત્ર વડે વારંવાર પ્રેમપૂર્વક આચાર્યશ્રીને જાણે નીરખતી ન હોય! અથવા જલચર જીના અવાજથી જાણે સ્તુતિ કરતી ન હોય! અથવા તરંગોથી કંપાયમાન બનેલાં કમલે વડે જાણે નૃત્ય કરતી ન હોય ! ! ૧૩૮ છે