________________
५२८
हीरसौभाग्यम्
[सर्ग १४ श्लो० १३३-१३५ .
શ્લેકાર્થ ચાતુર્માસ પૂર્ણ થયા બાદ, જેમ લઘુક્ષ્મ જીવ તપથી સંસારસમુદ્રને પાર કરે અથવા ભવ્યજીવ ભરત ચક્રવતીની જેમ શુભ અધ્યવસાય વડે સંસારસમુદ્રને પાર કરે તેમ આચાર્યદેવે વહાણ વડે યમુના નદી પાર કરીને, ભગવાન શ્રી નેમિનાથના જન્મથી પવિત્ર થયેલી શૌરીપુરી તરફ વિહાર કર્યો. ૧૩૩
यमीसमीपे रपडीपुरे क्रमात्स संघलोकेन समं समीयिवान् । मनोरथाकृष्टमिवागतं पुरो व्यलोकयच्छौर्यपुरं पुरस्ततः ॥ १३४ ॥
स सूरिः क्रमात्प्रयाणपरिपाटीतः यम्या यमुनानद्याः समीपे पार्श्ववर्तिनी रपडीनाग्नि पुरे समीयिवान समागतः । कथम् । समं सार्धम् । केन । संघलोकेन आगराप्रमुखनगरश्राद्ध. समुदायेन । श्राद्धानामनु श्राद्ध्योऽपि समेता एव । ततः रपडी आगमनानन्तरं पुरो शौर्यपुर नाम नगर 'सोरीपुर' इत्यधुना प्रसिद्धं व्यलोकयत्पश्यति स्म । उत्प्रेक्ष्यतेमनोरथेन सूरीशितुरभिलाषेणाकृष्टमाकृष्टयानीतमिव प्रभुपुरः प्रादुर्भूतम् ॥
શ્લોકાર્થ
ત્યાર પછી આચાર્યદેવ અનુક્રમે યમુનાનદીની સમીપમાં રહેલા “જ્ઞાડીપુર' નામના નગરમાં સંઘની સાથે પધાર્યા–ત્યાંથી આગળ શૌર્યપુર જોવામાં આવ્યું. તે જાણે આચાર્યદેવના મનેરથી આકર્ષાઈને સામે આવ્યું ન હોય ! ૧૩૪
प्रभुः प्रियस्येव स्वधर्मचारिणीमहर्निशं शौर्यपुराङ्कचारिणीम् । च्युतोत्तरीयां कबरीमिवार्णवाम्बरेन्दिराया नवभङ्गसङ्गिनीम् ॥ १३५ ॥
संबन्धस्त्वग्रे वक्ष्यते । केवलं कालिन्येव वर्ण्यते-यमुनां किंभूताम् शौर्यपुरः सो. रीपुरस्य अङके समीपे । 'अङ्क: स्थाने क्रोडेऽन्तिकागसोः' इत्याधनेकार्थः । चरति वहतीत्येवंशीलाम् । कथम् । अहर्निशं निरन्तरम । कामिव । सधर्मचारिणीमिव । यथा प्रियस्य स्ववल्लभस्य समानेन धर्मेण चरणशीला पतिव्रता पत्नी नक्तं दिनमते उत्सने क्रोडे वा समीपे वा चरति प्रवर्तते इत्येवंशीला स्यात्सति व्यतिकरे भर्तुरुत्सने उपविशति । यदुक्तं नेमिचरित्रे-'अनुज्ञाप्य स्वपितरो देवदन्तीमुपेयुषीम् । रथमारोपयामास नलोऽङके च न्य वीविशत् ॥ इत्युत्सङ्गारोपणम । तथा 'विना ममोरः कतरत्तवासनम्' इति नैषधे । इति क्रोडे । 'अथ समिणी । पत्नी सहचरी' इति हैम्याम् । सहचरत्वेन समीपचारिणी। उत्प्रेक्ष्यते-अर्णवाम्बरेन्दिरायाः समुद्रवसनालक्ष्म्याः क्षोणीश्रियः कबरी वेणीमिव ।