________________
सर्ग १४ श्लो १३१-१३३ ]
हीरसौभाग्यम्
५२७
(મેઘ તા સૂર્યના પ્રતાપના અપલાપ કરનારે અર્થાત્ આવૃત્ત કરનારા હોય છે ) આચાર્ય દેવ સ્થિરતાને કરનારા બન્યા. (મેઘ એકસ્થાને નહીં રહેનારા હૈાય છે.) આચાર્યાં દેવ અનિશ જિનેાપાસના કરનારા હતા (મેઘ તે વર્ષાઋતુમાં જ જિન-વિષ્ણુનાં ચરણું (આકાશ)ની ઉપાસના કરનારા હાય છે.) આ જ રીતે આચાય દેવ અપૂર્વ મેઘરૂપે
मन्या ॥ १३० ॥ १३१ ॥
क्रमाच्चतुर्मासकवासरान्पयोधरे दधाने बहलीभविष्णुताम् ।
निनाय तस्मिन्परिवर्ततां धुनी धवेऽब्धिशायीत्र गणेन्दिरावरः ॥ १३२ ॥
गणेन्दिरावरस्तपागच्छलक्ष्मीपतिः तस्मिन्नागरानगरे क्रमात्पर्युषणादिपरिपाट्या चतु ifecareer वर्षाशरदृतुदिनान् परिवर्ततां क्षयभाव निनाय अतिक्रामति स्म । 'कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च' इति हैम्याम् । संपूर्णतां प्रापयामास । कस्मिन्सति । पयोधरे जलवा हे घने बहलीभविष्णुतां दशभ्योऽपि दिग्भ्योऽभ्येत्य समुन्नम्य समुन्नभ्य अखण्डवारिधारावर्षणशीलतां दधाने सति । क इव । अब्धि शायीव । यथा समुद्रशयनशीलो विष्णुः वर्षासु नारायणः शेषशय्यायां समुद्रे शेते इति लोकरूढिः । यदुक्तं चम्पूकथायां वर्षावर्णने- 'क्षीरसमुद्रनिद्राणबाणबाहुच्छिदि' इति । वारिघौ वर्षा वासरान्परिवर्ततां लम्भयति ॥ इत्यागरानगरे चातुर्मासकरणम् ||
શ્લેાકાથ
જેમ વિષ્ણુ સમુદ્રમાં શયન કરે તેમ તપાગચ્છની લક્ષ્મીના સ્વામી હીરવિજયસૂરિના ચાતુર્માસિક દિવસે અનુક્રમે આગ્રા નગરમાં પસાર થયા. ।। ૧૩૨ ॥
ततोऽल्पकर्मा तपसेव संसृतिं प्रतीर्य पोतेन पतङ्गनन्दनाम् । अरिष्टनेमेर्जनुषा पवित्रितं प्रतिस्थवाच्छौर्यपुरं प्रति प्रभुः ।। १३३ ।।
ततश्चतुर्मास्या अनन्तरं प्रभुः सूरिः शौर्यपुरं प्रति प्रतस्थिवान् प्रचलितः । किंभूत शौर्यपुरम् | अरिष्टनेमेर्द्वाविंशतितीर्थ कृन्नेमिनाथस्य जनुषा जन्मना पवित्रित पावनीभूतम् । किं कृत्वा । पोतेन यानपात्रेण कृत्वा पतङ्गन्नदनां सूर्यपुत्रीं यमुनां प्रतीर्य ती समुल्लङ्घय । क इव । अल्पकर्मव । यथा लघुकर्मा आसन्न सिद्धिः बहुक्षीणकर्मप्रकृतिर्जन्तुस्तपसा संसृतिं संसारं प्रतरति । पाठान्तरे तर्या नावा कृत्वा अर्थम्णो भानोनन्दनां पुत्रीं नदीं यमुनां प्रतीर्य । क इव । भवीव । यथा भव्यजीवी भरतादिवद्भावनया शुभाध्यवसायेन संसृतिं प्रतरति ॥