________________
५२६
हीरसौभाग्यम्
सर्ग १४ श्लो० १३०-१३१
यदि घा नृपश्रेष्ठान प्रकर्षणातिशयेन वासयन् दयादिधर्मतत्त्वे स्थापयन् वास कारयन । अथ वा कृपाधर्मसुगन्धवस्तुसौरभेण न सुगन्धीकुर्वन्नपि वासयन्नेव । नकारः काक्वर्थवाची । मेघस्तु वर्षाकाले हंसाम्मानस प्रति प्रस्थापयति । यथा-'प्रोषितकलहसवयसि' इति चम्पूकथायाम् । 'प्रोषिता मानस प्रस्थापिता हंसपक्षिणो येन' इति तदवत्तिः । पुनः किंविशिष्टः विशिष्टः मनोवाकायसंबन्धी अथ वा यमाद्यङ्गयुक्तः प्रशस्तोऽन्यो वा योग २षामस्तीति । यदि वा सर्वसांसारिकसङ्गाद्वियोगो विरहः पृथग्भावो विद्यते येषां ते वियोगिनः संयमिनस्तेषां निवृत्तिं मोक्ष प्रणयन् कुर्वन् । विरहिणामपि प्राचीनाचीर्णकर्मपरिणतिप्रकटनपूर्व संसारानित्यतां प्रकटयन धर्मोपदेशप्रदानादिना सुखयन् । मेघस्तु वियोगिनो व्यथयति । पुनः किंभूतः । क्यापि कुत्रापि स्थाने दुर्दिनं दुष्ट दिवसं न सृजन् । अपि तु प्रतिबोधप्रदानेन धर्म माहात्म्यात्सुदिवसानेव कुर्वन् । मेघस्तु दुर्दिनं घनघटासंघट्टप्रकटीभवद्विकटान्धकारं करोति । च पुनस्तमसामज्ञानानां पाप्मनां वा द्विष भेदक ज्ञानिन साधु वा न द्विषन्न संतापयन् प्रत्युत प्रीणयन् । मेघस्तु तमो द्विष भास्कर चन्द्रं वा द्वेष्टि आवृणोति । पुनः किंभूतः । डल. योरैक्यात् भावप्रधान निर्देशाच्च जडत्वस्य जाडयेस्योदयमज्ञानप्रादुर्भाव निर्दलयन् व्यापादयन् । मेघस्तु जलोदय वर्धते | च पुनर्मनाभव काममभिभवन् पराजयमानः । मेघस्तु मदनं मदयति । पुनः किं कुर्वाणः । गुरोः स्वधर्माचार्यस्य विजयदानसूरेर्महः प्रतापं तेजो वा न निनुवानः प्रकटीकुर्वाणः । मेघस्तु बृहस्पतितारकतेजो निनुते विलुम्पति । पुनः किं कुर्वन् । स्थिरतां संयमधर्मादिषु साहसिक्यात्स्थैर्य वहन् । मेघस्तु चपलाशयत्वान्नैकत्र कुत्रचित्तिष्ठति । पुनः किंभूतः । दिवानिशं दिवसे निशायां च जिनानां तीथकृतां क्रमाणां पादारविन्दानामुपासना स्तुतिध्यानप्रणामादिभिः सेवां करोति । मेघस्तु जिनक्रमस्य विष्णुपदस्य सेवां वर्षास्वेव तत्रापि कदाचिन्न यावद्धर्मकालमत एष गुरोमेंघादसाधारणता ॥ युग्मम् ॥
કાથ
આચાર્યદેવ આગ્રા નગરમાં અપૂર્વ મધરૂપ બન્યા. શ્રેષ્ઠ રાજાઓને પીડા નહીં કરનાર પ્રત્યુત ધર્મમાં વાસ કરાવનારા બન્યા. (મેઘ તો રાજહંસાને પીડાકારક છે.) સંસારથી વિરકત સંયમીઓને મોક્ષમાર્ગ ઉપર પ્રયાણ કરાવનારા બન્યા (મેઘ તે વિયેગીઓને દુખ આપનાર છે.) આચાર્ય ક્યારે પણ દુદિનને નહીં કરનારા પરંતુ ધર્મદેશના દ્વારા હંમેશાં સુદિનને કરનારા બન્યા. (મેઘ તે દુર્દિનને કરનારે હોય છે.) આચાર્યદેવ અજ્ઞાનરૂપી અંધકારને દૂર કરી જ્ઞાની પુરુષને સંતાપ નહી કરનારા પ્રત્યુત ખુશ કરનારા બન્યા. (મેઘ તે સૂર્ય ચંદ્રને આવૃત્ત કરનારે સંતાપ કરનારે હોય છે.) આચાર્યદેવ જડતાને નાશ કરનારા બન્યા (મેઘ જલને આશ્રય કરનારે હોય છે.) આચાર્યદેવ કામદેવનો પરાભવ કરનાર બન્યા. (મેઘ કામનું ઉદ્દીપન કરનાર હોય છે.) આચાર્યદેવ પિતાના ગુરૂને અપલાપ નહીં કરનારા પરંતુ મહિમાને વધારનાર હતા.