________________
सर्ग १४ श्लो० १२९-१३१] हीरसौभाग्यम्
५२५
घटते कोश निर्माय स्वस्यात्मनः कोशस्य भाण्डागारस्य रक्षायामधिकृतस्याहतस्य सम्यग् नीतिमत्सत्यवाक् स्वामिभक्ततया अङ्गीकृतस्य भाण्डागारिणो वश विधत्ते ॥ इति पुस्तककोशः ॥
કાર્થ
જેમ રાજા સમસ્ત પૃથ્વી પર જય મેળવવા દ્વારા પ્રાપ્ત થયેલા ધનને અખૂટ ભંડાર બનાવીને કેશાધ્યક્ષ-ભંડારીને સુપ્રત કરે તેમ હીરવિજયસૂરિએ રાજાએ ભેટ આપેલે પુસ્તકભંડાર થાનસિંહને સ્વાધીન કર્યો. મેં ૧૨૮
क्रमान्महादेशमिवावनीशितुनिदेशमासाद्य पयोधरोदये । फतेपुरात्स प्रभुरागरापुरं पवित्रयामास पदाम्बुजन्मभिः ॥ १२९ ।।
स प्रभुः सूरिः पयोधरोदये वर्षाकालप्रारम्भे क्रमादनुक्रमतः फतेपुरात् श्रीकरीनगरात् उग्रसेनपुरापरपर्यायमागरा इति नाम पुर पदाम्बुजन्मभिः चरणकमलैः कृत्वा पवित्रयामास पावनीकरोति स्म । किं कृत्वा । क्रमात्कियदभिर्वासरैरवनीशितुरकब्बरसाहे. निवेशमाज्ञामासाद्य प्राप्य । कमिव । महादेशमिव । यथा कश्चिद्राजरञ्जकः राज्ञः सकाशान्महान्त जनपदमासादयति लभते ॥ इत्यागरानगरे गमनम् ।।
શ્લોકાથ
રાજાને પ્રીતિપાત્ર એ કઈ રાજપુરુષ રાજા પાસેથી જેમ મહાન દેશ પ્રાપ્ત કરે તેમ અકબર બાદશાહની આજ્ઞા પામીને આચાર્યદેવે વર્ષાકાળના પ્રારંભ સમયે ફતેહપુરથી વિહાર કરીને અનુક્રમે પિતાનાં ચરણકમલ વડે “આગ્રા” નગરને પવિત્ર કર્યું.
છે૧૨૯
न राजहंसाकचन प्रवासयन्त्रियोगिनोऽपि प्रणयंश्च निवृतान् । न दुर्दिनं कापि सृजस्तमोद्विषं न च द्विषनिर्दलयञ्जलोदयम् ॥ १३० ॥ मनोभवं वाभिभवन्गुरोर्महो न निनुवानः स्थिरतां पुनर्वहन् ।
अभूदपूर्वः प्रभुरम्बुदः पुरे जिनक्रमोपासनकदिवानिशम् ॥ १३१ ।। प्रभुहीरसूरिः पुरे तत्रागरानगरे अपूर्वोऽसाधारणोऽम्बुदो मेघोऽभूबभूव । किं कुर्वन् । राजसु नृपेषु हंसाः प्रधानास्तान्न प्रवासयन् न पीडयन् । आनन्दयन्नित्यर्थः । 'संहरति निर्दलयति निर्वासयति प्रवासयति' इति क्रियाकलापे हिंसार्थाः क्रियाः ।