________________
५२४
हीरसौभाग्यम्
[सर्ग १४ श्लो० १२६-१२८
तस्मिन् सरेरुपाश्रयसमागमनमहामहे प्रतापदेवीतनयः स्थानसिंहः अर्थिततेर्याचकोणेम. नारथानभिलाषान् समर्थयन् दरिद्रमुद्रां दुःखावस्थामभिनत्तमामतिशयेन भिनत्ति स्म । किंवत् । प्रवाहवत् । यथा प्रावृषि बहुसलिलभरनिर्भरातिसमुन्नमननिरन्तरनिष्पतन्नीरधाराधोरणीबन्धुरधाराधरसमये वार्धियोषितः समुद्रमहिलाया नद्याः प्रवाहः पानीयपूरः तटीं सरिभयसमीपोच्चभूमीम् । तीरभित्तिमित्यर्थः । भिनत्ति पाटयति ॥
શ્લોકાઈ વર્ષાઋતુમાં જેમ નદીઓને પ્રવાહ નદીના બંને કાંઠા ભેદે તેમ તે અવસરે પ્રતાપદેવીના પુત્ર થાનસિંહ યાચકવર્ગને મનેરને પૂર્ણ કરતા દરિદ્રતાના ભૂલને ભેદત डतो. ॥ १२६॥
तडिद्वता तस्य निजातिपातुको समीक्ष्य सर्वार्थिषु कामवर्षिताम् । शितीकृतास्येन पदं मुरद्विषो निषेव्यते तत्तुलनाकृते किमु ॥ १२७ ॥
तडिद्वता विद्युद्वनितानुषङ्गभाजा मेघेन तत्तुलनाकृते तदवसरदानशौण्डीभवत्स्थानसिंहसमानताप्राप्तये । उत्प्रेक्ष्यते-मुरद्विषः पदं निषेव्यते विष्णुपदं व्योम समुपास्यते इव । किंभूतेन तडिद्वता । शितीकृतं कृष्णं विहितमास्य वदनं येन । किं कृत्वा । तस्य थानसिंहस्य निजमात्मानमतिपतति अतिक्रामतीत्येवंशीलां निजातिपातुको काममतिशयेन कामानभिलाषान् वर्षति संपूरयति इत्येवंशीलः कामवर्षों तस्य भावस्तत्तां समीक्ष्य दृष्ट्वा। 'सरूपाणामकशेषः-' इत्येककामशब्दलोपः ॥ इति थानसिंहकृतसरिसमागममहोत्सवः ॥
શ્લોકાથ
તે અવસરે યાચકેની ઈચ્છાથી પણ અધિક દાન આપતા થાનસિંહની પિતાનાથી અધિક દાનવીરતાને જોઈને શ્યામ બની ગયેલા મુખવાળા મેઘવડે, થાનસિંહની તુલના પ્રાપ્ત કરવા માટે જ જાણે આકાશની સેવા કરાતી ન હોય? (મેઘ આકાશમાં હેય છે.) ૧૨૭
स्वकोशरक्षाधिकृतस्य भूमिमानिवाखिलक्षोणिजयार्जितैर्धनैः । विधाय कोशं नृपदत्तपुस्तकैः स स्थानसिंहस्य वशंवदं व्यधात् ॥ १२८ ॥
स हीरविजयसूरिः नृपेणाकब्बरसाहिना दत्तरुपदीकृतैः पुस्तकैः कोश भाण्डागार' विधाय स्वयं निष्पाद्य स्थानसिंहस्य वशंवदमायत्त व्यधाच्चक्रे । क इव । भूमिमानिव । यथा पृथ्वीपालः अखिलायाः समस्तायाः क्षोणेः पृथिव्या जयेन स्वायत्तीकरणेनार्जितैः सं. चितैर्धनैः द्रविणः । इदं तु साधितत्रिखण्डवसुधामण्डलस्यैव मण्डलीकस्य राजाधिराजस्य