________________
-
५२२
हीरसौभाग्यम् [सर्ग १४ श्लो० १२२-१२३
- तदा तस्मिन्व्यतिकरे प्रभुमूर्ध्नि हीरमृरेमस्तकोपरि कुलाङ्गनाभिः सुकुलोद्भवसधवव. धूमिहै मनानि हेनामिमानि सुवर्णसंबन्धीनि । 'हीराङ्करश्चारुणि हेमनीव' इति नैषधे । "हेमः अकारान्तः पुंनपुंसके नकारान्तस्तु नपुंसके एव' इति लिङ्गानुशासनावचौँ । प्रसू. 'नानि कुसुमानि । उपलक्षणात् रूप्यपुष्पाणि च । तथा मुक्ताफलानि मौक्तिकानि । तथा लाजा अक्षता उपलक्षणादक्षततन्दुलाश्च तेषां राजयः श्रेणयो ववर्षिरे वृष्टाः । काभिरिव । मेघपङिक्तभिरिव । यथा प्रावृषि वर्षाकाले धाराधरधोरणीभिगिरेः पर्वतस्य शिखरे श्रृङ्गोपरि अम्बुधाराः पयःप्रवाहाः वर्ण्यन्ते । 'वर्ष वर्षणे' धातुः । यदुक्तम्'गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः' इति वचनात् ।।
લેકાર્થ જેમ વર્ષાકાળમાં પર્વતના શિખર ઉપર મેઘપંક્તિ જલધારા વરસાવે તેમ હીર વિજયસૂરિના મસ્તક ઉપર કુલાંગનાએ સેનાચાંદીનાં ફૂલે, મેતી અને અક્ષતની શ્રેણિ વરસાવતી હતી. મેં ૧૨૨
पराय॒संख्यैः पुरुषैः परिष्कृतः प्रभुर्महे बिभ्रति मेदसां भरम् ।
चतुनिकायप्रभवैरिवामरैः प्रतिष्ठते स्म त्रिजगत्पुरंदरः ॥ १२३ ॥ प्रभुहीरसूरिः प्रतिष्ठते स्म । राजद्वारावसतिं प्रति प्रचलति स्म । कस्मिन् सति । महे थानसिंहादिश्राद्धजननिर्मितमहोत्सवे मेदसां पुष्टीनां भरमतिशय बिभ्रति धारयति सति । 'तपर्तुपूर्तावपि मेदसां भरा विभावरी भिभिरांबभूविरे' इति नैषधे । किंभूतैः पुरुषैः । परार्ध्याः सर्वोत्कृष्टाः लौकिकसंख्याः । यथा एकं दश शतं सहस्रमयुतं लक्ष प्रयुत कोटी अर्वमब्जं खर्व निखर्व महाम्बुज शङ्क वार्घिरन्त्यं मध्य परार्ध्यमेतत्प्रमा णैर्गणनातीतैर्मनुष्यैः प्रकृष्टा वा संख्या प्रमाणमुत्तमो विचारो धर्मतत्त्वादिको वितको येषाम् । 'संख्यकादौ विचारे च' इत्यनेकार्थः । 'पराय॑ च प्रकृष्टे स्यात्संख्यायामपि' इति अनेकार्थः । परिष्कृतः परीतः परिवृतः । क इव प्रतस्थे । त्रिजगत्पुरंदर इव । यथा जगत्रयीनायकस्तीर्थकरः चत्वारो निकाया नराणि भवनानि ज्योतिर्विमानानि कल्पविमानानि च ग्रहाणि येषां चत्वारो निकायाः संघाः समुदाया वा येषाम । अथ वा व्यन्तरभवनपतिज्योतिष्कवैमानिकलक्षणा निकाया वैक्रियशनिकामचारिदेवत्वेन समानधर्मिकजातिप्रभवः । 'निकायस्तु सधर्मिणाम्' इति हैम्याम् । 'निकायः सद्मसंधयोः । परमात्मनि लक्ष्ये च' इत्यनेकार्थः । तादृशैरमरैः । 'चतुर्विधामर्त्य निकायकोटिर्जवन्यभाषादपि पार्श्वदेशे' इति हैम्याम् । परिवारितः प्रतिष्ठते । पथीत्यध्याहारः ।।
ભુવનપતિ, વ્યંતર, જ્યોતિષી અને વૈમાનિક એ ચારે નિકાયનાં કોડે દેથી પરિવરેલા તીર્થંકર પરમાત્મા જેમ ચાલે તેમ થાનસિંહ આદિ શ્રાવકે એ મહોત્સવ કરતાં