________________
सर्ग १४ श्लो० १२०-१२२]
सौभाग्यम्
५२१
तदा तस्मिन्नवसरे भूर्भूमी पुरहूतवर्त्म नभोङ्गणः । 'बहुवगाढसुरेश्वराध्व' इति नैषधे । 'सुरेश्वरस्य शक्रस्य अध्वा मार्गः' इति तदर्थः । तयोर्विषये भूमिनभः प्रचारिणां भूचराणां समस्त मानवानां खेचराणामदृश्यान्तरिक्षचारिणां सिद्धगन्धर्वविद्याधराणां जिनशासनाधिष्ठायकसुराणां वा यानानां विविधगजवाजिशिबिका सुखासन स्पन्दानाम् । उपर्यारोहकत्वेनान्तरिक्षचारिता । तेषामुच्चैः स्थितत्वेन खेचराणां नराणां जयारवः जयजयेति निनादः अभवत्संजायते स्म । उत्प्रेक्ष्यते - सरेर्मुनीन्दोर्महिमानं माहात्म्य समीक्ष्य सम्यगवलोक्य हृदा मानसेन कृत्वा अभूतमाश्चर्य दधाने बिभ्राणे रोदसी भूमीनभसी दिवस्पृथिव्यौ वा स्तुतः स्तुतिं कुरुतः ॥
શ્લેાકાથ
તે અવસરે, ભૂચર અને ખેચરાના જયજયારવના કાલાહલ શબ્દ વડે ભૂમાગ અને આકાશમાર્ગ વ્યાપ્ત બન્યા. તે જાણે આચાય મહારાજના શ્રેષ્ઠ મહાત્મ્યને જોઈને હૃદયમાં હ ધારણ કરતા આકાશપૃથ્વી સૂરિજીની સ્તુતિ કરતાં ન હોય !!! ૧૨૦ ॥
मिलत्पयोवाहपयोधिगर्जितैरिवाहतातोद्यनिनादसान्द्रितैः । प्रमोदमाद्यतुमुलैस्तनूमतां जगत्तदा शब्दमयं स्म जायते ॥ १२१ ॥
तदा तस्मिन्वसतिसमागमनसमये तनूमतां भविकजनानां प्रमोदेन प्रोल्लसत्प्रबलनह्रादेन माद्यन्तो बहुलीभवन्तो ये तुमुला व्याकुलशब्दाः 'अध्वं धावत यात मुञ्चत पुरः पन्थानम्' इत्यादिकोलाहलास्तैः कृत्वा जगद्विश्वं शब्दमय केवलं नादस्वरूपं जायते स्म । किंभूतैः तुमुलैः । आहतानि हस्तदण्डादिभिस्ताडितानि उपलक्षणान्मुखैर्वादितानि च परस्परं दण्डैर्वा घर्षितानि आतोद्यानि नानाविधानि वादित्राणि तेषां निनादैर्निर्घोषः सान्द्रितैरन्ध्रीभूतैः । उत्प्रेक्ष्यते - मिलन्तः श्लिष्यन्तः दिग्दिग्भ्यः आगत्य एकीभवन्तो वा अविरलसलिलपटलैः पर्युन्नमन्तो वा पयोवाहाः प्रबलजलभृतगर्भघना यत्र तादृशस्य पयोधेर्गर्जितैर्गम्भीरधीरारवैरिव ॥
શ્લેાકાથ
તે અવસરે, દશેદિશાએથી એકીસાથે મળેલા જલથી પરિપૂર્ણ મેઘથી ગજનાસમાન અનેક પ્રકારનાં વાજિંત્રાના અવાજથી અને અતિઆનંદિત ખનેલા ભન્ય જીવાના આનંદપૂર્ણ કાલાહુલ શબ્દથી જગત શબ્દમય બની ગયું હતું. ૫ ૧૨૧ ॥
कुलाङ्गनाभिः प्रभुमूर्ध्नि मनप्रसून मुक्ताफल लाजराजिभिः ।
वर्षिरे प्रावृषि मेघपक्तिभिस्तदाम्बुधारा शिखरे गिरेखि ॥ १२२ ॥ हि० सौ० ६६